भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.64

1.64.1

कथं हि रक्षसा शक्तिर् भक्षितः सो ऽनुजैः सह
वासिष्ठो वदतां श्रेष्ठ सूत वक्तुमिहार्हसि ॥

1.64.2

राक्षसो रुधिरो नाम वसिष्ठस्य सुतं पुरा
शक्तिं स भक्षयामास शक्तेः शापात्सहानुजैः ॥

1.64.3

वसिष्ठयाज्यं विप्रेन्द्रास् तदादिश्यैव भूपतिम्
कल्माषपादं रुधिरो विश्वामित्रेण चोदितः ॥

1.64.4

भक्षितः स इति श्रुत्वा वसिष्ठस्तेन रक्षसा
शक्तिः शक्तिमतां श्रेष्ठो भ्रातृभिः सह धर्मवित् ॥

1.64.5

हा पुत्र पुत्र पुत्रेति क्रन्दमानो मुहुर्मुहुः
अरुन्धत्या सह मुनिः पपात भुवि दुःखितः ॥

1.64.6

नष्टं कुलमिति श्रुत्वा मर्तुं चक्रे मतिं तदा
स्मरन्पुत्रशतं चैव शक्तिज्येष्ठं च शक्तिमान् ॥

1.64.7

न तं विनाहं जीविष्ये इति निश्चित्य दुःखितः ॥

1.64.8

आरुह्य मूर्धानम् अजात्मजो ऽसौ तयात्मवान् सर्वविद् आत्मविच्च
धराधरस्यैव तदा धरायां पपात पत्न्या सह साश्रुदृष्टिः ॥

1.64.9

धराधरात्तं पतितं धरा तदा दधार तत्रापि विचित्रकण्ठी
करांबुजाभ्यां करिखेलगामिनी रुदन्तमादाय रुरोद सा च ॥

1.64.10

तदा तस्य स्नुषा प्राह पत्नी शक्तेर्महामुनिम्
वसिष्ठं वदतां श्रेष्ठं रुदन्ती भयविह्वला ॥

1.64.11

भगवन्ब्राह्मणश्रेष्ठ तव देहम् इदं शुभम्
पालयस्व विभो द्रष्टुं तव पौत्रं ममात्मजम् ॥

1.64.12

न त्याज्यं तव विप्रेन्द्र देहमेतत्सुशोभनम्
गर्भस्थो मम सर्वार्थ साधकः शक्तिजो यतः ॥

1.64.13

एवमुक्त्वाथ धर्मज्ञा कराभ्यां कमलेक्षणा
उत्थाप्य श्वशुरं नत्वा नेत्रे संमृज्य वारिणा ॥

1.64.14

दुःखितापि परित्रातुं श्वशुरं दुःखितं तदा
अरुन्धतीं च कल्याणीं प्रार्थयामास दुःखिताम् ॥

1.64.15

स्नुषावाक्यं ततः श्रुत्वा वसिष्ठ उत्थाय भूतलात्
संज्ञामवाप्य चालिङ्ग्य सा पपात सुदुःखिता ॥

1.64.16

अरुन्धती कराभ्यां तां संस्पृश्यास्राकुलेक्षणाम्
रुरोद मुनिशार्दूलो भार्यया सुतवत्सलः ॥

1.64.17

अथ नाभ्यंबुजे विष्णोर् यथा तस्याश्चतुर्मुखः
आसीनो गर्भशय्यायां कुमार ऋचमाह सः ॥

1.64.18

ततो निशम्य भगवान् वसिष्ठ ऋचमादरात्
केनोक्तमिति संचिन्त्य तदातिष्ठत्समाहितः ॥

1.64.19

व्योमाङ्गणस्थो ऽथ हरिः पुण्डरीकनिभेक्षणः
वसिष्ठमाह विश्वात्मा घृणया स घृणानिधिः ॥

1.64.20

भो वत्स वत्स विप्रेन्द्र वसिष्ठ सुतवत्सल
तव पौत्रमुखाम्भोजाद् ऋग् एषाद्य विनिःसृता ॥

1.64.21

मत्समस्तव पौत्रो ऽसौ शक्तिजः शक्तिमान्मुने
तस्मादुत्तिष्ठ संत्यज्य शोकं ब्रह्मसुतोत्तम ॥

1.64.22

रुद्रभक्तश् च गर्भस्थो रुद्रपूजापरायणः
रुद्रदेवप्रभावेण कुलं ते संतरिष्यति ॥

1.64.23

एवमुक्त्वा घृणी विप्रं भगवान् पुरुषोत्तमः
वसिष्ठं मुनिशार्दूलं तत्रैवान्तरधीयत ॥

1.64.24

ततः प्रणम्य शिरसा वसिष्ठो वारिजेक्षणम्
अदृश्यन्त्या महातेजाः पस्पर्शोदरमादरात् ॥

1.64.25

हा पुत्र पुत्र पुत्रेति पपात च सुदुःखितः
ललापारुन्धती प्रेक्ष्य तदासौ रुदतीं द्विजाः ॥

1.64.26

स्वपुत्रं च स्मरन् दुःखात् पुनरेह्येहि पुत्रक
तव पुत्रमिमं दृष्ट्वा भो शक्ते कुलधारणम् ॥

1.64.27

तवान्तिकं गमिष्यामि तव मात्रा न संशयः
एवमुक्त्वा रुदन्विप्र आलिङ्ग्यारुन्धतीं तदा ॥

1.64.28

पपात ताडयन्तीव स्वस्य कुक्षी करेण वै
अदृश्यन्ती जघानाथ शक्तिजस्यालयं शुभा ॥

1.64.29

स्वोदरं दुःखिता भूमौ ललाप च पपात च
अरुन्धति तदा भीता वसिष्ठश् च महामतिः ॥

1.64.30

समुत्थाप्य स्नुषां बालाम् ऊचतुर्भयविह्वलौ ॥

1.64.31

विचारमुग्धे तव गर्भमण्डलं करांबुजाभ्यां विनिहत्य दुर्लभम्
कुलं वसिष्ठस्य समस्तमप्यहो निहन्तुमार्ये कथमुद्यता वद ॥

1.64.32

तवात्मजं शक्तिसुतं च दृष्ट्वा चास्वाद्य वक्त्रामृतम् आर्यसूनोः
त्रातुं यतो देहमिमं मुनीन्द्रः सुनिश्चितः पाहि ततः शरीरम् ॥

1.64.33

एवं स्नुषामुपालभ्य मुनिं चारुन्धती स्थिता
अरुन्धती वसिष्ठस्य प्राह चार्तेति विह्वला ॥

1.64.34

त्वय्येव जीवितं चास्य मुनेर् यत् सुव्रते मम
जीवितं रक्ष देहस्य धात्री च कुरु यद्धितम् ॥

1.64.35

मया यदि मुनिश्रेष्ठस् त्रातुं वै निश्चितं स्वकम्
ममाशुभं शुभं देहं कथंचित् पालयाम्यहम् ॥

1.64.36

प्रियदुःखमहं प्राप्ता ह्य् असती नात्र संशयः
मुने दुःखादहं दग्धा यतः पुत्री मुने तव ॥

1.64.37

अहो ऽद्भुतं मया दृष्टं दुःखपात्री ह्यहं विभो
दुःखत्राता भव ब्रह्मन् ब्रह्मसूनो जगद्गुरो ॥

1.64.38

तथापि भर्तृरहिता दीना नारी भवेदिह
पाहि मां तत आर्येन्द्र परिभूता भविष्यति ॥

1.64.39

पिता माता च पुत्राश्च पौत्राः श्वशुर एव च
एते न बान्धवाः स्त्रीणां भर्ता बन्धुः परा गतिः ॥

1.64.40

आत्मनो यद्धि कथितम् अप्यर्धमिति पण्डितैः
तदप्यत्र मृषा ह्यासीद् गतः शक्तिरहं स्थिता ॥

1.64.41

अहो ममात्र काठिन्यं मनसो मुनिपुङ्गव
पतिं प्राणसमं त्यक्त्वा स्थिता यत्र क्षणं यतः ॥

1.64.42

वसिष्ठाश्वत्थमाश्रित्य ह्य् अमृता तु यथा लता
निर्मूलाप्यमृता भर्त्रा त्यक्ता दीना स्थिताप्यहम् ॥

1.64.43

स्नुषावाक्यं निशम्यैव वसिष्ठो भार्यया सह
तदा चक्रे मतिं धीमान् यातुं स्वाश्रममाश्रमी ॥

1.64.44

कृच्छ्रात्सभार्यो भगवान् वसिष्ठः स्वाश्रमं क्षणात्
अदृश्यन्त्या च पुण्यात्मा संविवेश स चिन्तयन् ॥

1.64.45

सा गर्भं पालयामास कथंचिन्मुनिपुङ्गवाः
कुलसंधारणार्थाय शक्तिपत्नी पतिव्रता ॥

1.64.46

ततः सासूत तनयं दशमे मासि सुप्रभम्
शक्तिपत्नी यथा शक्तिं शक्तिमन्तमरुन्धती ॥

1.64.47

असूत सा दितिर्विष्णुं यथा स्वाहा गुहं सुतम्
अग्निं यथारणिः पत्नी शक्तेः साक्षात्पराशरम् ॥

1.64.48

यदा तदा शक्तिसूनुर् अवतीर्णो महीतले
शक्तिस्त्यक्त्वा तदा दुःखं पितॄणां समतां ययौ ॥

1.64.49

भ्रातृभिः सह पुण्यात्मा आदित्यैर् इव भास्करः
रराज पितृलोकस्थो वासिष्ठो मुनिपुङ्गवाः ॥

1.64.50

जगुस्तदा च पितरो ननृतुश् च पितामहाः
प्रपितामहाश् च विप्रेन्द्रा ह्य् अवतीर्णे पराशरे ॥

1.64.51

ये ब्रह्मवादिनो भूमौ ननृतुर् दिवि देवताः
पुष्कराद्याश् च ससृजुः पुष्पवर्षं च खेचराः ॥

1.64.52

पुरेषु राक्षसानां च प्रणादं विषमं द्विजाः
आश्रमस्थाश् च मुनयः समूहुर्हर्षसंततिम् ॥

1.64.53

अवतीर्णो यथा ह्यण्डाद् भानुः सो ऽपि पराशरः
अदृश्यन्त्याश्चतुर्वक्त्रो मेघजालाद्दिवाकरः ॥

1.64.54

सुखं च दुःखमभवद् अदृश्यन्त्यास्तथा द्विजाः
दृष्ट्वा पुत्रं पतिं स्मृत्वा अरुन्धत्या मुनेस्तथा ॥

1.64.55

दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम्
ललाप विह्वला बाला सन्नकण्ठी पपात च ॥

1.64.56

सा पराशरमहो महामतिं देवदानवगणैश् च पूजितम्
जातमात्रम् अनघं शुचिस्मिता बुध्य साश्रुनयना ललाप च ॥

1.64.57

हा वसिष्ठसुत कुत्रचिद्गतः पश्य पुत्रमनघं तवात्मजम्
त्यज्य दीनवदनां वनान्तरे पुत्रदर्शनपरामिमां प्रभो ॥

1.64.58

शक्ते स्वं च सुतं पश्य भ्रातृभिः सह षण्मुखम्
यथा महेश्वरो ऽपश्यत् सगणो हृषिताननः ॥

1.64.59

अथ तस्यास्तदालापं वसिष्ठो मुनिसत्तमः
श्रुत्वा स्नुषामुवाचेदं मा रोदीर् इति दुःखितः ॥

1.64.60

आज्ञया तस्य सा शोकं वसिष्ठस्य कुलाङ्गना
त्यक्त्वा ह्यपालयद्बालं बाला बालमृगेक्षणा ॥

1.64.61

दृष्ट्वा तामबलां प्राह मङ्गलाभरणैर् विना
आसीनामाकुलां साध्वीं बाष्पपर्याकुलेक्षणाम् ॥

1.64.62

अम्ब मङ्गलविभूषणैर् विना देहयष्टिरनघे न शोभते
वक्तुमर्हसि तवाद्य कारणं चन्द्रबिंबरहितेव शर्वरी ॥

1.64.63

मातर्मातः कथं त्यक्त्वा मङ्गलाभरणानि वै
आसीना भर्तृहीनेव वक्तुमर्हसि शोभने ॥

1.64.64

अदृश्यन्ती तदा वाक्यं श्रुत्वा तस्य सुतस्य सा
न किंचिद् अब्रवीत् पुत्रं शुभं वा यदि वेतरत् ॥

1.64.65

अदृश्यन्तीं पुनः प्राह शाक्तेयो भगवान्मम
मातः कुत्र महातेजाः पिता वद वदेति ताम् ॥

1.64.66

श्रुत्वा रुरोद सा वाक्यं पुत्रस्यातीव विह्वला
भक्षितो रक्षसा तातस् तवेति निपपात च ॥

1.64.67

श्रुत्वा वसिष्ठो ऽपि पपात भूमौ पौत्रस्य वाक्यं स रुदन्दयालुः
अरुन्धती चाश्रमवासिनस्तदा मुनेर्वसिष्ठस्य मुनीश्वराश् च ॥

1.64.68

भक्षितो रक्षसा मातुः पिता तव मुखादिति
श्रुत्वा पराशरो धीमान् प्राह चास्राविलेक्षणः ॥

1.64.69

अभ्यर्च्य देवदेवेशं त्रैलोक्यं सचराचरम्
क्षणेन मातः पितरं दर्शयामीति मे मतिः ॥

1.64.70

सा निशम्य वचनं तदा शुभं सस्मिता तनयमाह विस्मिता
तथ्यम् एतदिति तं निरीक्ष्य सा पुत्र पुत्र भवमर्चयेति च ॥

1.64.71

ज्ञात्वा शक्तिसुतस्यास्य संकल्पं मुनिपुङ्गवः
वसिष्ठो भगवान्प्राह पौत्रं धीमान् घृणानिधिः ॥

1.64.72

स्थाने पौत्र मुनिश्रेष्ठ संकल्पस्तव सुव्रत
तथापि शृणु लोकस्य क्षयं कर्तुं न चार्हसि ॥

1.64.73

राक्षसानामभावाय कुरु सर्वेश्वरार्चनम्
त्रैलोक्यं शृणु शाक्तेय अपराध्यति किं तव ॥

1.64.74

ततस्तस्य वसिष्ठस्य नियोगाच्छक्तिनन्दनः
राक्षसानामभावाय मतिं चक्रे महामतिः ॥

1.64.75

अदृश्यन्तीं वसिष्ठं च प्रणम्यारुन्धतीं ततः
कृत्वैकलिङ्गं क्षणिकं पांसुना मुनिसन्निधौ ॥

1.64.76

सम्पूज्य शिवसूक्तेन त्र्यंबकेन शुभेन च
जप्त्वा त्वरितरुद्रं च शिवसंकल्पमेव च ॥

1.64.77

नीलरुद्रं च शाक्तेयस् तथा रुद्रं च शोभनम्
वामीयं पवमानं च पञ्चब्रह्म तथैव च ॥

1.64.78

होतारं लिङ्गसूक्तं च अथर्वशिर एव च
अष्टाङ्गमर्घ्यं रुद्राय दत्त्वाभ्यर्च्य यथाविधि ॥

1.64.79

भगवन्रक्षसा रुद्र भक्षितो रुधिरेण वै
पिता मम महातेजा भ्रातृभिः सह शङ्कर ॥

1.64.80

द्रष्टुमिच्छामि भगवन् पितरं भ्रातृभिः सह
एवं विज्ञापयांल्लिङ्गं प्रणिपत्य मुहुर्मुहुः ॥

1.64.81

हा रुद्र रुद्र रुद्रेति रुरोद निपपात च
तं दृष्ट्वा भगवान्रुद्रो देवीमाह च शङ्करः ॥

1.64.82

पश्य बालं महाभागे बाष्पपर्याकुलेक्षणम्
ममानुस्मरणे युक्तं मदाराधनतत्परम् ॥

1.64.83

सा च दृष्ट्वा महादेवी पराशरमनिन्दिता
दुःखात् संक्लिन्नसर्वाङ्गम् अस्राकुलविलोचनम् ॥

1.64.84

लिङ्गार्चनविधौ सक्तं हर रुद्रेति वादिनम्
प्राह भर्तारमीशानं शङ्करं जगतामुमा ॥

1.64.85

ईप्सितं यच्छ सकलं प्रसीद परमेश्वर
निशम्य वचनं तस्याः शङ्करः परमेश्वरः ॥

1.64.86

भार्यामार्यामुमां प्राह ततो हालाहलाशनः
रक्षाम्येनं द्विजं बालं फुल्लेन्दीवरलोचनम् ॥

1.64.87

ददामि दृष्टिं मद्रूप दर्शनक्षम एष वै
एवमुक्त्वा गणैर् दिव्यैर् भगवान्नीललोहितः ॥

1.64.88

ब्रह्मेन्द्रविष्णुरुद्राद्यैः संवृतः परमेश्वरः
ददौ च दर्शनं तस्मै मुनिपुत्राय धीमते ॥

1.64.89

सो ऽपि दृष्ट्वा महादेवम् आनन्दास्राविलेक्षणः
निपपात च हृष्टात्मा पादयोस्तस्य सादरम् ॥

1.64.90

पुनर्भवान्याः पादौ च नन्दिनश् च महात्मनः
सफलं जीवितं मे ऽद्य ब्रह्माद्यांस्तांस्तदाह सः ॥

1.64.91

रक्षार्थमागतस्त्वद्य मम बालेन्दुभूषणः
को ऽन्यः समो मया लोके देवो वा दानवो ऽपि वा ॥

1.64.92

अथ तस्मिन्क्षणादेव ददर्श दिवि संस्थितम्
पितरं भ्रातृभिः सार्धं शाक्तेयस्तु पराशरः ॥

1.64.93

सूर्यमण्डलसंकाशे विमाने विश्वतोमुखे
भ्रातृभिः सहितं दृष्ट्वा ननाम च जहर्ष च ॥

1.64.94

तदा वृषध्वजो देवः सभार्यः सगणेश्वरः
वसिष्ठपुत्रं प्राहेदं पुत्रदर्शनतत्परम् ॥

1.64.95

शक्ते पश्य सुतं बालम् आनन्दास्राविलेक्षणम्
अदृश्यन्तीं च विप्रेन्द्र वसिष्ठं पितरं तव ॥

1.64.96

अरुन्धतीं महाभागां कल्याणीं देवतोपमाम्
मातरं पितरं चोभौ नमस्कुरु महामते ॥

1.64.97

तदा हरं प्रणम्याशु देवदेवमुमां तथा
वसिष्ठं च तदा श्रेष्ठं शक्तिर् वै शङ्कराज्ञया ॥

1.64.98

मातरं च महाभागां कल्याणीं पतिदेवताम्
अरुन्धतीं जगन्नाथ नियोगात्प्राह शक्तिमान् ॥

1.64.99

भो वत्स वत्स विप्रेन्द्र पराशर महाद्युते
रक्षितो ऽहं त्वया तात गर्भस्थेन महात्मना ॥

1.64.100

अणिमादिगुणैश्वर्यं मया वत्स पराशर
लब्धमद्याननं दृष्टं तव बाल ममाज्ञया ॥

1.64.101

अदृश्यन्तीं महाभागां रक्ष वत्स महामते
अरुन्धतीं च पितरं वसिष्ठं मम सर्वदा ॥

1.64.102

अन्वयः सकलो वत्स मम संतारितस्त्वया
पुत्रेण लोकाञ्जयतीत्य् उक्तं सद्भिः सदैव हि ॥

1.64.103

ईप्सितं वरयेशानं जगतां प्रभवं प्रभुम्
गमिष्याम्यभिवन्द्येशं भ्रातृभिः सह शङ्करम् ॥

1.64.104

एवं पुत्रमुपामन्त्र्य प्रणम्य च महेश्वरम्
निरीक्ष्य भार्यां सदसि जगाम पितरं वशी ॥

1.64.105

गतं दृष्ट्वाथ पितरं तदाभ्यर्च्यैव शङ्करम्
तुष्टाव वाग्भिर् इष्टाभिः शाक्तेयः शशिभूषणम् ॥

1.64.106

ततस्तुष्टो महादेवो मन्मथान्धकमर्दनः
अनुगृह्याथ शाक्तेयं तत्रैवान्तरधीयत ॥

1.64.107

गते महेश्वरे सांबे प्रणम्य च महेश्वरम्
ददाह राक्षसानां तु कुलं मन्त्रेण मन्त्रवित् ॥

1.64.108

तदाह पौत्रं धर्मज्ञो वसिष्ठो मुनिभिर् वृतः
अलम् अत्यन्तकोपेन तात मन्युमिमं जहि ॥

1.64.109

राक्षसा नापराध्यन्ति पितुस् ते विहितं तथा
मूढानामेव भवति क्रोधो बुद्धिमतां न हि ॥

1.64.110

हन्यते तात कः केन यतः स्वकृतभुक्पुमान्
संचितस्यातिमहता वत्स क्लेशेन मानवैः ॥

1.64.111

यशसस्तपसश्चैव क्रोधो नाशकरः स्मृतः
अलं हि राक्षसैर् दग्धैर् दीनैर् अनपराधिभिः ॥

1.64.112

सत्रं ते विरमत्वेतत् क्षमासारा हि साधवः
एवं वसिष्ठवाक्येन शाक्तेयो मुनिपुङ्गवः ॥

1.64.113

उपसंहृतवान् सत्रं सद्यस्तद्वाक्यगौरवात्
ततः प्रीतश् च भगवान् वसिष्ठो मुनिसत्तमः ॥

1.64.114

सम्प्राप्तश् च तदा सत्रं पुलस्त्यो ब्रह्मणः सुतः
वसिष्ठेन तु दत्तार्घ्यः कृतासनपरिग्रहः ॥

1.64.115

पराशरमुवाचेदं प्रणिपत्य स्थितं मुनिः
वैरे महति यद्वाक्याद् गुरोर् अद्याश्रिता क्षमा ॥

1.64.116

त्वया तस्मात्समस्तानि भवाञ्छास्त्राणि वेत्स्यति
संततेर्मम न छेदः क्रुद्धेनापि यतः कृतः ॥

1.64.117

त्वया तस्मान्महाभाग ददाम्यन्यं महावरम्
पुराणसंहिताकर्ता भवान्वत्स भविष्यति ॥

1.64.118

देवतापरमार्थं च यथावद्वेत्स्यते भवान्
प्रवृत्तौ वा निवृत्तौ वा कर्मणस् ते ऽमला मतिः ॥

1.64.119

मत्प्रसादादसंदिग्धा तव वत्स भविष्यति
ततश् च प्राह भगवान् वसिष्ठो वदतां वरः ॥

1.64.120

पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति
अथ तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः ॥

1.64.121

प्रसादाद्वैष्णवं चक्रे पुराणं वै पराशरः
षट्प्रकारं समस्तार्थ साधकं ज्ञानसंचयम् ॥

1.64.122

षट्साहस्रमितं सर्वं वेदार्थेन च संयुतम्
चतुर्थं हि पुराणानां संहितासु सुशोभनम् ॥

1.64.123

एष वः कथितः सर्वो वासिष्ठानां समासतः
प्रभवः शक्तिसूनोश् च प्रभावो मुनिपुङ्गवाः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc