लिङ्गपुराण · अध्याय 1.65
आदित्यवंशं सोमस्य वंशं वंशविदां वर
वक्तुमर्हसि चास्माकं संक्षेपाद् रोमहर्षण ॥
अदितिः सुषुवे पुत्रम् आदित्यं कश्यपाद्द्विजाः
तस्यादित्यस्य चैवासीद् भार्या त्रयम् अथापरम् ॥
संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां वदामि वः
संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ॥
यमं च यमुनां चैव राज्ञी रेवतमेव च
प्रभा प्रभातम् आदित्याच् छायां संज्ञाप्यकल्पयत् ॥
छाया च तस्मात्सुषुवे सावर्णिं भास्कराद्द्विजाः
ततः शनिं च तपतीं विष्टिं चैव यथाक्रमम् ॥
छाया स्वपुत्राभ्यधिकं स्नेहं चक्रे मनौ तदा
पूर्वो मनुर्न चक्षाम यमस्तु क्रोधमूर्छितः ॥
संताडयामास रुषा पादमुद्यम्य दक्षिणम्
यमेन ताडिता सा तु छाया वै दुःखिताभवत् ॥
छायाशापात् पदं चैकं यमस्य क्लिन्नमुत्तमम्
पूयशोणितसम्पूर्णं कृमीणां निचयान्वितम् ॥
सो ऽपि गोकर्णमाश्रित्य फलकेनानिलाशनः
आराधयन्महादेवं यावद्वर्षायुतायुतम् ॥
भवप्रसादाद् आगत्य लोकपालत्वमुत्तमम्
पितॄणामाधिपत्यं तु शापमोक्षं तथैव च ॥
लब्धवान्देवदेवस्य प्रभावाच्छूलपाणिनः
असहन्ती पुरा भानोस् तेजोमयम् अनिन्दिता ॥
रूपं त्वाष्ट्री स्वदेहात्तु छायाख्यां सा त्वकल्पयत्
वडवारूपमास्थाय तपस्तेपे तु सुव्रता ॥
कालात्प्रयत्नतो ज्ञात्वा छायां छायापतिः प्रभुः
वडवामगमत्संज्ञाम् अश्वरूपेण भास्करः ॥
वडवा च तदा त्वाष्ट्री संज्ञा तस्माद्दिवाकरात्
सुषुवे चाश्विनौ देवौ देवानां तु भिषग्वरौ ॥
लिखितो भास्करः पश्चात् संज्ञापित्रा महात्मना
विष्णोश्चक्रं तु यद्घोरं मण्डलाद्भास्करस्य तु ॥
निर्ममे भगवांस्त्वष्टा प्रधानं दिव्यमायुधम्
रुद्रप्रसादाच्च शुभं सुदर्शनमिति स्मृतम् ॥
लब्धवान् भगवांश्चक्रं कृष्णः कालाग्निसन्निभम्
मनोस्तु प्रथमस्यासन् नव पुत्रास्तु तत्समाः ॥
इक्ष्वाकुर् नभगश् चैव धृष्णुः शर्यातिरेव च
नरिष्यन्तश् च वै धीमान् नाभागो ऽरिष्ट एव च ॥
करूषश् च पृषध्रश् च नवैते मानवाः स्मृताः
इला ज्येष्ठा वरिष्ठा च पुंस्त्वं प्राप च या पुरा ॥
सुद्युम्न इति विख्याता पुंस्त्वं प्राप्ता त्विला पुरा
मित्रावरुणयोस्त्वत्र प्रसादान्मुनिपुङ्गवाः ॥
पुनः शरवणं प्राप्य स्त्रीत्वं प्राप्तो भवाज्ञया
सुद्युम्नो मानवः श्रीमान् सोमवंशप्रवृद्धये ॥
इक्ष्वाकोरश्वमेधेन इला किंपुरुषो ऽभवत्
इला किंपुरुषत्वे च सुद्युम्न इति चोच्यते ॥
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः
इला बुधस्य भवनं सोमपुत्रस्य चाश्रिता ॥
बुधेनान्तरमासाद्य मैथुनाय प्रवर्तिता
सोमपुत्राद्बुधाच्चापि ऐलो जज्ञे पुरूरवाः ॥
सोमवंशाग्रजो धीमान् भवभक्तः प्रतापवान्
इक्ष्वाकोर्वंशविस्तारं पश्चाद्वक्ष्ये तपोधनाः ॥
पुत्रत्रयमभूत्तस्य सुद्युम्नस्य द्विजोत्तमाः
उत्कलश् च गयश्चैव विनताश्वस्तथैव च ॥
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम्
गया गयस्य चाख्याता पुरी परमशोभना ॥
सुराणां संस्थितिर्यस्यां पितॄणां च सदा स्थितिः
इक्ष्वाकुज्येष्ठदायादो मध्यदेशम् अवाप्तवान् ॥
कन्याभावाच्च सुद्युम्नो नैव भागमवाप्तवान्
वसिष्ठवचनात् त्वासीत् प्रतिष्ठाने महाद्युतिः ॥
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः
तत्पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥
मानवेयो महाभागः स्त्रीपुंसोर्लक्षणान्वितः
इक्ष्वाकोरभवद्वीरो विकुक्षिर्धर्मवित्तमः ॥
ज्येष्ठः पुत्रशतस्यासीद् दश पञ्च च तत्सुताः
अभूज्ज्येष्ठः ककुत्स्थश् च ककुत्स्थात्तु सुयोधनः ॥
ततः पृथुर्मुनिश्रेष्ठा विश्वकः पार्थिवस् तथा
विश्वकस्यार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ॥
शाबस्तिश् च महातेजा वंशकस्तु ततो ऽभवत्
निर्मिता येन शाबस्ती गौडदेशे द्विजोत्तमाः ॥
वंशाच्च बृहदश्वो ऽभूत् कुवलाश्वस्तु तत्सुतः
धुन्धुमारत्वमापन्नो धुन्धुं हत्वा महाबलम् ॥
धुन्धुमारस्य तनयास् त्रयस्त्रैलोक्यविश्रुताः
दृढाश्वश्चैव चण्डाश्वः कपिलाश्वश् च ते स्मृताः ॥
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य वै सुतः
हर्यश्वस्य निकुम्भस्तु संहताश्वस्तु तत्सुतः ॥
कृशाश्वो ऽथ रणाश्वश् च संहताश्वात्मजावुभौ
युवनाश्वो रणाश्वस्य मान्धाता तस्य वै सुतः ॥
मान्धातुः पुरुकुत्सो ऽभूद् अम्बरीषश् च वीर्यवान्
मुचुकुन्दश् च पुण्यात्मा त्रयस्त्रैलोक्यविश्रुताः ॥
अंबरीषस्य दायादो युवनाश्वो ऽपरः स्मृतः
हरितो युवनाश्वस्य हरितास्तु यतः स्मृताः ॥
एते ह्यङ्गिरसः पक्षे क्षत्रोपेता द्विजातयः
पुरुकुत्सस्य दायादस् त्रसद्दस्युर् महायशाः ॥
नर्मदायां समुत्पन्नः सम्भूतिस्तस्य चात्मजः
विष्णुवृद्धः सुतस्तस्य विष्णुवृद्धा यतः स्मृताः ॥
एते ह्यङ्गिरसः पक्षे क्षत्रोपेताः समाश्रिताः
सम्भूतिरपरं पुत्रम् अनरण्यमजीजनत् ॥
रावणेन हतो यो ऽसौ त्रैलोक्यविजये द्विजाः
बृहदश्वो ऽनरण्यस्य हर्यश्वस्तस्य चात्मजः ॥
हर्यश्वात्तु दृषद्वत्यां जज्ञे वसुमना नृपः
तस्य पुत्रो ऽभवद्राजा त्रिधन्वा भवभावितः ॥
प्रसादाद् ब्रह्मसूनोर् वै तण्डिनः प्राप्य शिष्यताम्
अश्वमेधसहस्रस्य फलं प्राप्य तदाज्ञया ॥
गणैश्वर्यमनुप्राप्तो भवभक्तः प्रतापवान्
कथं चैवाश्वमेधं वै करोमीति विचिन्तयन् ॥
धनहीनश् च धर्मात्मा दृष्टवान् ब्रह्मणः सुतम्
तण्डिसंज्ञं द्विजं तस्माल् लब्धवान्द्विजसत्तमाः ॥
नाम्नां सहस्रं रुद्रस्य ब्रह्मणा कथितं पुरा
तेन नाम्नां सहस्रेण स्तुत्वा तण्डिर्महेश्वरम् ॥
लब्धवान्गाणपत्यं च ब्रह्मयोनिर्द्विजोत्तमः
ततस्तस्मान्नृपो लब्ध्वा तण्डिना कथितं पुरा ॥
नाम्नां सहस्रं जप्त्वा वै गाणपत्यमवाप्तवान्
नाम्नां सहस्रं रुद्रस्य ताण्डिना ब्रह्मयोनिना ॥
कथितं सर्ववेदार्थ संचयं सूत सुव्रत
नाम्नां सहस्रं विप्राणां वक्तुम् अर्हसि शोभनम् ॥
सर्वभूतात्मभूतस्य हरस्यामिततेजसः
अष्टोत्तरसहस्रं तु नाम्नां शृणुत सुव्रताः ॥
यज्जप्त्वा तु मुनिश्रेष्ठा गाणपत्यमवाप्तवान्
ओं स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ॥
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः
जटी दण्डी शिखण्डी च सर्वगः सर्वभावनः ॥
हरिश् च हरिणाक्षश् च सर्वभूतहरः स्मृतः
प्रवृत्तिश् च निवृत्तिश् च शान्तात्मा शाश्वतो ध्रुवः ॥
श्मशानवासी भगवान् खचरो गोचरो ऽर्दनः
अभिवाद्यो महाकर्मा तपस्वी भूतधारणः ॥
उन्मत्तवेषः प्रच्छन्नः सर्वलोकः प्रजापतिः
महारूपो महाकायः सर्वरूपो महायशाः ॥
महात्मा सर्वभूतश् च विरूपो वामनो नरः
लोकपालो ऽन्तर्हितात्मा प्रसादो ऽभयदो विभुः ॥
पवित्रश् च महांश्चैव नियतो नियताश्रयः
स्वयंभूः सर्वकर्मा च आदिरादिकरो निधिः ॥
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः
चन्द्रः सूर्यः शनिः केतुर् ग्रहो ग्रहपतिर्मतः ॥
राजा राज्योदयः कर्ता मृगबाणार्पणो घनः
महातपा दीर्घतपा अदृश्यो धनसाधकः ॥
संवत्सरः कृतीमन्त्रः प्राणायामः परंतपः
योगी योगो महाबीजो महारतो महाबलः ॥
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ॥
विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलाग्रणीः
गणकर्ता गणपतिर् दिग्वासाः काम्य एव च ॥
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥
शरी शतघ्नी खड्गी च पट्टिशी चायुधी महान्
अजश् च मृगरूपश् च तेजस्तेजस्करो विधिः ॥
उष्णीषी च सुवक्त्रश् च उदग्रो विनतस् तथा
दीर्घश् च हरिकेशश् च सुतीर्थः कृष्ण एव च ॥
शृगालरूपः सर्वार्थो मुण्डः सर्वशुभङ्करः
सिंहशार्दूलरूपश् च गन्धकारी कपर्द्यपि ॥
ऊर्ध्वरेतोर्ध्वलिङ्गी च ऊर्ध्वशायी नभस्तलः
त्रिजटी चीरवासाश् च रुद्रः सेनापतिर् विभुः ॥
अहोरात्रं च नक्तं च तिग्ममन्युः सुवर्चसः
गजहा दैत्यहा कालो लोकधाता गुणाकरः ॥
सिंहशार्दूलरूपाणाम् आर्द्रचर्मांबरंधरः
कालयोगी महानादः सर्वावासश्चतुष्पथः ॥
निशाचरः प्रेतचारी सर्वदर्शी महेश्वरः
बहुभूतो बहुधनः सर्वसारो ऽमृतेश्वरः ॥
नृत्यप्रियो नित्यनृत्यो नर्तनः सर्वसाधकः
सकार्मुको महाबाहुर् महाघोरो महातपाः ॥
महाशरो महापाशो नित्यो गिरिचरो मतः
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः
दक्षहा परिचारी च प्रहसो मध्यमस् तथा ॥
तेजो ऽपहारी बलवान् विदितो ऽभ्युदितो बहुः
गंभीरघोषो योगात्मा यज्ञहा कामनाशनः ॥
गंभीररोषो गंभीरो गंभीरबलवाहनः
न्यग्रोधरूपो न्यग्रोधो विश्वकर्मा च विश्वभुक् ॥
तीक्ष्णोपायश् च हर्यश्वः सहायः कर्मकालवित्
विष्णुः प्रसादितो यज्ञः समुद्रो वडवामुखः ॥
हुताशनसहायश् च प्रशान्तात्मा हुताशनः
उग्रतेजा महातेजा जयो विजयकालवित् ॥
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च
खड्गी शङ्खी जटी ज्वाली खचरो द्युचरो बली ॥
वैणवी पणवी कालः कालकण्ठः कटंकटः
नक्षत्रविग्रहो भावो निभावः सर्वतोमुखः ॥
विमोचनस्तु शरणो हिरण्यकवचोद्भवः
मेखलाकृतिरूपश् च जलाचारः स्तुतस् तथा ॥
वीणी च पणवी ताली नाली कलिकटुस् तथा
सर्वतूर्यनिनादी च सर्वव्याप्यपरिग्रहः ॥
व्यालरूपी बिलावासी गुहावासी तरंगवित्
वृक्षः श्रीमालकर्मा च सर्वबन्धविमोचनः ॥
बन्धनस्तु सुरेन्द्राणां युधि शत्रुविनाशनः
सखा प्रवासो दुर्वापः सर्वसाधुनिषेवितः ॥
प्रस्कन्दो ऽप्यविभावश् च तुल्यो यज्ञविभागवित्
सर्ववासः सर्वचारी दुर्वासा वासवो मतः ॥
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः
आकाशो निर्विरूपश् च विवासा उरगः खगः ॥
भिक्षुश् च भिक्षुरूपी च रौद्ररूपः सुरूपवान्
वसुरेताः सुवचस्वी वसुवेगो महाबलः ॥
मनोवेगो निशाचारः सर्वलोकशुभप्रदः
सर्वावासी त्रयीवासी उपदेशकरो धरः ॥
मुनिरात्मा मुनिर् लोकः सभाग्यश् च सहस्रभुक्
पक्षी च पक्षरूपश् च अतिदीप्तो निशाकरः ॥
समीरो दमनाकारो ह्य् अर्थो ह्यर्थकरो वशः
वासुदेवश् च देवश् च वामदेवश् च वामनः ॥
सिद्धियोगापहारी च सिद्धः सर्वार्थसाधकः
अक्षुण्णः क्षुण्णरूपश् च वृषणो मृदुर् अव्ययः ॥
महासेनो विशाखश् च षष्टिभागो गवां पतिः
चक्रहस्तस्तु विष्टम्भी मूलस्तम्भन एव च ॥
ऋतुरृतुकरस्तालो मधुर्मधुकरो वरः
वानस्पत्यो वाजसनो नित्यमाश्रमपूजितः ॥
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित्
ईशान ईश्वरः कालो निशाचारी ह्यनेकदृक् ॥
निमित्तस्थो निमित्तं च नन्दिर् नन्दिकरो हरः
नन्दीश्वरः सुनन्दी च नन्दनो विषमर्दनः ॥
भगहारी नियन्ता च कालो लोकपितामहः
चतुर्मुखो महालिङ्गश् चारुलिङ्गस्तथैव च ॥
लिङ्गाध्यक्षः सुराध्यक्षः कालाध्यक्षो युगावहः
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥
इतिहासश् च कल्पश् च दमनो जगदीश्वरः
दम्भो दम्भकरो दाता वंशो वंशकरः कलिः ॥
लोककर्ता पशुपतिर् महाकर्ता ह्यधोक्षजः
अक्षरं परमं ब्रह्म बलवाञ्छुक्त एव च ॥
नित्यो ह्यनीशः शुद्धात्मा शुद्धो मानो गतिर्हविः
प्रासादस्तु बलो दर्पो दर्पणो हव्य इन्द्रजित् ॥
वेदकारः सूत्रकारो विद्वांश् च परमर्दनः
महामेघनिवासी च महाघोरो वशीकरः ॥
अग्निज्वालो महाज्वालः परिधूम्रावृतो रविः
धिषणः शङ्करो नित्यो वर्चस्वी धूम्रलोचनः ॥
नीलस् तथाङ्गलुप्तश् च शोभनो नरविग्रहः
स्वस्ति स्वस्तिस्वभावश् च भोगी भोगकरो लघुः ॥
उत्सङ्गश् च महाङ्गश् च महागर्भः प्रतापवान्
कृष्णवर्णः सुवर्णश् च इन्द्रियः सर्ववर्णिकः ॥
महापादो महाहस्तो महाकायो महायशाः
महामूर्धा महामात्रो महामित्रो नगालयः ॥
महास्कन्धो महाकर्णो महोष्ठश् च महाहनुः
महानासो महाकण्ठो महाग्रीवः श्मशानवान् ॥
महाबलो महातेजा ह्य् अन्तरात्मा मृगालयः
लम्बितोष्ठश् च निष्ठश् च महामायः पयोनिधिः ॥
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः
महानखो महारोमा महाकेशो महाजटः ॥
असपत्नः प्रसादश् च प्रत्ययो गीतसाधकः
प्रस्वेदनो ऽस्वेदनश् च आदिकश् च महामुनिः ॥
वृषको वृषकेतुश् च अनलो वायुवाहनः
मण्डली मेरुवासश् च देववाहन एव च ॥
अथर्वशीर्षः सामास्य ऋक्सहस्रोर्जितेक्षणः
यजुः पादभुजो गुह्यः प्रकाशौजास्तथैव च ॥
अमोघार्थप्रसादश् च अन्तर्भाव्यः सुदर्शनः
उपहारः प्रियः सर्वः कनकः काञ्चनस्थितः ॥
नाभिर् नन्दिकरो हर्म्यः पुष्करः स्थपतिः स्थितः
सर्वशास्त्रो धनश्चाद्यो यज्ञो यज्वा समाहितः ॥
नगो नीलः कविः कालो मकरः कालपूजितः
सगणो गणकारश् च भूतभावनसारथिः ॥
भस्मशायी भस्मगोप्ता भस्मभूततनुर्गणः
आगमश् च विलोपश् च महात्मा सर्वपूजितः ॥
शुक्लः स्त्रीरूपसम्पन्नः शुचिर्भूतनिषेवितः
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्विराट् ॥
विशालशाखस् ताम्रोष्ठो ह्य् अम्बुजालः सुनिश्चितः
कपिलः कलशः स्थूल आयुधश्चैव रोमशः ॥
गन्धर्वो ह्यदितिस्तार्क्ष्यो ह्य् अविज्ञेयः सुशारदः
परश्वधायुधो देवो ह्य् अर्थकारी सुबान्धवः ॥
तुम्बवीणो महाकोप ऊर्ध्वरेता जलेशयः
उग्रो वंशकरो वंशो वंशवादी ह्यनिन्दितः ॥
सर्वाङ्गरूपी मायावी सुहृदो ह्यनिलो बलः
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥
राक्षसघ्नो ऽथ कामारिर् महादंष्ट्रो महायुधः
लम्बितो लम्बितोष्ठश् च लम्बहस्तो वरप्रदः ॥
बाहुस्त्वनिन्दितः सर्वः शङ्करो ऽथाप्यकोपनः
अमरेशो महाघोरो विश्वदेवः सुरारिहा ॥
अहिर्बुध्न्यो निरृतिश् च चेकितानो हली तथा
अजैकपाच्च कापाली शं कुमारो महागिरिः ॥
धन्वन्तरिर्धूमकेतुः सूर्यो वैश्रवणस् तथा
धाता विष्णुश् च शक्रश् च मित्रस्त्वष्टा धरो ध्रुवः ॥
प्रभासः पर्वतो वायुर् अर्यमा सविता रविः
धृतिश्चैव विधाता च मान्धाता भूतभावनः ॥
नीरस्तीर्थश् च भीमश् च सर्वकर्मा गुणोद्वहः
पद्मगर्भो महागर्भश् चन्द्रवक्त्रो नभो ऽनघः ॥
बलवांश्चोपशान्तश् च पुराणः पुण्यकृत्तमः
क्रूरकर्ता क्रूरवासी तनुरात्मा महौषधः ॥
सर्वाशयः सर्वचारी प्राणेशः प्राणिनां पतिः
देवदेवः सुखोत्सिक्तः सदसत्सर्वरत्नवित् ॥
कैलासस्थो गुहावासी हिमवद्गिरिसंश्रयः
कुलहारी कुलाकर्ता बहुवित्तो बहुप्रजः ॥
प्राणेशो बन्धकी वृक्षो नकुलश् चाद्रिकस् तथा
ह्रस्वग्रीवो महाजानुर् अलोलश् च महौषधिः ॥
सिद्धान्तकारी सिद्धार्थश् छन्दो व्याकरणोद्भवः
सिंहनादः सिंहदंष्ट्रः सिंहास्यः सिंहवाहनः ॥
प्रभावात्मा जगत्कालः कालः कम्पी तरुस्तनुः
सारङ्गो भूतचक्राङ्कः केतुमाली सुवेधकः ॥
भूतालयो भूतपतिर् अहोरात्रो मलो ऽमलः
वसुभृत् सर्वभूतात्मा निश्चलः सुविदुर् बुधः ॥
असुहृत्सर्वभूतानां निश्चलश्चलविद्बुधः
अमोघः संयमो हृष्टो भोजनः प्राणधारणः ॥
धृतिमान्मतिमांस्त्र्यक्षः सुकृतस्तु युधांपतिः
गोपालो गोपतिर्ग्रामो गोचर्मवसनो हरः ॥
हिरण्यबाहुश् च तथा गुहावासः प्रवेशनः
महामना महाकामश् चित्तकामो जितेन्द्रियः ॥
गान्धारश् च सुरापश् च तापकर्मरतो हितः
महाभूतो भूतवृतो ह्य् अप्सरोगणसेवितः ॥
महाकेतुर् धराधाता नैकतानरतः स्वरः
अवेदनीय आवेद्यः सर्वगश् च सुखावहः ॥
तारणश्चरणो धाता परिधा परिपूजितः
संयोगी वर्धनो वृद्धो गणिको ऽथ गणाधिपः ॥
नित्यो धाता सहायश् च देवासुरपतिः पतिः
युक्तश् च युक्तबाहुश् च सुदेवो ऽपि सुपर्वणः ॥
आषाढश् च सुषाढश् च स्कन्धदो हरितो हरः
वपुरावर्तमानो ऽन्यो वपुःश्रेष्ठो महावपुः ॥
शिरोविमर्शनः सर्व लक्ष्यलक्षणभूषितः
अक्षयो रथगीतश् च सर्वभोगी महाबलः ॥
साम्नायो ऽथ महाम्नायस् तीर्थदेवो महायशाः
निर्जीवो जीवनो मन्त्रः सुभगो बहुकर्कशः ॥
रत्नभूतो ऽथ रत्नाङ्गो महार्णवनिपातवित्
मूलं विशालो ह्यमृतं व्यक्ताव्यक्तस्तपोनिधिः ॥
आरोहणो ऽधिरोहश् च शीलधारी महातपाः
महाकण्ठो महायोगी युगो युगकरो हरिः ॥
युगरूपो महारूपो वहनो गहनो नगः
न्यायो निर्वापणो ऽपादः पण्डितो ह्यचलोपमः ॥
बहुमालो महामालः शिपिविष्टः सुलोचनः
विस्तारो लवणः कूपः कुसुमाङ्गः फलोदयः ॥
ऋषभो वृषभो भङ्गो मणिबिम्बजटाधरः
इन्दुर्विसर्गः सुमुखः शूरः सर्वायुधः सहः ॥
निवेदनः सुधाजातः स्वर्गद्वारो महाधनुः
गिरावासो विसर्गश् च सर्वलक्षणलक्षवित् ॥
गन्धमाली च भगवान् अनन्तः सर्वलक्षणः
संतानो बहुलो बाहुः सकलः सर्वपावनः ॥
करस्थाली कपाली च ऊर्ध्वसंहननो युवा
यन्त्रतन्त्रसुविख्यातो लोकः सर्वाश्रयो मृदुः ॥
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः
वार्यक्षः ककुभो वज्री दीप्ततेजाः सहस्रपात् ॥
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः
ब्रह्मदण्डविनिर्माता शतघ्नः शतपाशधृक् ॥
कला काष्ठा लवो मात्रा मुहूर्तो ऽहः क्षपा क्षणः
विश्वक्षेत्रप्रदो बीजं लिङ्गमाद्यस्तु निर्मुखः ॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः
स्वर्गद्वारं मोक्षद्वारं प्रजाद्वारं त्रिविष्टपः ॥
निर्वाणं हृदयश्चैव ब्रह्मलोकः परा गतिः
देवासुरविनिर्माता देवासुरपरायणः ॥
देवासुरगुरुर् देवो देवासुरनमस्कृतः
देवासुरमहामात्रो देवासुरगणाश्रयः ॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः
देवाधिदेवो देवर्षिर् देवासुरवरप्रदः ॥
देवासुरेश्वरो विष्णुर् देवासुरमहेश्वरः
सर्वदेवमयो ऽचिन्त्यो देवतात्मा स्वयम्भवः ॥
उद्गतस्त्रिक्रमो वैद्यो वरदो ऽवरजो ऽम्बरः
इज्यो हस्ती तथा व्याघ्रो देवसिंहो महर्षभः ॥
विबुधाग्र्यः सुरः श्रेष्ठः स्वर्गदेवस्तथोत्तमः
संयुक्तः शोभनो वक्ता आशानां प्रभवो ऽव्ययः ॥
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥
अभिरामः सुशरणो निरामः सर्वसाधनः
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥
स्थावराणां पतिश्चैव नियतेन्द्रियवर्तनः
सिद्धार्थः सर्वभूतार्थो ऽचिन्त्यः सत्यः शुचिव्रतः ॥
व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः
विमुक्तो मुक्तकेशश् च श्रीमाञ्छ्रीवर्धनो जगत् ॥
यथाप्रधानं भगवान् इति भक्त्या स्तुतो मया
भक्तिमेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥
ततो ह्यनुज्ञां प्राप्यैवं स्तुतो भक्तिमतां गतिः
तस्माल्लब्ध्वा स्तवं शंभोर् नृपस्त्रैलोक्यविश्रुतः ॥
अश्वमेधसहस्रस्य फलं प्राप्य महायशाः
गणाधिपत्यं सम्प्राप्तस् तण्डिनस्तेजसा प्रभोः ॥
यः पठेच्छृणुयाद् वापि श्रावयेद्ब्राह्मणानपि
अश्वमेधसहस्रस्य फलं प्राप्नोति वै द्विजाः ॥
ब्रह्मघ्नश् च सुरापश् च स्तेयी च गुरुतल्पगः
शरणागतघाती च मित्रविश्वासघातकः ॥
मातृहा पितृहा चैव वीरहा भ्रूणहा तथा
संवत्सरं क्रमाज्जप्त्वा त्रिसंध्यं शङ्कराश्रमे ॥
देवम् इष्ट्वा त्रिसंध्यं च सर्वपापैः प्रमुच्यते ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0