लिङ्गपुराण · अध्याय 1.63
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं ब्रूहि सूताद्य यथाक्रममनुत्तमम् ॥
संकल्पाद्दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा ॥
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्
न वृद्धिमगमल्लोकस् तदा मैथुनयोगतः ॥
दक्षः पुत्रसहस्राणि पञ्च सूत्यामजीजनत्
तांस्तु दृष्ट्वा महाभागान् सिसृक्षुर्विविधाः प्रजाः ॥
नारदः प्राह हर्यश्वान् दक्षपुत्रान् समागतान्
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्ध्वमध एव च ॥
ततः सृष्टिं विशेषेण कुरुध्वं मुनिसत्तमाः
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ॥
अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः
हर्यश्वेषु च नष्टेषु पुनर्दक्षः प्रजापतिः ॥
सूत्यामेव च पुत्राणां सहस्रमसृजत्प्रभुः
शबला नाम ते विप्राः समेताः सृष्टिहेतवः ॥
नारदो ऽनुगतान्प्राह पुनस्तान्सूर्यवर्चसः
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄन् पुनः पुनः ॥
आगत्य वाथ सृष्टिं वै करिष्यथ विशेषतः
ते ऽपि तेनैव मार्गेण जग्मुर्भ्रातृगतिं तथा ॥
ततस्तेष्वपि नष्टेषु षष्टिकन्याः प्रजापतिः
वैरिण्यां जनयामास दक्षः प्राचेतसस्तदा ॥
प्रादात्स दशकं धर्मे कश्यपाय त्रयोदश
विंशत्सप्त च सोमाय चतस्रो ऽरिष्टनेमये ॥
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते
द्वे चैवाङ्गिरसे तद्वत् तासां नामानि विस्तरात् ॥
शृणुध्वं देवमातॄणां प्रजाविस्तारमादितः
मरुत्वती वसूर् यामिर् लम्बा भानुररुन्धती ॥
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी
धर्मपत्न्यः समाख्यातास् तासां पुत्रान्वदामि वः ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस् तथा ॥
भानोस्तु भानवः प्रोक्ता मुहूर्ताया मुहूर्तकाः
लम्बाया घोषनामानो नागवीथिस्तु यामिजः ॥
संकल्पायास्तु संकल्पो वसुसर्गं वदामि वः
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम् ॥
वसवस्ते समाख्याताः सर्वभूतहितैषिणः
आपो ध्रुवश् च सोमश् च धरश्चैवानिलो ऽनलः ॥
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः
अजैकपाद् अहिर्बुध्न्यो विरूपाक्षः सभैरवः ॥
हरश् च बहुरूपश् च त्र्यंबकश् च सुरेश्वरः
सावित्रश् च जयन्तश् च पिनाकी चापराजितः ॥
एते रुद्राः समाख्याता एकादश गणेश्वराः
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकम् ॥
अदितिश् च दितिश्चैव अरिष्टा सुरसा मुनिः
सुरभिर् विनता ताम्रा तद्वत् क्रोधवशा इला ॥
कद्रूस्त्विषा दनुस्तद्वत् तासां पुत्रान्वदामि वः
तुषिता नाम ये देवाश् चाक्षुषस्यान्तरे मनोः ॥
वैवस्वतान्तरे ते वै आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस्त्वष्ट मित्रो ऽथ वरुणो ऽर्यमा ॥
विवस्वान्सविता पूषा अंशुमान् विष्णुरेव च
एते सहस्रकिरणा आदित्या द्वादश स्मृताः ॥
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च ॥
दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम्
विप्रचित्तिः प्रधानो ऽभूत् तेषां मध्ये द्विजोत्तमाः ॥
ताम्रा च जनयामास षट् कन्या द्विजपुङ्गवाः
शुकीं श्येनीं च भासीं च सुग्रीवीं गृध्रिकां शुचिम् ॥
शुकी शुकानुलूकांश् च जनयामास धर्मतः
श्येनी श्येनांस् तथा भासी कुरङ्गांश् च व्यजीजनत् ॥
गृध्री गृध्रान् कपोतांश् च पारावती विहंगमान्
हंससारसकारण्ड प्लवाञ्छुचिरजीजनत् ॥
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत्
विनता जनयामास गरुडं चारुणं शुभा ॥
सौदामिनीं तथा कन्यां सर्वलोकभयङ्करीम्
सुरसायाः सहस्रं तु सर्पाणामभवत्पुरा ॥
कद्रूः सहस्रशिरसां सहस्रं प्राप सुव्रता
प्रधानास्तेषु विख्याताः षड्विंशतिरनुत्तमाः ॥
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः
धनञ्जयमहानील पद्माश्वतरतक्षकाः ॥
एलापत्रमहापद्म धृतराष्ट्रबलाहकाः
शङ्खपालमहाशङ्ख पुष्पदंष्ट्रशुभाननाः ॥
शङ्खलोमा च नहुषो वामनः फणितस् तथा
कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृतः ॥
रक्षोगणं क्रोधवशा महामायं व्यजीजनत्
रुद्राणां च गणं तद्वद् गोमहिष्यौ वराङ्गना ॥
सुरभिर् जनयामास कश्यपादिति नः श्रुतम्
मुनिर्मुनीनां च गणं गणमप्सरसां तथा ॥
तथा किंनरगन्धर्वान् अरिष्टाजनयद्बहून्
तृणवृक्षलतागुल्मम् इला सर्वमजीजनत् ॥
त्विषा तु यक्षरक्षांसि जनयामास कोटिशः
एते तु काश्यपेयाश् च संक्षेपात्परिकीर्तिताः ॥
एतेषां पुत्रपौत्रादि वंशाश् च बहवः स्मृताः
एवं प्रजासु सृष्टासु कश्यपेन महात्मना ॥
प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च
अभिषिच्याधिपत्येषु तेषां मुख्यान्प्रजापतिः ॥
ततो मनुष्याधिपतिं चक्रे वैवस्वतं मनुम्
स्वायंभुवे ऽन्तरे पूर्वं ब्रह्मणा ये ऽभिषेचिताः ॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता
यथोपदेशमद्यापि धर्मेण प्रतिपाल्यते ॥
स्वायंभुवे ऽन्तरे पूर्वे ब्रह्मणा ये ऽभिषेचिताः
ते ह्येते चाभिषिच्यन्ते मनवश् च भवन्ति ते ॥
मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः
एवमन्ये ऽभिषिच्यन्ते प्राप्ते मन्वन्तरे ततः ॥
अतीतानागताः सर्वे नृपा मन्वन्तरे स्मृताः
एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् ॥
कश्यपो गोत्रकामस्तु चचार स पुनस्तपः
पुत्रो गोत्रकरो मह्यं भवताद् इति चिन्तयन् ॥
तस्यैवं ध्यायमानस्य कश्यपस्य महात्मनः
ब्रह्मयोगात्सुतौ पश्चात् प्रादुर्भूतौ महौजसौ ॥
वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ
वत्सरान्नैध्रुवो जज्ञे रैभ्यश् च सुमहायशाः ॥
रैभ्यस्य रैभ्या विज्ञेया नैध्रुवस्य वदामि वः
च्यवनस्य तु कन्यायां सुमेधाः समपद्यत ॥
नैध्रुवस्य तु सा पत्नी माता वै कुण्डपायिनाम्
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ॥
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहातपाः
शाण्डिल्या नैध्रुवा रैभ्यास् त्रयः पक्षास्तु काश्यपाः ॥
नव प्रकृतयो देवाः पुलस्त्यस्य वदामि वः
चतुर्युगे ह्यतिक्रान्ते मनोरेकादशे प्रभोः ॥
अर्धावशिष्टे तस्मिंस्तु द्वापरे सम्प्रवर्तिते
मानवस्य नरिष्यन्तः पुत्र आसीद् दमः किल ॥
दमस्य तस्य दायादस् तृणबिन्दुरिति स्मृतः
त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥
तस्य कन्या त्विलविला रूपेणाप्रतिमाभवत्
पुलस्त्याय स राजर्षिस् तां कन्यां प्रत्यपादयत् ॥
ऋषिर् ऐरविलो यस्यां विश्रवाः समपद्यत
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्धनाः ॥
बृहस्पतेः शुभा कन्या नाम्ना वै देववर्णिनी
पुष्पोत्कटा बलाका च सुते माल्यवतः स्मृतेः ॥
कैकसी मालिनः कन्या तासां वै शृणुत प्रजाः
ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥
कैकसी चाप्यजनयद् रावणं राक्षसाधिपम्
कुम्भकर्णं शूर्पणखां धीमन्तं च विभीषणम् ॥
पुष्पोत्कटा ह्यजनयत् पुत्रांस्तस्माद्द्विजोत्तमाः
महोदरं प्रहस्तं च महापार्श्वं खरं तथा ॥
कुम्भीनसीं तथा कन्यां बलायाः शृणुत प्रजाः
त्रिशिरा दूषणश्चैव विद्युज्जिह्वश् च राक्षसः ॥
कन्या वै मालिका चापि बलायाः प्रसवः स्मृतः
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव ॥
विभीषणो ऽतिशुद्धात्मा धर्मज्ञः परिकीर्तितः
पुलस्त्यस्य मृगाः पुत्राः सर्वे व्याघ्राश् च दंष्ट्रिणः ॥
भूताः पिशाचाः सर्पाश् च सूकरा हस्तिनस् तथा
वानराः किंनराश्चैव ये च किंपुरुषास् तथा ॥
अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वते ऽन्तरे
अत्रेः पत्न्यो दशैवासन् सुंदर्यश् च पतिव्रताः ॥
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः
भद्राभद्रा च जलदा मन्दा नन्दा तथैव च ॥
बलाबला च विप्रेन्द्रा या च गोपाबला स्मृता
तथा तामरसा चैव वरक्रीडा च वै दश ॥
आत्रेयवंशप्रभवास् तासां भर्ता प्रभाकरः
स्वर्भानुपिहिते सूर्ये पतिते ऽस्मिन्दिवो महीम् ॥
तमो ऽभिभूते लोके ऽस्मिन् प्रभा येन प्रवर्तिता
स्वस्त्यस्तु हि तवेत्युक्ते पतन्निह दिवाकरः ॥
ब्रह्मर्षेर्वचनात्तस्य पपात न विभुर्दिवः
ततः प्रभाकरेत्युक्तः प्रभुरत्रिर्महर्षिभिः ॥
भद्रायां जनयामास सोमं पुत्रं यशस्विनम्
स तासु जनयामास पुनः पुत्रांस्तपोधनः ॥
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः
तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ च महौजसौ ॥
दत्तो ह्यत्रिवरो ज्येष्ठो दुर्वासास्तस्य चानुजः
यवीयसी स्वसा तेषाम् अमला ब्रह्मवादिनी ॥
तस्य गोत्रद्वये जाताश् चत्वारः प्रथिता भुवि
श्यावश् च प्रत्वसश्चैव ववल्गुश्चाथ गह्वरः ॥
आत्रेयाणां च चत्वारः स्मृताः पक्षा महात्मनाम्
काश्यपो नारदश्चैव पर्वतानुद्धतस् तथा ॥
जज्ञिरे मानसा ह्येते अरुन्धत्या निबोधत
नारदस्तु वसिष्ठाया -रुन्धतीं प्रत्यपादयत् ॥
ऊर्ध्वरेता महातेजा दक्षशापात्तु नारदः
पुरा देवासुरे युद्धे घोरे वै तारकामये ॥
अनावृष्ट्या हते लोके ह्य् उग्रे लोकेश्वरैः सह
वसिष्ठस्तपसा धीमान् धारयामास वै प्रजाः ॥
अन्नोदकं मूलफलम् ओषधीश् च प्रवर्तयन्
तानेताञ्जीवयामास कारुण्यादौषधेन च ॥
अरुन्धत्यां वसिष्ठस्तु सुतान् उत्पादयच्छतम्
ज्यायसो ऽजनयच्छक्तेर् अदृश्यन्ती पराशरम् ॥
रक्षसा भक्षिते शक्तौ रुधिरेण तु वै तदा
काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम् ॥
द्वैपायनो ह्यरण्यां वै शुकम् उत्पादयत्सुतम्
उपमन्युं च पीवर्यां विद्धीमे शुकसूनवः ॥
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरस्तु पञ्चमः
कन्या कीर्तिमती चैव योगमाता धृतव्रता ॥
जननी ब्रह्मदत्तस्य पत्नी सा त्वनुहस्य च
श्वेतः कृष्णश् च गौरश् च श्यामो धूम्रस्तथारुणः ॥
नीलो बादरिकश्चैव सर्वे चैते पराशराः
पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ॥
अत ऊर्ध्वं निबोधध्वम् इन्द्रप्रमितिसंभवम्
वसिष्ठस्य कपिञ्जल्यो घृताच्यामुदपद्यत ॥
त्रिमूर्तिर्यः समाख्यात इन्द्रप्रमितिरुच्यते
पृथोः सुतायां सम्भूतो भद्रस्तस्या भवद्वसुः ॥
उपमन्युः सुतस्तस्य बहवो ह्यौपमन्यवः
मित्रावरुणयोश्चैव कौण्डिन्या ये परिश्रुताः ॥
एकार्षेयास् तथा चान्ये वासिष्ठा नाम विश्रुताः
एते पक्षा वसिष्ठानां स्मृता दश महात्मनाम् ॥
इत्येते ब्रह्मणः पुत्रा मानसा विश्रुता भुवि
भर्तारश् च महाभागा एषां वंशाः प्रकीर्तिताः ॥
त्रिलोकधारणे शक्ता देवर्षिकुलसंभवाः
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥
यैस्तु व्याप्तास्त्रयो लोकाः सूर्यस्येव गभस्तिभिः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0