भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.59

1.59.1

एतच्छ्रुत्वा तु मुनयः पुनस्तं संशयान्विताः
पप्रच्छुरुत्तरं भूयस् तदा ते रोमहर्षणम् ॥

1.59.2

यदेतदुक्तं भवता सूतेह वदतां वर
एतद्विस्तरतो ब्रूहि ज्योतिषां च विनिर्णयम् ॥

1.59.3

श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः
उवाच परमं वाक्यं तेषां संशयनिर्णये ॥

1.59.4

अस्मिन्नर्थे महाप्राज्ञैर् यदुक्तं शान्तबुद्धिभिः
एतद्वो ऽहं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम् ॥

1.59.5

यथा देवगृहाणीह सूर्यचन्द्रादयो ग्रहाः
अतः परं तु त्रिविधम् अग्नेर्वक्ष्ये समुद्भवम् ॥

1.59.6

दिव्यस्य भौतिकस्याग्नेर् अथो ऽग्नेः पार्थिवस्य च
व्युष्टायां तु रजन्यां च ब्रह्मणो ऽव्यक्तजन्मनः ॥

1.59.7

अव्याकृतमिदं त्वासीन् नैशेन तमसा वृतम्
चतुर्भागावशिष्टे ऽस्मिन् लोके नष्टे विशेषतः ॥

1.59.8

स्वयंभूर्भगवांस्तत्र लोकसर्वार्थसाधकः
खद्योतवत्स व्यचरद् आविर्भावचिकीर्षया ॥

1.59.9

सो ऽग्निं सृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितः
संहृत्य तत्प्रकाशार्थं त्रिधा व्यभजदीश्वरः ॥

1.59.10

पवनो यस्तु लोके ऽस्मिन् पार्थिवो वह्निरुच्यते
यश्चासौ लोकादौ सूर्ये शुचिरग्निस्तु स स्मृतः ॥

1.59.11

वैद्युतो ऽब्जस्तु विज्ञेयस् तेषां वक्ष्ये तु लक्षणम्
वैद्युतो जाठरः सौरो वारिगर्भास्त्रयो ऽग्नयः ॥

1.59.12

तस्मादपः पिबन्सूर्यो गोभिर् दीप्यत्यसौ विभुः
जले चाब्जः समाविष्टो नाद्भिर् अग्निः प्रशाम्यति ॥

1.59.13

मानवानां च कुक्षिस्थो नाग्निः शाम्यति पावकः
अर्चिष्मान्पवनः सो ऽग्निर् निष्प्रभो जाठरः स्मृतः ॥

1.59.14

यश्चायं मण्डली शुक्ली निरूष्मा सम्प्रजायते
प्रभा सौरी तु पादेन ह्य् अस्तं याते दिवाकरे ॥

1.59.15

अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते
उद्यन्तं च पुनः सूर्यम् औष्ण्यम् अग्नेः समाविशेत् ॥

1.59.16

पादेन पार्थिवस्याग्नेस् तस्मादग्निस्तपत्यसौ
प्रकाशोष्णस्वरूपे च सौराग्नेये तु तेजसी ॥

1.59.17

परस्परानुप्रवेशाद् आप्यायेते परस्परम्
उत्तरे चैव भूम्यर्धे तथा ह्यग्निश् च दक्षिणे ॥

1.59.18

उत्तिष्ठति पुनः सूर्यः पुनर्वै प्रविशत्य् अपः
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥

1.59.19

अस्तं याति पुनः सूर्यो ऽहर्वै प्रविशत्य् अपः
तस्मान्नक्तं पुनः शुक्ला आपो दृश्यन्ति भास्वराः ॥

1.59.20

एतेन क्रमयोगेन भूम्यर्धे दक्षिणोत्तरे
उदयास्तमने नित्यम् अहोरात्रं विशत्य् अपः ॥

1.59.21

यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः
पार्थिवाग्निविमिश्रो ऽसौ दिव्यः शुचिरिति स्मृतः ॥

1.59.22

सहस्रपादसौ वह्निर् वृत्तकुम्भनिभः स्मृतः
आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥

1.59.23

नादेयीश्चैव सामुद्रीः कूपाश्चैव तथा घनाः
स्थावरा जङ्गमाश्चैव वापीकुल्यादिका अपः ॥

1.59.24

तस्य रश्मिसहस्रं तच् छीतवर्षोष्णनिःस्रवम्
तासां चतुःशता नाड्यो वर्षन्ते चित्रमूर्तयः ॥

1.59.25

भजनाश्चैव माल्याश् च केतनाः पतनास् तथा
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥

1.59.26

हिमोद्वहाश् च ता नाड्यो रश्मयस् त्रिशताः पुनः
रेशा मेघाश् च वात्स्याश् च ह्लादिन्यो हिमसर्जनाः ॥

1.59.27

चन्द्रभा नामतः सर्वा पीताभाश् च गभस्तयः
शुक्लाश् च ककुभाश्चैव गावो विश्वभृतस् तथा ॥

1.59.28

शुक्लास्ता नामतः सर्वास् त्रिशतीर्घर्मसर्जनाः
सोमो बिभर्ति ताभिस्तु मनुष्यपितृदेवताः ॥

1.59.29

मनुष्यानौषधेनेह स्वधया च पितॄनपि
अमृतेन सुरान् सर्वांस् तिसृभिस् तर्पयत्यसौ ॥

1.59.30

वसन्ते चैव ग्रीष्मे च शतैः स तपते त्रिभिः
वर्षास्वथो शरदि च चतुर्भिः संप्रवर्षति ॥

1.59.31

हेमन्ते शिशिरे चैव हिममुत्सृजते त्रिभिः
इन्द्रो धाता भगः पूषा मित्रो ऽथ वरुणो ऽर्यमा ॥

1.59.32

अंशुर् विवस्वांस्त्वष्टा च पर्जन्यो विष्णुरेव च
वरुणो माघमासे तु सूर्य एव तु फाल्गुने ॥

1.59.33

चैत्रे मासि भवेदंशुर् धाता वैशाखतापनः
ज्येष्ठे मासि भवेदिन्द्र आषाढे चार्यमा रविः ॥

1.59.34

विवस्वान् श्रावणे मासि प्रौष्ठपदे भगः स्मृतः
पर्जन्यो ऽश्वयुजे मासि त्वष्टा वै कार्तिके रविः ॥

1.59.35

मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥

1.59.36

षड्भिः सहस्रैः पूषा तु देवो ऽंशुः सप्तभिस् तथा
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥

1.59.37

विवस्वान् दशभिर् याति यात्येकादशभिर् भगः
सप्तभिस्तपते मित्रस् त्वष्टा चैवाष्टभिः स्मृतः ॥

1.59.38

अर्यमा दशभिर् याति पर्जन्यो नवभिस् तथा
षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति मेदिनीम् ॥

1.59.39

वसंते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः
श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥

1.59.40

हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः
इति वर्णाः समाख्याता मया सूर्यसमुद्भवाः ॥

1.59.41

ओषधीषु बलं धत्ते स्वधया च पितृष्वपि
सूर्यो ऽमरेष्वप्यमृतं त्रयं त्रिषु नियच्छति ॥

1.59.42

एवं रश्मिसहस्रं तत् सौरं लोकार्थसाधकम्
भिद्यते लोकमासाद्य जलशीतोष्णनिःस्रवम् ॥

1.59.43

इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसंज्ञितम्
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च ॥

1.59.44

चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः
नक्षत्राधिपतिः सोमो नयनं वाममीशितुः ॥

1.59.45

नयनं चैवम् ईशस्य दक्षिणं भास्करः स्वयम्
तेषां जनानां लोके ऽस्मिन् नयनं नयते यतः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc