भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.58

1.58.1

अभ्यषिञ्चत्कथं ब्रह्मा चाधिपत्ये प्रजापतिः
देवदैत्यमुखान् सर्वान् सर्वात्मा वद सांप्रतम् ॥

1.58.2

ग्रहाधिपत्ये भगवान् अभ्यषिञ्चद्दिवाकरम्
ऋक्षाणामोषधीनां च सोमं ब्रह्मा प्रजापतिः ॥

1.58.3

अपां च वरुणं देवं धनानां यक्षपुङ्गवम्
आदित्यानां तथा विष्णुं वसूनां पावकं तथा ॥

1.58.4

प्रजापतीनां दक्षं च मरुतां शक्रमेव च
दैत्यानां दानवानां च प्रह्लादं दैत्यपुङ्गवम् ॥

1.58.5

धर्मं पितॄणाम् अधिपं निरृतिं पिशिताशिनाम्
रुद्रं पशूनां भूतानां नन्दिनं गणनायकम् ॥

1.58.6

वीराणां वीरभद्रं च पिशाचानां भयंकरम्
मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम् ॥

1.58.7

रुद्राणां देवदेवेशं नीललोहितमीश्वरम्
विघ्नानां व्योमजं देवं गजास्यं तु विनायकम् ॥

1.58.8

स्त्रीणां देवीमुमां देवीं वचसां च सरस्वतीम्
विष्णुं मायाविनां चैव स्वात्मानं जगतां तथा ॥

1.58.9

हिमवन्तं गिरीणां तु नदीनां चैव जाह्नवीम्
समुद्राणां च सर्वेषाम् अधिपं पयसां निधिम् ॥

1.58.10

वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः ॥

1.58.11

गन्धर्वविद्याधरकिन्नराणाम् ईशं पुनश् चित्ररथं चकार
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम् ॥

1.58.12

सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार ॥

1.58.13

सिंहं मृगाणां वृषभं गवां च मृगाधिपानां शरभं चकार
सेनाधिपानां गुहमप्रमेयं श्रुतिस्मृतीनां लकुलीशमीशम् ॥

1.58.14

अभ्यषिञ्चत्सुधर्माणं तथा शङ्खपदं दिशाम्
केतुमन्तं क्रमेणैव हेमरोमाणमेव च ॥

1.58.15

पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम्
चतुर्मूर्तिषु सर्वज्ञं शङ्करं वृषभध्वजम् ॥

1.58.16

प्रसादाद्भगवाञ्छम्भोश् चाभ्यषिञ्चद्यथाक्रमम्
पुराभिषिच्य पुण्यात्मा रराज भुवनेश्वरः ॥

1.58.17

एतद्वो विस्तरेणैव कथितं मुनिपुङ्गवाः
अभिषिक्तास्ततस्त्वेते विशिष्टा विश्वयोनिना ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc