भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.60

1.60.1

शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः
पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः ॥

1.60.2

शेषाणां प्रकृतिं सम्यग् वक्ष्यमाणां निबोधत
सुरसेनापतिः स्कन्दः पठ्यते ऽङ्गारको ग्रहः ॥

1.60.3

नारायणं बुधं प्राहुर् देवं ज्ञानविदो जनाः
सर्वलोकप्रभुः साक्षाद् यमो लोकप्रभुः स्वयम् ॥

1.60.4

महाग्रहो द्विजश्रेष्ठा मन्दगामी शनैश्चरः
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ ॥

1.60.5

प्रजापतिसुतावुक्तौ ततः शुक्रबृहस्पती
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥

1.60.6

भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम्
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राग्निदिवौकसाम् ॥

1.60.7

द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सर्वलौकिकम्
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ॥

1.60.8

सूर्य एव त्रिलोकेशो मूलं परमदैवतम्
ततः संजायते सर्वं तत्रैव प्रविलीयते ॥

1.60.9

भावाभावौ हि लोकानाम् आदित्यान्निःसृतौ पुरा
अविज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः ॥

1.60.10

अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः
क्षणा मुहूर्ता दिवसा निशाः पक्षाश् च कृत्स्नशः ॥

1.60.11

मासाः संवत्सरश्चैव ऋतवो ऽथ युगानि च
तदादित्यादृते ह्येषा कालसंख्या न विद्यते ॥

1.60.12

कालादृते न नियमो न दीक्षा नाह्निकक्रमः
ऋतूनां च विभागश् च पुष्पं मूलं फलं कुतः ॥

1.60.13

कुतः सस्यविनिष्पत्तिस् तृणौषधिगणो ऽपि च
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ॥

1.60.14

जगत्प्रतापनमृते भास्करं रुद्ररूपिणम्
स एष कालश्चाग्निश् च द्वादशात्मा प्रजापतिः ॥

1.60.15

तपत्येष द्विजश्रेष्ठास् त्रैलोक्यं सचराचरम्
स एष तेजसां राशिः समस्तः सार्वलौकिकः ॥

1.60.16

उत्तमं मार्गमास्थाय रात्र्यहोभिर् इदं जगत्
पार्श्वत ऊर्ध्वम् अधश् चैव तापयत्येष सर्वशः ॥

1.60.17

यथा प्रभाकरो दीपो गृहमध्ये ऽवलम्बितः
पार्श्वत ऊर्ध्वम् अधश्चैव तमो नाशयते समम् ॥

1.60.18

तद्वत्सहस्रकिरणो ग्रहराजो जगत्प्रभुः
सूर्यो गोभिर् जगत् सर्वम् आदीपयति सर्वतः ॥

1.60.19

रवे रश्मिसहस्रं यत् प्राङ्मया समुदाहृतम्
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥

1.60.20

सुषुम्नो हरिकेशश् च विश्वकर्मा तथैव च
विश्वव्यचाः पुनश्चाद्यः संनद्धश् च ततः परः ॥

1.60.21

सर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः
सुषुम्नः सूर्यरश्मिस्तु दक्षिणां राशिम् ऐधयत् ॥

1.60.22

न्यगूर्ध्वाधः प्रचारो ऽस्य सुषुम्नः परिकीर्तितः
हरिकेशः पुरस्ताद् यो ऋक्षयोनिः प्रकीर्त्यते ॥

1.60.23

दक्षिणे विश्वकर्मा च रश्मिर्वर्धयते बुधम्
विश्वव्यचास्तु यः पश्चाच् छुक्रयोनिः स्मृतो बुधैः ॥

1.60.24

संनद्धश् च तु यो रश्मिः स योनिर् लोहितस्य तु
षष्ठः सर्वावसू रश्मिः स योनिस्तु बृहस्पतेः ॥

1.60.25

शनैश्चरं पुनश् चापि रश्मिर् आप्यायते स्वराट्
एवं सूर्यप्रभावेन नक्षत्रग्रहतारकाः ॥

1.60.26

दृश्यन्ते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत्
न क्षीयन्ते यतस्तानि तस्मान्नक्षत्रता स्मृता ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc