लिङ्गपुराण · अध्याय 1.57
अष्टभिश् च हयैर्युक्तः सोमपुत्रस्य वै रथः
वारितेजोमयश्चाथ पिशङ्गैश्चैव शोभनैः ॥
दशभिश्चाकृशैरश्वैर् नानावर्णै रथः स्मृतः
शुक्रस्य क्ष्मामयैर्युक्तो दैत्याचार्यस्य धीमतः ॥
अष्टाश्वश्चाथ भौमस्य रथो हैमः सुशोभनः
जीवस्य हैमश्चाष्टाश्वो मन्दस्यायसनिर्मितः ॥
रथ आपोमयैरश्वैर् दशभिस्तु सितेतरैः
स्वर्भानोर्भास्करारेश् च तथा चाष्टहयः स्मृतः ॥
सर्वे ध्रुवनिबद्धा वै ग्रहास्ते वातरश्मिभिः
एतेन भ्राम्यमाणाश् च यथायोगं व्रजन्ति वै ॥
यावन्त्यश्चैव ताराश् च तावन्तश्चैव रश्मयः
सर्वे ध्रुवनिबद्धाश् च भ्रमन्तो भ्रामयन्ति तम् ॥
अलातचक्रवद्यान्ति वातचक्रेरितानि तु
यस्माद्वहति ज्योतींषि प्रवहस्तेन स स्मृतः ॥
नक्षत्रसूर्याश् च तथा ग्रहतारागणैः सह
उन्मुखाभिमुखाः सर्वे चक्रभूताः श्रिता दिवि ॥
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्
प्रयान्ति चेश्वरं द्रष्टुं मेढीभूतं ध्रुवं दिवि ॥
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥
द्विगुणः सूर्यविस्ताराद् विस्तारः शशिनः स्मृतः
तुल्यस्तयोस्तु स्वर्भानुर् भूत्वाधस्तात्प्रसर्पति ॥
उद्धृत्य पृथिवीछायां निर्मितां मण्डलाकृतिम्
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत् तमोमयम् ॥
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते
विष्कम्भान्मण्डलाच्चैव योजनाच्च प्रमाणतः ॥
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः
पादहीनौ वक्रसौरी तथायामप्रमाणतः ॥
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ॥
बुधेन तानि तुल्यानि विस्तारान्मण्डलादपि
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित् ॥
तारानक्षत्ररूपाणि हीनानि तु परस्परम्
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ॥
सर्वोपरि निकृष्टानि तारकामण्डलानि तु
योजनद्वयमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥
उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः
सौरो ऽङ्गिराश् च वक्रश् च ज्ञेया मन्दविचारिणः ॥
तेभ्यो ऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥
तावन्त्यस्तारकाः कोट्यो यावन्त्यृक्षाणि सर्वशः
ध्रुवात् तु नियमाच्चैषाम् ऋक्षमार्गे व्यवस्थितिः ॥
सप्ताश्वस्यैव सूर्यस्य नीचोच्चत्वमनुक्रमात्
उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥
उच्चत्वाद्दृश्यते शीघ्रं नातिव्यक्तैर्गभस्तिभिः
तदा दक्षिणमार्गस्थो नीचां वीथिमुपाश्रितः ॥
भूमिरेखावृतः सूर्यः पौर्णिमावास्ययोस् तदा
ददृशे च यथाकालं शीघ्रमस्तमुपैति च ॥
तस्मादुत्तरमार्गस्थो ह्य् अमावास्यां निशाकरः
ददृशे दक्षिणे मार्गे नियमाद्दृश्यते न च ॥
ज्योतिषां गतियोगेन सूर्यस्य तमसा वृतः
समानकालास्तमयौ विषुवत्सु समोदयौ ॥
उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ
पौर्णिमावास्ययोर् ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ ॥
दक्षिणायनमार्गस्थो यदा चरति रश्मिवान्
ग्रहाणां चैव सर्वेषां सूर्यो ऽधस्तात् प्रसर्पति ॥
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः
वक्रस्तु भार्गवादूर्ध्वं वक्राद् ऊर्ध्वं बृहस्पतिः ॥
तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलम्
ऋषीणां चैव सप्तानां ध्रुवस्योर्ध्वं व्यवस्थितिः ॥
तं विष्णुलोकं परमं ज्ञात्वा मुच्येत किल्बिषात्
द्विगुणेषु सहस्रेषु योजनानां शतेषु च ॥
ग्रहनक्षत्रतारासु उपरिष्टाद्यथाक्रमम्
ग्रहाश् च चन्द्रसूर्यौ च युतौ दिव्येन तेजसा ॥
नित्यमृक्षेषु युज्यन्ते गच्छन्तो ऽहर्निशं क्रमात्
ग्रहनक्षत्रसूर्यास् ते नीचोच्चऋजुसंस्थिताः ॥
समागमे च भेदे च पश्यन्ति युगपत्प्रजाः
ऋतवः षट् स्मृताः सर्वे समागच्छन्ति पञ्चधा ॥
परस्परास्थिता ह्येते युज्यन्ते च परस्परम्
असंकरेण विज्ञेयस् तेषां योगस्तु वै बुधैः ॥
एवं संक्षिप्य कथितं ग्रहाणां गमनं द्विजाः
भास्करप्रमुखानां च यथादृष्टं यथाश्रुतम् ॥
ग्रहाधिपत्ये भगवान् ब्रह्मणा पद्मयोनिना
अभिषिक्तः सहस्रांशू रुद्रेण तु यथा गुहः ॥
तस्माद्ग्रहार्चना कार्या अग्नौ चोद्यं यथाविधि
आदित्यग्रहपीडायां सद्भिः कार्यार्थसिद्धये ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0