भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.56

1.56.1

वीथ्याश्रयाणि चरति नक्षत्राणि निशाकरः
त्रिचक्रोभयतो ऽश्वश् च विज्ञेयस्तस्य वै रथः ॥

1.56.2

शतारैश् च त्रिभिश्चक्रैर् युक्तः शुक्लैर्हयोत्तमैः
दशभिस्त्वकृशैर् दिव्यैर् असंगैस् तैर् मनोजवैः ॥

1.56.3

रथेनानेन देवैश् च पितृभिश्चैव गच्छति
सोमो ह्यम्बुमयैर् गोभिः शुक्लैः शुक्लगभस्तिमान् ॥

1.56.4

क्रमते शुक्लपक्षादौ भास्करात्परमास्थितः
आपूर्यते परस्यान्तः सततं दिवसक्रमात् ॥

1.56.5

देवैः पीतं क्षये सोमम् आप्याययति नित्यशः
पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः ॥

1.56.6

आपूरयन् सुषुम्नेन भागं भागमनुक्रमात्
इत्येषा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ॥

1.56.7

स पौर्णमास्यां दृश्येत शुक्लः सम्पूर्णमण्डलः
एवमाप्यायितं सोमं शुक्लपक्षे दिनक्रमात् ॥

1.56.8

ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशीम्
पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधामृतम् ॥

1.56.9

संभृतं त्वर्धमासेन ह्य् अमृतं सूर्यतेजसा
पानार्थममृतं सोमं पौर्णमास्यामुपासते ॥

1.56.10

एकरात्रिं सुराः सर्वे पितृभिस्त्वृषिभिः सह
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च ॥

1.56.11

प्रक्षीयन्ते परस्यान्तः पीयमानाः कलाः क्रमात्
त्रयस्त्रिंशच्छताश्चैव त्रयस्त्रिंशत्तथैव च ॥

1.56.12

त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै
एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे ॥

1.56.13

पीत्वार्धमासं गच्छन्ति अमावास्यां सुरोत्तमाः
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥

1.56.14

ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके
अपराह्णे पितृगणा जघन्यं पर्युपासते ॥

1.56.15

पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या
निसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ॥

1.56.16

मासतृप्तिमवाप्याग्र्यां पीत्वा गच्छन्ति ते ऽमृतम्
पितृभिः पीयमानस्य पञ्चदश्यां कला तु या ॥

1.56.17

यावत्तु क्षीयते तस्य भागः पञ्चदशस्तु सः
अमावास्यां ततस्तस्या अन्तरा पूर्यते पुनः ॥

1.56.18

वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ
एवं सूर्यनिमित्तैषा पक्षवृद्धिर्निशाकरे ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc