भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.55

1.55.1

सौरं संक्षेपतो वक्ष्ये रथं शशिन एव च
ग्रहाणाम् इतरेषां च यथा गच्छति चाम्बुपः ॥

1.55.2

सौरस्तु ब्रह्मणा सृष्टो रथस्त्वर्थवशेन सः
संवत्सरस्यावयवैः कल्पितश् च द्विजर्षभाः ॥

1.55.3

त्रिनाभिना तु चक्रेण पञ्चारेण समन्वितः
सौवर्णः सर्वदेवानाम् आवासो भास्करस्य तु ॥

1.55.4

नवयोजनसाहस्रो विस्तारायामतः स्मृतः
द्विगुणो ऽपि रथोपस्थाद् ईषादण्डः प्रमाणतः ॥

1.55.5

असङ्गैस्तु हयैर्युक्तो यतश्चक्रं ततः स्थितैः
वाजिनस्तस्य वै सप्त छन्दोभिर् निर्मितास्तु ते ॥

1.55.6

चक्रपक्षे निबद्धास्तु ध्रुवे चाक्षः समर्पितः
सहाश्वचक्रो भ्रमते सहाक्षो भ्रमते ध्रुवः ॥

1.55.7

अक्षः सहैकचक्रेण भ्रमते ऽसौ ध्रुवेरितः
प्रेरको ज्योतिषां धीमान् ध्रुवो वै वातरश्मिभिः ॥

1.55.8

युगाक्षकोटिसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु
ध्रुवेण भ्रमते रश्मि निबद्धः स युगाक्षयोः ॥

1.55.9

भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि ॥

1.55.10

ध्रुवेण प्रगृहीते वै विचक्राश्वे च रज्जुभिः
भ्रमन्तमनुगच्छन्ति ध्रुवं रश्मी च तावुभौ ॥

1.55.11

युगाक्षकोटिस्त्वेतस्य वातोर्मिस्यन्दनस्य तु
कीले सक्ता यथा रज्जुर् भ्रमते सर्वतोदिशम् ॥

1.55.12

भ्राम्यतस्तस्य रश्मी तु मण्डलेषूत्तरायणे
वर्धेते दक्षिणे चैव भ्रमता मण्डलानि तु ॥

1.55.13

आकृष्येते यदा ते वै ध्रुवेणाधिष्ठिते तदा
आभ्यन्तरस्थः सूर्यो ऽथ भ्रमते मण्डलानि तु ॥

1.55.14

अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥

1.55.15

तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु
उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति ॥

1.55.16

देवाश्चैव तथा नित्यं मुनयश् च दिवानिशम्
यजन्ति सततं देवं भास्करं भवमीश्वरम् ॥

1.55.17

सरथो ऽधिष्ठितो देवैर् आदित्यैर्मुनिभिस् तथा
गन्धर्वैरप्सरोभिश् च ग्रामणीसर्पराक्षसैः ॥

1.55.18

एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु
आप्याययन्ति चादित्यं तेजोभिर् भास्करं शिवम् ॥

1.55.19

ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्
गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते ॥

1.55.20

ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम्
सर्पा वहन्ति वै सूर्यं यातुधाना अनुयान्ति च ॥

1.55.21

वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम्
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ॥

1.55.22

मधुश् च माधवश्चैव शुक्रश् च शुचिरेव च
नभोनभस्यौ विप्रेन्द्रा इषश्चोर्जस्तथैव च ॥

1.55.23

सहःसहस्यौ च तथा तपस्यश् च तपः पुनः
एते द्वादश मासास्तु वर्षं वै मानुषं द्विजाः ॥

1.55.24

वासन्तिकस् तथा ग्रैष्मः शुभो वै वार्षिकस् तथा
शारदश् च हिमश्चैव शैशिर ऋतवः स्मृताः ॥

1.55.25

धातार्यमाथ मित्रश् च वरुणश्चेन्द्र एव च
विवस्वांश्चैव पूषा च पर्जन्यो ऽंशुर् भगस् तथा ॥

1.55.26

त्वष्टा विष्णुः पुलस्त्यश् च पुलहश्चात्रिरेव च
वसिष्ठश्चाङ्गिराश्चैव भृगुर्बुद्धिमतां वरः ॥

1.55.27

भारद्वाजो गौतमश् च कश्यपश् च क्रतुस् तथा
जमदग्निः कौशिकश् च वासुकिः कङ्कणीकरः ॥

1.55.28

तक्षकश् च तथा नाग एलापत्रस् तथा द्विजाः
शङ्खपालस् तथा चान्यस् त्व् ऐरावत इति स्मृतः ॥

1.55.29

धनञ्जयो महापद्मस् तथा कर्कोटकः स्मृतः
कम्बलो ऽश्वतरश्चैव तुम्बुरुर्नारदस् तथा ॥

1.55.30

हाहा हूहूर्मुनिश्रेष्ठा विश्वावसुरनुत्तमः
उग्रसेनो ऽथ सुरुचिर् अन्यश्चैव परावसुः ॥

1.55.31

चित्रसेनो महातेजाश् चोर्णायुश्चैव सुव्रताः
धृतराष्ट्रः सूर्यवर्चा देवी साक्षात् कृतस्थला ॥

1.55.32

शुभानना शुभश्रोणिर् दिव्या वै पुञ्जिकस्थला
मेनका सहजन्या च प्रम्लोचाथ शुचिस्मिता ॥

1.55.33

अनुम्लोचा घृताची च विश्वाची चोर्वशी तथा
पूर्वचित्तिरिति ख्याता देवी साक्षात्तिलोत्तमा ॥

1.55.34

रंभा चाम्भोजवदना रथकृद् ग्रामणीः शुभः
रथौजा रथचित्रश् च सुबाहुर्वै रथस्वनः ॥

1.55.35

वरुणश् च तथैवान्यः सुषेणः सेनजिच्छुभः
तार्क्ष्यश्चारिष्टनेमिश् च क्षतजित् सत्यजित्तथा ॥

1.55.36

रक्षोहेतिः प्रहेतिश् च पौरुषेयो वधस् तथा
सर्पो व्याघ्रः पुनश्चापो वातो विद्युद्दिवाकरः ॥

1.55.37

ब्रह्मोपेतश् च रक्षेन्द्रो यज्ञोपेतस्तथैव च
एते देवादयः सर्वे वसन्त्यर्के क्रमेण तु ॥

1.55.38

स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः
धात्रादिविष्णुपर्यन्ता देवा द्वादश कीर्तिताः ॥

1.55.39

आदित्यं परमं भानुं भाभिराप्याययन्ति ते
पुलस्त्याद्याः कौशिकान्ता मुनयो मुनिसत्तमाः ॥

1.55.40

द्वादशैव स्तवैर्भानुं स्तुवन्ति च यथाक्रमम्
नागाश्चाश्वतरान्तास्तु वासुकिप्रमुखाः शुभाः ॥

1.55.41

द्वादशैव महादेवं वहन्त्येवं यथाक्रमम्
क्रमेण सूर्यवर्चान्तास् तुम्बुरुप्रमुखाम्बुपम् ॥

1.55.42

गीतैरेनमुपासन्ते गन्धर्वा द्वादशोत्तमाः
कृतस्थलाद्या रंभान्ता दिव्याश्चाप्सरसो रविम् ॥

1.55.43

ताण्डवैः सरसैः सर्वाश् चोपासन्ते यथाक्रमम्
दिव्याः सत्यजिदन्ताश् च ग्रामण्यो रथकृन्मुखाः ॥

1.55.44

द्वादशास्य क्रमेणैव कुर्वते ऽभीषुसंग्रहम्
प्रयान्ति यज्ञोपेतान्ता रक्षोहेतिमुखाः सह ॥

1.55.45

सायुधा द्वादशैवैते राक्षसाश्च यथाक्रमम्
धातार्यमा पुलस्त्यश् च पुलहश् च प्रजापतिः ॥

1.55.46

उरगो वासुकिश्चैव कङ्कणीकश् च तावुभौ
तुम्बुरुर् नारदश्चैव गन्धर्वौ गायतां वरौ ॥

1.55.47

कृतस्थलाप्सराश्चैव तथा वै पुञ्जिकस्थला
ग्रामणी रथकृच्चैव रथौजाश्चैव तावुभौ ॥

1.55.48

रक्षोहेतिः प्रहेतिश् च यातुधानावुदाहृतौ
मधुमाधवयोरेष गणो वसति भास्करे ॥

1.55.49

वसन्ति ग्रीष्मकौ मासौ मित्रश् च वरुणश् च ह
ऋषिरत्रिर्वसिष्ठश् च तक्षको नाग एव च ॥

1.55.50

मेनका सहजन्या च गन्धर्वौ च हाहाहूहूः
सुबाहुनामा ग्रामण्यौ रथचित्रश् च तावुभौ ॥

1.55.51

पौरुषेयो वधश्चैव यातुधानावुदाहृतौ
एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ॥

1.55.52

ततः सूर्ये पुनश्चान्या निवसन्तीह देवताः
इन्द्रश्चैव विवस्वांश् च अङ्गिरा भृगुरेव च ॥

1.55.53

एलापत्रस् तथा सर्पः शङ्खपालश् च तावुभौ
विश्वावसूग्रसेनौ च वरुणश् च रथस्वनः ॥

1.55.54

प्रम्लोचा चैव विख्याता अनुम्लोचा च ते उभे
यातुधानास् तथा सर्पो व्याघ्रश्चैव तु तावुभौ ॥

1.55.55

नभोनभस्ययोरेष गणो वसति भास्करे
पर्जन्यश्चैव पूषा च भरद्वाजो ऽथ गौतमः ॥

1.55.56

धनञ्जय इरावांश् च सुरुचिः सपरावसुः
घृताची चाप्सरःश्रेष्ठा विश्वाची चातिशोभना ॥

1.55.57

सेनजिच्च सुषेणश् च सेनानीर् ग्रामणीश् च तौ
आपो वातश् च तावेतौ यातुधानावुभौ स्मृतौ ॥

1.55.58

वसन्त्येते तु वै सूर्ये मास ऊर्ज इषे च ह
हैमन्तिकौ तु द्वौ मासौ वसन्ति च दिवाकरे ॥

1.55.59

अंशुर्भगश् च द्वावेतौ कश्यपश् च क्रतुः सह
भुजङ्गश् च महापद्मः सर्पः कर्कोटकस् तथा ॥

1.55.60

चित्रसेनश् च गन्धर्व ऊर्णायुश्चैव तावुभौ
उर्वशी पूर्वचित्तिश् च तथैवाप्सरसावुभे ॥

1.55.61

तार्क्ष्यश्चारिष्टनेमिश् च सेनानीर् ग्रामणीश् च तौ
विद्युद्दिवाकरश्चोभौ यातुधानावुदाहृतौ ॥

1.55.62

सहे चैव सहस्ये च वसन्त्येते दिवाकरे
ततः शैशिरयोश्चापि मासयोर् निवसन्ति वै ॥

1.55.63

त्वष्टा विष्णुर्जमदग्निर् विश्वामित्रस्तथैव च
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ ॥

1.55.64

धृतराष्ट्रः सगन्धर्वः सूर्यवर्चास्तथैव च
तिलोत्तमाप्सराश्चैव देवी रंभा मनोहरा ॥

1.55.65

रथजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ
ब्रह्मोपेतस् तथा रक्षो यज्ञोपेतश् च यः स्मृतः ॥

1.55.66

एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ॥

1.55.67

सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम्
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् ॥

1.55.68

गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते
ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम् ॥

1.55.69

सर्पा वहन्ति वै सूर्यं यातुधाना अनुयान्ति वै
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् ॥

1.55.70

एतेषामेव देवानां यथा तेजो यथा तपः
यथायोगं यथामन्त्रं यथाधर्मं यथाबलम् ॥

1.55.71

तथा तपत्यसौ सूर्यस् तेषामिद्धस्तु तेजसा
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ॥

1.55.72

ऋषयो देवगन्धर्व पन्नगाप्सरसां गणाः
ग्रामण्यश् च तथा यक्षा यातुधानाश् च मुख्यतः ॥

1.55.73

एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥

1.55.74

मानवानां शुभं ह्येते हरन्ति च दुरात्मनाम्
दुरितं सुप्रचाराणां व्यपोहन्ति क्वचित् क्वचित् ॥

1.55.75

विमाने च स्थिता दिव्ये कामगे वातरंहसि
एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः ॥

1.55.76

वर्षन्तश् च तपन्तश् च ह्लादयन्तश् च वै द्विजाः
गोपायन्तीह भूतानि सर्वाणि द्यामनुक्षयात् ॥

1.55.77

स्थानाभिमानिनाम् एतत् स्थानं मन्वन्तरेषु वै
अतीतानागतानां वै वर्तन्ते सांप्रतं च ये ॥

1.55.78

एते वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश
चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह ॥

1.55.79

संक्षेपाद्विस्तराच्चैव यथावृत्तं यथाश्रुतम्
कथितं मुनिशार्दूला देवदेवस्य धीमतः ॥

1.55.80

एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ॥

1.55.81

इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु
हरितैरक्षरैरश्वैः सर्पते ऽसौ दिवाकरः ॥

1.55.82

अहोरात्रं रथेनासाव् एकचक्रेण तु भ्रमन्
सप्तद्वीपसमुद्राङ्गां सप्तभिः सर्पते दिवि ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc