लिङ्गपुराण · अध्याय 1.54
ज्योतिर्गणप्रचारं वै संक्षिप्याण्डे ब्रवीम्यहम्
देवक्षेत्राणि चालोक्य ग्रहचारप्रसिद्धये ॥
मानसोपरि माहेन्द्री प्राच्यां मेरोः पुरी स्थिता
दक्षिणे भानुपुत्रस्य वरुणस्य च वारुणी ॥
सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः
अमरावती संयमनी सुखा चैव विभा क्रमात् ॥
लोकपालोपरिष्टात् तु सर्वतो दक्षिणायने
काष्ठां गतस्य सूर्यस्य गतिर् या तां निबोधत ॥
दक्षिणप्रक्रमे भानुः क्षिप्तेषुरिव धावति
ज्योतिषां चक्रमादाय सततं परिगच्छति ॥
पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः
सर्वैः सायमनैः सौरो ह्य् उदयो दृश्यते द्विजाः ॥
स एव सुखवत्यां तु निशान्तस्थः प्रदृश्यते
अस्तमेति पुनः सूर्यो विभायां विश्वदृग् विभुः ॥
मया प्रोक्तो ऽमरावत्यां यथासौ वारितस्करः
तथा संयमनीं प्राप्य सुखां चैव विभां खगः ॥
यदापराह्णस्त्वाग्नेय्यां पूर्वाह्णो नैरृते द्विजाः
तदा त्वपररात्रश् च वायुभागे सुदारुणः ॥
ईशान्यां पूर्वरात्रस्तु गतिरेषा च सर्वतः
एवं पुष्करमध्ये तु यदा सर्पति वारिपः ॥
त्रिंशांशकं तु मेदिन्यां मुहूर्तेनैव गच्छति
योजनानां मुहूर्तस्य इमां संख्यां निबोधत ॥
पूर्णा शतसहस्राणाम् एकत्रिंशत्तु सा स्मृता
पञ्चाशच्च तथान्यानि सहस्राण्यधिकानि तु ॥
मौहूर्तिकी गतिर्ह्येषा भास्करस्य महात्मनः
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम् ॥
पर्यपृच्छेत् पतङ्गो ऽपि सौम्याशां चोत्तरे ऽहनि
मध्ये तु पुष्करस्याथ भ्रमते दक्षिणायने ॥
मानसोत्तरशैले तु महातेजा विभावसुः
मण्डलानां शतं पूर्णं तदशीत्यधिकं विभुः ॥
बाह्यं चाभ्यन्तरं प्रोक्तम् उत्तरायणदक्षिणे
प्रत्यहं चरते तानि सूर्यो वै मण्डलानि तु ॥
कुलालचक्रपर्यन्तो यथा शीघ्रं प्रवर्तते
दक्षिणप्रक्रमे देवस् तथा शीघ्रं प्रवर्तते ॥
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति
सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणायने ॥
त्रयोदशार्धमृक्षाणाम् अह्ना तु चरते रविः
मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥
कुलालचक्रमध्यं तु यथा मन्दं प्रसर्पति
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥
तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्छति
स रथो धिष्ठितो भानोर् आदित्यैर्मुनिभिस् तथा ॥
गन्धर्वैरप्सरोभिश् च ग्रामणीसर्पराक्षसैः
प्रदीपयन् सहस्रांशुर् अग्रतः पृष्ठतो ऽप्यधः ॥
ऊर्ध्वतश् च करं त्यक्त्वा सभां ब्राह्मीमनुत्तमाम्
अंभोभिर् मुनिभिस्त्यक्तैः संध्यायां तु निशाचरान् ॥
हत्वा हत्वा तु सम्प्राप्तान् ब्राह्मणैश्चरते रविः
अष्टादश मुहूर्तं तु उत्तरायणपश्चिमम् ॥
अहर्भवति तच्चापि चरते मन्दविक्रमः
त्रयोदशार्धम् ऋक्षाणि नक्तं द्वादशभी रविः
मुहूर्तैस् तावद् ऋक्षाणि दिवाष्टादशभिश्चरन् ॥
ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥
त्रिंशन्मुहूर्तैर् एवाहुर् अहोरात्रं पुराविदः
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु ॥
कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते
औत्तानपादो भ्रमति ग्रहैः सार्धं ग्रहाग्रणीः ॥
गणो मुनिज्योतिषां तु मनसा तस्य सर्पति
अधिष्ठितः पुनस्तेन भानुस्त्वादाय तिष्ठति ॥
किरणैः सर्वतस्तोयं देवो वै ससमीरणः
औत्तानपादस्य सदा ध्रुवत्वं वै प्रसादतः ॥
विष्णोरौत्तानपादेन चाप्तं तातस्य हेतुना
आपः पीतास्तु सूर्येण क्रमन्ते शशिनः क्रमात् ॥
निशाकरान्निस्रवन्ते जीमूतान्प्रत्यपः क्रमात्
वृन्दं जलमुचां चैव श्वसनेनाभिताडितम् ॥
क्ष्मायां सृष्टिं विसृजते ऽभासयत्तेन भास्करः
तोयस्य नास्ति वै नाशः तदैव परिवर्तते ॥
हिताय सर्वजन्तूनां गतिः शर्वेण निर्मिता
भूर्भुवः स्वस् तथा ह्यापो ह्य् अन्नं चामृतमेव च ॥
प्राणा वै जगतामापो भूतानि भुवनानि च
बहुनात्र किमुक्तेन चराचरमिदं जगत् ॥
अपां शिवस्य भगवान् आधिपत्ये व्यवस्थितः
अपां त्वधिपतिर्देवो भव इत्येव कीर्तितः ॥
भवात्मकं जगत्सर्वम् इति किं चेह चाद्भुतम्
नारायणत्वं देवस्य हरेश्चाद्भिः कृतं विभोः
जगतामालयो विष्णुस् त्व् आपस्तस्यालयानि तु ॥
दन्दह्यमानेषु चराचरेषु गोधूमभूतास् त्वथनिष्क्रमन्ति
या या ऊर्ध्वं मारुतेनेरिता वै तास्तास्त्वभ्राण्यग्निना वायुना च ॥
अतो धूमाग्निवातानां संयोगस्त्वभ्रमुच्यते
वारीणि वर्षतीत्यभ्रम् अभ्रस्येशः सहस्रदृक् ॥
यज्ञधूमोद्भवं चापि द्विजानां हितकृत्सदा
दावाग्निधूमसम्भूतम् अभ्रं वनहितं स्मृतम् ॥
मृतधूमोद्भवं त्वभ्रम् अशुभाय भविष्यति
अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः ॥
एवं धूमविशेषेण जगतां वै हिताहितम्
तस्मादाच्छादयेद्धूमम् अभिचारकृतं नरः ॥
अनाछाद्य द्विजः कुर्याद् धूमं यश्चाभिचारिकम्
एवमुद्दिश्य लोकस्य क्षयकृच्च भविष्यति ॥
अपां निधानं जीमूताः षण्मासानिह सुव्रताः
वर्षयन्त्येव जगतां हिताय पवनाज्ञया ॥
स्तनितं चेह वायव्यं वैद्युतं पावकोद्भवम्
त्रिधा तेषामिहोत्पत्तिर् अभ्राणां मुनिपुङ्गवाः ॥
न भ्रश्यन्ति यतो ऽभ्राणि मेहनान्मेघ उच्यते
काष्ठावाहाश् च वैरिञ्च्याः पक्षाश्चैव पृथग्विधाः ॥
आज्यानां काष्ठसंयोगाद् अग्नेर्धूमः प्रवर्तितः
द्वितीयानां च संभूतिर् विरिञ्चोच्छ्वासवायुना ॥
भूभृतां त्वथ पक्षैस्तु मघवच्छेदितैस्ततः
वाह्नेयास्त्वथ जीमूतास् त्व् आवहस्थानगाः शुभाः ॥
विरिञ्चोच्छ्वासजाः सर्वे प्रवहस्कन्धजास्ततः
पक्षजाः पुष्कराद्याश् च वर्षन्ति च यदा जलम् ॥
मूकाः सशब्ददुष्टाशास् त्व् एतैः कृत्यं यथाक्रमम्
क्षामवृष्टिप्रदा दीर्घ कालं शीतसमीरिणः ॥
जीवकाश् च तथा क्षीणा विद्युद्ध्वनिविवर्जिताः
तिष्ठन्त्याक्रोशमात्रे तु धरापृष्ठादितस्ततः ॥
अर्धक्रोशे तु सर्वे वै जीमूता गिरिवासिनः
मेघा योजनमात्रं तु साध्यत्वाद् बहुतोयदाः ॥
धरापृष्ठाद्द्विजाः क्ष्मायां विद्युद्गुणसमन्विताः
तेषां तेषां वृष्टिसर्गं त्रेधा कथितमत्र तु ॥
पक्षजाः कल्पजाः सर्वे पर्वतानां महत्तमाः
कल्पान्ते ते च वर्षन्ति रात्रौ नाशाय शारदाः ॥
पक्षजाः पुष्कराद्याश् च वर्षन्ति च यदा जलम्
तदार्णवमभूत्सर्वं तत्र शेते निशीश्वरः ॥
आग्नेयानां श्वासजानां पक्षजानां द्विजर्षभाः
जलदानां सदा धूमो ह्य् आप्यायन इति स्मृतः ॥
पौण्ड्रास्तु वृष्टयः सर्वा वैद्युताः शीतशस्यदाः
पुण्ड्रदेशेषु पतिता नागानां शीकरा हिमाः ॥
गाङ्गा गङ्गाम्बुसम्भूता पर्जन्येन परावहैः
नगानां च नदीनां च दिग्गजानां समाकुलम् ॥
मेघानां च पृथग्भूतं जलं प्रायादगादगम्
परावहो यः श्वसनश् चानयत्यम्बिकागुरुम् ॥
मेनापतिमतिक्रम्य वृष्टिशेषं द्विजाः परम्
अभ्येति भारते वर्षे त्व् अपरान्तविवृद्धये ॥
वृष्टयः कथिता ह्यद्य द्विधा वस्तु विवृद्धये
सस्यद्वयस्य संक्षेपात् प्रब्रवीमि यथामति ॥
स्रष्टा भानुर्महातेजा वृष्टीनां विश्वदृग् विभुः
सो ऽपि साक्षाद्द्विजश्रेष्ठाश् चेशानः परमः शिवः ॥
स एव तेजस्त्वोजस्तु बलं विप्रा यशः स्वयम्
चक्षुः श्रोत्रं मनो मृत्युर् आत्मा मन्युर् विदिग् दिशः ॥
सत्यं ऋतं तथा वायुर् अंबरं खचरश् च सः
लोकपालो हरिर्ब्रह्मा रुद्रः साक्षान्महेश्वरः ॥
सहस्रकिरणः श्रीमान् अष्टहस्तः सुमङ्गलः
अर्धनारिवपुः साक्षात् त्रिनेत्रस् त्रिदशाधिपः ॥
अस्यैवेह प्रसादात्तु वृष्टिर्नानाभवद्द्विजाः
सहस्रगुणमुत्स्रष्टुम् आदत्ते किरणैर्जलम् ॥
जलस्य नाशो वृद्धिर्वा नास्त्येवास्य विचारतः
ध्रुवेणाधिष्ठितो वायुर् वृष्टिं संहरते पुनः ॥
ग्रहान् निःसृत्य सूर्यात् तु कृत्स्ने नक्षत्रमण्डले
चारस्यान्ते विशत्यर्के ध्रुवेण समधिष्ठिता ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0