भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.43

1.43.1

मया सह पिता हृष्टः प्रणम्य च महेश्वरम्
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः ॥

1.43.2

यदागतो ऽहमुटजं शिलादस्य महामुने
तदा वै दैविकं रूपं त्यक्त्वा मानुष्यम् आस्थितः ॥

1.43.3

नष्टा चैव स्मृतिर्दिव्या येन केनापि कारणात्
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः ॥

1.43.4

विललापातिदुःखार्तः स्वजनैश् च समावृतः
जातकर्मादिकाश्चैव चकार मम सर्ववित् ॥

1.43.5

शालङ्कायनपुत्रो वै शिलादः पुत्रवत्सलः
उपदिष्टा हि तेनैव ऋक्शाखा यजुषस् तथा ॥

1.43.6

सामशाखासहस्रं च साङ्गोपाङ्गं महामुने
आयुर्वेदं धनुर्वेदं गान्धर्वं चाश्वलक्षणम् ॥

1.43.7

हस्तिनां चरितं चैव नराणां चैव लक्षणम्
सम्पूर्णे सप्तमे वर्षे ततो ऽथ मुनिसत्तमौ ॥

1.43.8

मित्रावरुणनामानौ तपोयोगबलान्वितौ
तस्याश्रमं गतौ दिव्यौ द्रष्टुं मां चाज्ञया विभोः ॥

1.43.9

ऊचतुश् च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः
तात नन्द्ययमल्पायुः सर्वशास्त्रार्थपारगः ॥

1.43.10

न दृष्टमेवमाश्चर्यम् आयुर्वर्षादतः परम्
इत्युक्तवति विप्रेन्द्रः शिलादः पुत्रवत्सलः ॥

1.43.11

समालिङ्ग्य च दुःखार्तो रुरोदातीव विस्वरम्
हा पुत्र पुत्र पुत्रेति पपात च समन्ततः ॥

1.43.12

अहो बलं दैवविधेर् विधातुश्चेति दुःखितः
तस्य चार्तस्वरं श्रुत्वा तदाश्रमनिवासिनः ॥

1.43.13

निपेतुर्विह्वलात्यर्थं रक्षाश्चक्रुश् च मङ्गलम्
तुष्टुवुश् च महादेवं त्रियंबकमुमापतिम् ॥

1.43.14

हुत्वा त्रियंबकेनैव मधुनैव च संप्लुताम्
दूर्वामयुतसंख्यातां सर्वद्रव्यसमन्विताम् ॥

1.43.15

पिता विगतसंज्ञश् च तथा चैव पितामहः
विचेष्टश् च ललापासौ मृतवन्निपपात च ॥

1.43.16

मृत्योर् भीतो ऽहम् अचिराच् छिरसा चाभिवन्द्य तम्
मृतवत्पतितं साक्षात् पितरं च पितामहम् ॥

1.43.17

प्रदक्षिणीकृत्य च तं रुद्रजाप्यरतो ऽभवम्
हृत्पुण्डरीके सुषिरे ध्यात्वा देवं त्रियंबकम् ॥

1.43.18

त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदाशिवम्
सरितश्चान्तरे पुण्ये स्थितं मां परमेश्वरः ॥

1.43.19

तुष्टो ऽब्रवीन्महादेवः सोमः सोमार्धभूषणः
वत्स नन्दिन्महाबाहो मृत्योर्भीतिः कुतस्तव ॥

1.43.20

मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः
वत्सैनत्तव देहं च लौकिकं परमार्थतः ॥

1.43.21

नास्त्येव दैविकं दृष्टं शिलादेन पुरा तव
देवैश् च मुनिभिः सिद्धैर् गन्धर्वैर्दानवोत्तमैः ॥

1.43.22

पूजितं यत्पुरा वत्स दैविकं नन्दिकेश्वर
संसारस्य स्वभावो ऽयं सुखं दुःखं पुनः पुनः ॥

1.43.23

नृणां योनिपरित्यागः सर्वथैव विवेकिनः
एवमुक्त्वा तु मां साक्षात् सर्वदेवमहेश्वरः ॥

1.43.24

कराभ्यां सुशुभाभ्यां च उभाभ्यां परमेश्वरः
पस्पर्श भगवान् रुद्रः परमार्तिहरो हरः ॥

1.43.25

उवाच च महादेवस् तुष्टात्मा वृषभध्वजः
निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ॥

1.43.26

समालोक्य च तुष्टात्मा महादेवः सुरेश्वरः
अजरो जरया त्यक्तो नित्यं दुःखविवर्जितः ॥

1.43.27

अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः
ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः ॥

1.43.28

इष्टो मम सदा चैव मम पार्श्वगतः सदा
मद्बलश्चैव भविता महायोगबलान्वितः ॥

1.43.29

एवमुक्त्वा च मां देवो भगवान् सगणस्तदा
कुशेशयमयीं मालां समुन्मुच्यात्मनस्तदा ॥

1.43.30

आबबन्ध महातेजा मम देवो वृषध्वजः
तयाहं मालया जातः शुभया कण्ठसक्तया ॥

1.43.31

त्र्यक्षो दशभुजश्चैव द्वितीय इव शङ्करः
तत एव समादाय हस्तेन परमेश्वरः ॥

1.43.32

उवाच ब्रूहि किं ते ऽद्य ददामि वरमुत्तमम्
ततो जटाश्रितं वारि गृहीत्वा चातिनिर्मलम् ॥

1.43.33

उक्ता नदी भवस्वेति उत्ससर्ज वृषध्वजः
ततः सा दिव्यतोया च पूर्णासितजला शुभा ॥

1.43.34

पद्मोत्पलवनोपेता प्रावर्तत महानदी
तामाह च महादेवो नदीं परमशोभनाम् ॥

1.43.35

यस्माज्जटोदकादेव प्रवृत्ता त्वं महानदी
तस्माज्जटोदका पुण्या भविष्यसि सरिद्वरा ॥

1.43.36

त्वयि स्नात्वा नरः कश्चित् सर्वपापैः प्रमुच्यते
ततो देव्या महादेवः शिलादतनयं प्रभुः ॥

1.43.37

पुत्रस्ते ऽयमिति प्रोच्य पादयोः संन्यपातयत्
सा मामाघ्राय शिरसि पाणिभ्यां परिमार्जती ॥

1.43.38

पुत्रप्रेम्णाभ्यषिञ्चच्च स्रोतोभिस्तनयैस्त्रिभिः
पयसा शङ्खगौरेण देवदेवं निरीक्ष्य सा ॥

1.43.39

तानि स्रोतांसि त्रीण्यस्याः स्रोतस्विन्यो ऽभवंस्तदा
नदीं त्रिस्रोतसं देवो भगवानवदद्भवः ॥

1.43.40

त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः
ननाद नादात्तस्माच्च सरिदन्या ततो ऽभवत् ॥

1.43.41

वृषध्वनिरिति ख्याता देवदेवेन सा नदी
जांबूनदमयं चित्रं सर्वरत्नमयं शुभम् ॥

1.43.42

स्वं देवश्चाद्भुतं दिव्यं निर्मितं विश्वकर्मणा
मुकुटं चाबबन्धेशो मम मूर्ध्नि वृषध्वजः ॥

1.43.43

कुण्डले च शुभे दिव्ये वज्रवैडूर्यभूषिते
आबबन्ध महादेवः स्वयमेव महेश्वरः ॥

1.43.44

मां तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघैः प्रभाकरः
मेघांभसा चाभ्यषिञ्चच् छिलादनम् अथो मुने ॥

1.43.45

तस्याभिषिक्तस्य तदा प्रवृत्ता स्रोतसा भृशम्
यस्मात् सुवर्णान्निःसृत्य नद्येषा सम्प्रवर्तते ॥

1.43.46

स्वर्णोदकेति तामाह देवदेवस्त्रियंबकः
जाम्बूनदमयाद्यस्माद् द्वितीया मुकुटाच्छुभा ॥

1.43.47

प्रावर्तत नदी पुण्या ऊचुर् जम्बूनदीति ताम्
एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् ॥

1.43.48

यः पञ्चनदमासाद्य स्नात्वा जप्येश्वरेश्वरम्
पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः ॥

1.43.49

अथ देवो महादेवः सर्वभूतपतिर्भवः
देवीमुवाच शर्वाणीम् उमां गिरिसुतामजाम् ॥

1.43.50

देवी नन्दीश्वरं देवम् अभिषिञ्चामि भूतपम्
गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसे ऽव्यये ॥

1.43.51

तस्य तद्वचनं श्रुत्वा भवानी हर्षितानना
स्मयन्ती वरदं प्राह भवं भूतपतिं पतिम् ॥

1.43.52

सर्वलोकाधिपत्यं च गणेशत्वं तथैव च
दातुमर्हसि देवेश शैलादिस्तनयो मम ॥

1.43.53

ततः स भगवाञ्शर्वः सर्वलोकेश्वरेश्वरः
सस्मार गणपान् दिव्यान् देवदेवो वृषध्वजः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc