भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.42

1.42.1

गते पुण्ये च वरदे सहस्राक्षे शिलाशनः
आराधयन्महादेवं तपसातोषयद्भवम् ॥

1.42.2

अथ तस्यैवमनिशं तत्परस्य द्विजस्य तु
दिव्यं वर्षसहस्रं तु गतं क्षणमिवाद्भुतम् ॥

1.42.3

वल्मीकेनावृताङ्गश् च लक्ष्यः कीटगणैर्मुनिः
वज्रसूचीमुखैश्चान्यै रक्तकीटैश् च सर्वतः ॥

1.42.4

निर्मांसरुधिरत्वग् वै निर्लेपः कुड्यवत् स्थितः
अस्थिशेषो ऽभवत्पश्चात् तममन्यत शङ्करः ॥

1.42.5

यदा स्पृष्टो मुनिस्तेन करेण च स्मरारिणा
तदैव मुनिशार्दूलश् चोत्ससर्ज क्लमं द्विजः ॥

1.42.6

तपतस्तस्य तपसा प्रभुस्तुष्टाथ शङ्करः
तुष्टस्तवेत्यथोवाच सगणश्चोमया सह ॥

1.42.7

तपसानेन किं कार्यं भवतस्ते महामते
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम् ॥

1.42.8

ततः प्रणम्य देवेशं स्तुत्वोवाच शिलाशनः
हर्षगद्गदया वाचा सोमं सोमविभूषणम् ॥

1.42.9

भगवन्देवदेवेश त्रिपुरार्दन शङ्कर
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सत्तम ॥

1.42.10

पूर्वमाराधितः प्राह तपसा परमेश्वरः
शिलादं ब्रह्मणा रुद्रः प्रीत्या परमया पुनः ॥

1.42.11

पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन
तपसा चावतारार्थं मुनिभिश् च सुरोत्तमैः ॥

1.42.12

तव पुत्रो भविष्यामि नन्दिनाम्ना त्वयोनिजः
पिता भविष्यसि मम पितुर्वै जगतां मुने ॥

1.42.13

एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्य स्थितं घृणी
सोमः सोमोपमः प्रीतस् तत्रैवान्तरधीयत ॥

1.42.14

लब्धपुत्रः पिता रुद्रात् प्रीतो मम महामुने
यज्ञाङ्गणं महत्प्राप्य यज्ञार्थं यज्ञवित्तमः ॥

1.42.15

तदङ्गणादहं शंभोस् तनुजस्तस्य चाज्ञया
संजातः पूर्वमेवाहं युगान्ताग्निसमप्रभः ॥

1.42.16

ववर्षुस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्याः
शिलादात्मजत्वं गते मय्युपेन्द्रः ससर्जाथ वृष्टिं सुपुष्पौघमिश्राम् ॥

1.42.17

मां दृष्ट्वा कालसूर्याभं जटामुकुटधारिणम्
त्र्यक्षं चतुर्भुजं बालं शूलटङ्कगदाधरम् ॥

1.42.18

वज्रिणं वज्रदंष्ट्रं च वज्रिणाराधितं शिशुम्
वज्रकुण्डलिनं घोरं नीरदोपमनिःस्वनम् ॥

1.42.19

ब्रह्माद्यास्तुष्टुवुः सर्वे सुरेन्द्रश् च मुनीश्वराः
नेदुः समन्ततः सर्वे ननृतुश्चाप्सरोगणाः ॥

1.42.20

ऋषयो मुनिशार्दूल ऋग्यजुःसामसंभवैः
मन्त्रैर्माहेश्वरैः स्तुत्वा सम्प्रणेमुर्मुदान्विताः ॥

1.42.21

ब्रह्मा हरिश् च रुद्रश् च शक्रः साक्षाच्छिवांबिका
जीवश्चेन्दुर्महातेजा भास्करः पवनो ऽनलः ॥

1.42.22

ईशानो निरृतिर्यक्षो यमो वरुण एव च
विश्वेदेवास् तथा रुद्रा वसवश् च महाबलाः ॥

1.42.23

लक्ष्मीः साक्षाच्छची ज्येष्ठा देवी चैव सरस्वती
अदितिश् च दितिश्चैव श्रद्धा लज्जा धृतिस् तथा ॥

1.42.24

नन्दा भद्रा च सुरभी सुशीला सुमनास् तथा
वृषेन्द्रश् च महातेजा धर्मो धर्मात्मजस् तथा ॥

1.42.25

आवृत्य मां तथालिङ्ग्य तुष्टुवुर्मुनिसत्तम
शिलादो ऽपि मुनिर्दृष्ट्वा पिता मे तादृशं तदा ॥

1.42.26

प्रीत्या प्रणम्य पुण्यात्मा तुष्टावेष्टप्रदं सुतम्
भगवन्देवदेवेश त्रियंबक ममाव्यय ॥

1.42.27

पुत्रो ऽसि जगतां यस्मात् त्राता दुःखाद्धि किं पुनः
रक्षको जगतां यस्मात् पिता मे पुत्र सर्वग ॥

1.42.28

अयोनिज नमस्तुभ्यं जगद्योने पितामह
पिता पुत्र महेशान जगतां च जगद्गुरो ॥

1.42.29

वत्स वत्स महाभाग पाहि मां परमेश्वर
त्वयाहं नन्दितो यस्मान् नन्दी नाम्ना सुरेश्वर ॥

1.42.30

तस्मान्नन्दय मां नन्दिन् नमामि जगदीश्वरम्
प्रसीद पितरौ मे ऽद्य रुद्रलोकं गतौ विभो ॥

1.42.31

पितामहश् च भो नन्दिन् नवतीर्णे महेश्वरे
ममैव सफलं लोके जन्म वै जगतां प्रभो ॥

1.42.32

अवतीर्णे सुते नन्दिन् रक्षार्थं मह्यमीश्वर
तुभ्यं नमः सुरेशान नन्दीश्वर नमो ऽस्तु ते ॥

1.42.33

पुत्र पाहि महाबाहो देवदेव जगद्गुरो
पुत्रत्वमेव नन्दीश मत्वा यत्कीर्तितं मया ॥

1.42.34

त्वया तत्क्षम्यतां वत्स स्तवस्तव्य सुरासुरैः
यः पठेच्छृणुयाद्वापि मम पुत्रप्रभाषितम् ॥

1.42.35

श्रावयेद्वा द्विजान् भक्त्या मया सार्धं स मोदते
एवं स्तुत्वा सुतं बालं प्रणम्य बहुमानतः ॥

1.42.36

मुनीश्वरांश् च सम्प्रेक्ष्य शिलाद उवाच सुव्रतः
पश्यध्वं मुनयः सर्वे महाभाग्यं ममाव्ययः ॥

1.42.37

नन्दी यज्ञाङ्गणे देवश् चावतीर्णो यतः प्रभुः
मत्समः कः पुमांल्लोके देवो वा दानवो ऽपि वा ॥

1.42.38

एष नन्दी यतो जातो यज्ञभूमौ हिताय मे ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc