लिङ्गपुराण · अध्याय 1.44
स्मरणादेव रुद्रस्य सम्प्राप्ताश् च गणेश्वराः
सर्वे सहस्रहस्ताश् च सहस्रायुधपाणयः ॥
त्रिनेत्राश् च महात्मानस् त्रिदशैरपि वन्दिताः
कोटिकालाग्निसंकाशा जटामुकुटधारिणः ॥
दंष्ट्राकरालवदना नित्या बुद्धाश् च निर्मलाः
कोटिकोटिगणैस्तुल्यैर् आत्मना च गणेश्वराः
असंख्याता महात्मानस् तत्राजग्मुर्मुदा युताः ॥
गायन्तश् च द्रवन्तश् च नृत्यन्तश् च महाबलाः
मुखाडम्बरवाद्यानि वादयन्तस्तथैव च ॥
रथैर्नागैर्हयैश्चैव सिंहमर्कटवाहनाः
विमानेषु तथारूढा हेमचित्रेषु वै गणाः ॥
भेरीमृदङ्गकाद्यैश् च पणवानकगोमुखैः
वादित्रैर्विविधैश्चान्यैः पटहैरेकपुष्करैः ॥
भेरीमुरजसंनादैर् आडम्बरकडिण्डिमैः
मर्दलैर्वेणुवीणाभिर् विविधैस्तालनिःस्वनैः ॥
दर्दुरैस्तलघातैश् च कच्छपैः पणवैरपि
वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् ॥
ते गणेशा महासत्त्वाः सर्वदेवेश्वरेश्वराः
प्रणम्य देवं देवीं च इदं वचनम् अब्रुवन् ॥
भगवन्देवदेवेश त्रियंबक वृषध्वज
किमर्थं च स्मृता देव आज्ञापय महाद्युते ॥
किं सागराञ्शोषयामो यमं वा सह किङ्करैः
हन्मो मृत्युसुतां मृत्युं पशुवद्धन्म पद्मजम् ॥
बद्ध्वेन्द्रं सह देवैश् च सह विष्णुं च वायुना
आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया
कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ॥
तांस्तथावादिनः सर्वान् गणेशान् सर्वसंमतान्
उवाच देवः सम्पूज्य कोटिकोटिशतान्प्रभुः ॥
शृणुध्वं यत्कृते यूयम् इहाहूता जगद्धिताः
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः ॥
नन्दीश्वरो ऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः
विप्रो ऽयं नायकश्चैव सेनानीर् वः समृद्धिमान् ॥
तमिमं मम संदेशाद् यूयं सर्वे ऽपि संमताः
सेनान्यम् अभिषिञ्चध्वं महायोगपतिं पतिम् ॥
एवमुक्ता भगवता गणपाः सर्व एव ते
एवमस्त्विति संमन्त्र्य संभारानाहरंस्ततः ॥
तस्य सर्वाश्रयं दिव्यं जांबूनदमयं शुभम्
आसनं मेरुसंकाशं मनोहरम् उपाहरन् ॥
नैकस्तंभमयं चापि चामीकरवरप्रभम्
मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥
स्तंभैश् च वैडूर्यमयैः किङ्किणीजालसंवृतम्
चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् ॥
कृत्वा विन्यस्य तन्मध्ये तदासनवरं शुभम्
तस्याग्रतः पादपीठं नीलवज्रावभासितम् ॥
चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ
सम्पूर्णौ परमाम्भोभिर् अरविन्दावृताननौ ॥
कलशानां सहस्रं तु सौवर्णं राजतं तथा
ताम्रजं मृन्मयं चैव सर्वतीर्थाम्बुपूरितम् ॥
वासोयुगं तथा दिव्यं गन्धं दिव्यं तथैव च
केयूरे कुण्डले चैव मुकुटं हारमेव च ॥
छत्रं शतशलाकं च वालव्यजनमेव च
दत्तं महात्मना तेन ब्रह्मणा परमेष्ठिना ॥
शङ्खहाराङ्गगौरेण पृष्ठेनापि विराजितम्
व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचामरम् ॥
ऐरावतः सुप्रतीको गजावेतौ सुपूजितौ
मुकुटं काञ्चनं चैव निर्मितं विश्वकर्मणा ॥
कुण्डले चामले दिव्ये वज्रं चैव वरायुधम्
जांबूनदमयं सूत्रं केयूरद्वयमेव च ॥
सम्भाराणि तथान्यानि विविधानि बहून्यपि
समन्तान् निन्युर् अव्यग्रा गणपा देवसंमताः ॥
ततो देवाश् च सेन्द्राश् च नारायणमुखास् तथा
मुनयो भगवान्ब्रह्मा नवब्रह्माण एव च ॥
देवैश् च लोकाः सर्वे ते ततो जग्मुर्मुदा युताः
तेष्वागतेषु सर्वेषु भगवान्परमेश्वरः ॥
सर्वकार्यविधिं कर्तुम् आदिदेश पितामहम्
पितामहो ऽपि भगवान् नियोगादेव तस्य तु ॥
चकार सर्वं भगवान् अभिषेकं समाहितः
अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषेचयत् ॥
ततो विष्णुस्ततः शक्रो लोकपालास्तथैव च
अभ्यषिञ्चन्त विधिवद् गणेन्द्रं शिवशासनात् ॥
ऋषयस्तुष्टुवुश्चैव पिता महपुरोगमाः
स्तुतवत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥
शिरस्यञ्जलिमादाय तुष्टाव च समाहितः
प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ॥
ततो गणाधिपाः सर्वे ततो देवास्ततो ऽसुराः
एवं स्तुतश्चाभिषिक्तो देवैः सब्रह्मकैस्तदा ॥
उद्वाहश् च कृतस्तत्र नियोगात्परमेष्ठिनः
मरुतां च सुता देवी सुयशाख्या बभूव या ॥
लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम्
चामरे चामरासक्त हस्ताग्रैः स्त्रीगणैर्युता ॥
सिंहासनं च परमं तया चाधिष्ठितं मया
अलंकृता महालक्ष्म्या मुकुटाद्यैः सुभूषणैः ॥
लब्धो हारश् च परमो देव्याः कण्ठगतस् तथा
वृषेन्द्रश् च सितो नागः सिंहः सिंहध्वजस् तथा ॥
रथश् च हेमच्छत्रं च चन्द्रबिंबसमप्रभम्
अद्यापि सदृशः कश्चिन् मया नास्ति विभुः क्वचित् ॥
सान्वयं च गृहीत्वेशस् तथा संबन्धिबान्धवैः
आरुह्य वृषमीशानो मया देव्या गतः शिवः ॥
तदा देवीं भवं दृष्ट्वा मया च प्रार्थयन् गणैः
मुनिदेवर्षयः सिद्धा आज्ञां पाशुपतीं द्विजाः ॥
अथाज्ञां प्रददौ तेषाम् अर्हाणाम् आज्ञया विभोः
नन्दिको नगजाभर्तुस् तेषां पाशुपतीं शुभाम् ॥
तस्माद्धि मुनयो लब्ध्वा तदाज्ञां मुनिपुङ्गवात्
भवभक्तास्तदा चासंस् तस्मादेवं समर्चयेत् ॥
नमस्कारविहीनस्तु नाम उद्गिरयेद्भवे
ब्रह्मघ्नदशसंतुल्यं तस्य पापं गरीयसम् ॥
तस्मात्सर्वप्रकारेण नमस्कारादिमुच्चरेत्
आदौ कुर्यान्नमस्कारं तदन्ते शिवतां व्रजेत् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0