लिङ्गपुराण · अध्याय 1.30
एवमुक्तास्तदा तेन ब्रह्मणा ब्राह्मणर्षभाः
श्वेतस्य च कथां पुण्याम् अपृच्छन् परमर्षयः ॥
श्वेतो नाम मुनिः श्रीमान् गतायुर्गिरिगह्वरे
सक्तो ह्यभ्यर्च्य यद्भक्त्या तुष्टाव च महेश्वरम् ॥
रुद्राध्यायेन पुण्येन नमस्तेत्यादिना द्विजाः
ततः कालो महातेजाः कालप्राप्तं द्विजोत्तमम् ॥
नेतुं संचिन्त्य विप्रेन्द्राः सान्निध्यमकरोन्मुनेः
श्वेतो ऽपि दृष्ट्वा तं कालं कालप्राप्तो ऽपि शङ्करम् ॥
पूजयामास पुण्यात्मा त्रियंबकमनुस्मरन्
त्रियंबकं यजेदेवं सुगन्धिं पुष्टिवर्धनम् ॥
किं करिष्यति मे मृत्युर् मृत्योर्मृत्युरहं यतः
तं दृष्ट्वा सस्मितं प्राह श्वेतं लोकभयंकरः ॥
एह्येहि श्वेत चानेन विधिना किं फलं तव
रुद्रो वा भगवान् विष्णुर् ब्रह्मा वा जगदीश्वरः ॥
कः समर्थः परित्रातुं मया ग्रस्तं द्विजोत्तम
अनेन मम किं विप्र रौद्रेण विधिना प्रभोः ॥
नेतुं यस्योत्थितश्चाहं यमलोकं क्षणेन वै
यस्माद्गतायुस्त्वं तस्मान् मुने नेतुमिहोद्यतः ॥
तस्य तद्वचनं श्रुत्वा भैरवं धर्ममिश्रितम्
हा रुद्र रुद्र रुद्रेति ललाप मुनिपुङ्गवः ॥
तं प्राह च महादेवं कालं सम्प्रेक्ष्य वै दृशा
नेत्रेण बाष्पमिश्रेण संभ्रान्तेन समाकुलः ॥
त्वया किं काल नो नाथश् चास्ति चेद्धि वृषध्वजः
लिङ्गे ऽस्मिन् शङ्करो रुद्रः सर्वदेवभवोद्भवः ॥
अतीव भवभक्तानां मद्विधानां महात्मनाम्
विधिना किं महाबाहो गच्छ गच्छ यथागतम् ॥
ततो निशम्य कुपितस् तीक्ष्णदंष्ट्रो भयङ्करः
श्रुत्वा श्वेतस्य तद्वाक्यं पाशहस्तो भयावहः ॥
सिंहनादं महत्कृत्वा चास्फाट्य च मुहुर्मुहुः
बबन्ध च मुनिं कालः कालप्राप्तं तमाह च ॥
मया बद्धो ऽसि विप्रर्षे श्वेतं नेतुं यमालयम्
अद्य वै देवदेवेन तव रुद्रेण किं कृतम् ॥
क्व शर्वस्तव भक्तिश् च क्व पूजा पूजया फलम्
क्व चाहं क्व च मे भीतिः श्वेत बद्धो ऽसि वै मया ॥
लिङ्गे ऽस्मिन् संस्थितः श्वेत तव रुद्रो महेश्वरः
निश्चेष्टो ऽसौ महादेवः कथं पूज्यो महेश्वरः ॥
ततः सदाशिवः स्वयं द्विजं निहन्तुमागतम्
निहन्तुमन्तकं स्मयन् स्मरारियज्ञहा हरः ॥
त्वरन् विनिर्गतः परः शिवः स्वयं त्रिलोचनः
त्रियंबको ऽम्बया समं सनन्दिना गणेश्वरैः ॥
ससर्ज जीवितं क्षणाद् भवं निरीक्ष्य वै भयात्
पपात चाशु वै बली मुनेस्तु संनिधौ द्विजाः ॥
ननाद चोर्ध्वमुच्चधीर् निरीक्ष्य चान्तकान्तकम्
निरीक्षणेन वै मृतं भवस्य विप्रपुङ्गवाः ॥
विनेदुरुच्चमीश्वराः सुरेश्वरा महेश्वरम्
प्रणेमुरंबिकामुमां मुनीश्वरास्तु हर्षिताः ॥
ससर्जुर् अस्य मूर्ध्नि वै मुनेर्भवस्य खेचराः
सुशोभनं सुशीतलं सुपुष्पवर्षमंबरात् ॥
अहो निरीक्ष्य चान्तकं मृतं तदा सुविस्मितः
शिलाशनात्मजो ऽव्ययं शिवं प्रणम्य शङ्करम् ॥
उवाच बालधीर्मृतः प्रसीद चेति वै मुनेः
महेश्वरं महेश्वर -स्य चानुगो गणेश्वरः ॥
ततो विवेश भगवान् अनुगृह्य द्विजोत्तमम्
क्षणाद्गूढशरीरं हि ध्वस्तं दृष्ट्वान्तकं क्षणात् ॥
तस्मान्मृत्युञ्जयं चैव भक्त्या सम्पूजये द्विजाः
मुक्तिदं भुक्तिदं चैव सर्वेषामपि शङ्करम् ॥
बहुना किं प्रलापेन संन्यस्याभ्यर्च्य वै भवम्
भक्त्या चापरया तस्मिन् विशोका वै भविष्यथ ॥
एवमुक्तास्तदा तेन ब्रह्मणा ब्रह्मवादिनः
प्रसीद भक्तिर्देवेशे भवेद्रुद्रे पिनाकिनि ॥
केन वा तपसा देव यज्ञेनाप्यथ केन वा
व्रतैर्वा भगवद्भक्ता भविष्यन्ति द्विजातयः ॥
न दानेन मुनिश्रेष्ठास् तपसा च न विद्यया
यज्ञैर् होमैर् व्रतैर् वेदैर् योगशास्त्रैर् निरोधनैः ॥
प्रसादे नैव सा भक्तिः शिवे परमकारणे
अथ तस्य वचः श्रुत्वा सर्वे ते परमर्षयः ॥
सदारतनयाः श्रान्ताः प्रणेमुश् च पितामहम्
तस्मात्पाशुपती भक्तिर् धर्मकामार्थसिद्धिदा ॥
मुनेर् विजयदा चैव सर्वमृत्युजयप्रदा
दधीचस्तु पुरा भक्त्या हरिं जित्वामरैर्विभुम् ॥
क्षयं जघान पादेन वज्रास्थित्वं च लब्धवान्
मयापि निर्जितो मृत्युर् महादेवस्य कीर्तनात् ॥
श्वेतेनापि गतेनास्यं मृत्योर्मुनिवरेण तु
महादेवप्रसादेन जितो मृत्युर्यथा मया ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0