भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.31

1.31.1

कथं भवप्रसादेन देवदारुवनौकसः
प्रपन्नाः शरणं देवं वक्तुमर्हसि मे प्रभो ॥

1.31.2

तानुवाच महाभागान् भगवान् आत्मभूः स्वयम्
देवदारुवनस्थांस्तु तपसा पावकप्रभान् ॥

1.31.3

एष देवो महादेवो विज्ञेयस्तु महेश्वरः
न तस्मात्परमं किंचित् पदं समधिगम्यते ॥

1.31.4

देवानां च ऋषीनां च पितॄणां चैव स प्रभुः
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनः ॥

1.31.5

संहरत्येष भगवान् कालो भूत्वा महेश्वरः
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ॥

1.31.6

एष चक्री च वज्री च श्रीवत्सकृतलक्षणः
योगी कृतयुगे चैव त्रेतायां क्रतुर् उच्यते ॥

1.31.7

द्वापरे चैव कालाग्निर् धर्मकेतुः कलौ स्मृतः
रुद्रस्य मूर्तयस्त्वेता ये ऽभिध्यायन्ति पण्डिताः ॥

1.31.8

चतुरस्रं बहिश्चान्तर् अष्टास्रं पिण्डिकाश्रये
वृत्तं सुदर्शनं योग्यम् एवं लिङ्गं प्रपूजयेत् ॥

1.31.9

तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकम्
मूर्तिरेका स्थिता चास्य मूर्तयः परिकीर्तिताः ॥

1.31.10

यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम्
तस्माद्धि देवदेवेशम् ईशानं प्रभुमव्ययम् ॥

1.31.11

आराधयन्ति विप्रेन्द्रा जितक्रोधा जितेन्द्रियाः
लिङ्गं कृत्वा यथान्यायं सर्वलक्षणसंयुतम् ॥

1.31.12

अङ्गुष्ठमात्रं सुशुभं सुवृत्तं सर्वसंमतम्
समनाभं तथाष्टास्रं षोडशास्रम् अथापि वा ॥

1.31.13

सुवृत्तं मण्डलं दिव्यं सर्वकामफलप्रदम्
वेदिका द्विगुणा तस्य समा वा सर्वसंमता ॥

1.31.14

गोमुखी च त्रिभागैका वेद्या लक्षणसंयुता
पट्टिका च समन्ताद्वै यवमात्रा द्विजोत्तमाः ॥

1.31.15

सौवर्णं राजतं शैलं कृत्वा ताम्रमयं तथा
वेदिकायाश् च विस्तारं त्रिगुणं वै समन्ततः ॥

1.31.16

वर्तुलं चतुरस्रं वा षडस्रं वा त्रिरस्रकम्
समन्तान्निर्व्रणं शुभ्रं लक्षणैस्तत् सुलक्षितम् ॥

1.31.17

प्रतिष्ठाप्य यथान्यायं पूजालक्षणसंयुतम्
कलशं स्थापयेत्तस्य वेदिमध्ये तथा द्विजाः ॥

1.31.18

सहिरण्यं सबीजं च ब्रह्मभिश् चाभिमन्त्रितम्
सेचयेच्च ततो लिङ्गं पवित्रैः पञ्चभिः शुभैः ॥

1.31.19

पूजयेच्च यथालाभं ततः सिद्धिमवाप्स्यथ
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ॥

1.31.20

सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यत
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ॥

1.31.21

यं दृष्ट्वा सर्वमज्ञानम् अधर्मश् च प्रणश्यति
ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम् ॥

1.31.22

सम्प्रस्थिता वनौकास्ते देवदारुवनं ततः
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ॥

1.31.23

स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥

1.31.24

शैवालशोभनाः केचित् केचिदन्तर्जलेशयाः
केचिद्दर्भावकाशास्तु पादाङ्गुष्ठाग्रधिष्ठिताः ॥

1.31.25

दन्तोलूखलिनस्त्वन्ये अश्मकुट्टास् तथा परे
स्थानवीरासनास्त्वन्ये मृगचर्यारताः परे ॥

1.31.26

कालं नयन्ति तपसा पूजया च महाधियः
एवं संवत्सरे पूर्णे वसन्ते समुपस्थिते ॥

1.31.27

ततस्तेषां प्रसादार्थं भक्तानाम् अनुकम्पया
देवः कृतयुगे तस्मिन् गिरौ हिमवतः शुभे ॥

1.31.28

देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः
भस्मपांसूपदिग्धाङ्गो नग्नो विकृतलक्षणः ॥

1.31.29

उल्मुकव्यग्रहस्तश् च रक्तपिङ्गललोचनः
क्वचिच्च हसते रौद्रं क्वचिद्गायति विस्मितः ॥

1.31.30

क्वचिन्नृत्यति शृङ्गारं क्वचिद्रौति मुहुर्मुहुः
आश्रमे ह्यटते भैक्ष्यं याचते च पुनः पुनः ॥

1.31.31

मायां कृत्वा तथारूपां देवस्तद्वनम् आगतः
ततस्ते मुनयः सर्वे तुष्टुवुश् च समाहिताः ॥

1.31.32

अद्भिर् विविधमाल्यैश् च धूपैर्गन्धैस्तथैव च
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः ॥

1.31.33

मुनयस्ते तथा वाग्भिर् ईश्वरं चेदम् अब्रुवन्
अज्ञानाद्देवदेवेश यदस्माभिर् अनुष्ठितम् ॥

1.31.34

कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि
चरितानि विचित्राणि गुह्यानि गहनानि च ॥

1.31.35

ब्रह्मादीनां च देवानां दुर्विज्ञेयानि ते हर
अगतिं ते न जानीमो गतिं नैव च नैव च ॥

1.31.36

विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम् ॥

1.31.37

नमो भवाय भव्याय भावनायोद्भवाय च
अनन्तबलवीर्याय भूतानां पतये नमः ॥

1.31.38

संहर्त्रे च पिशङ्गाय अव्ययाय व्ययाय च
गङ्गासलिलधाराय आधाराय गुणात्मने ॥

1.31.39

त्र्यंबकाय त्रिनेत्राय त्रिशूलवरधारिणे
कन्दर्पाय हुताशाय नमो ऽस्तु परमात्मने ॥

1.31.40

शङ्कराय वृषाङ्काय गणानां पतये नमः
दण्डहस्ताय कालाय पाशहस्ताय वै नमः ॥

1.31.41

वेदमन्त्रप्रधानाय शतजिह्वाय वै नमः
भूतं भव्यं भविष्यं च स्थावरं जङ्गमं च यत् ॥

1.31.42

तव देहात्समुत्पन्नं देव सर्वमिदं जगत्
पासि हंसि च भद्रं ते प्रसीद भगवंस्ततः ॥

1.31.43

अज्ञानाद्यदि विज्ञानाद् यत् किंचित् कुरुते नरः
तत्सर्वं भगवानेव कुरुते योगमायया ॥

1.31.44

एवं स्तुत्वा तु मुनयः प्रहृष्टैरन्तरात्मभिः
याचन्त तपसा युक्ताः पश्यामस्त्वां यथापुरा ॥

1.31.45

ततो देवः प्रसन्नात्मा स्वमेवास्थाय शङ्करः
रूपं त्र्यक्षं च संद्रष्टुं दिव्यं चक्षुरदात्प्रभुः ॥

1.31.46

लब्धदृष्ट्या तया दृष्ट्वा देवदेवं त्रियंबकम्
पुनस्तुष्टुवुरीशानं देवदारुवनौकसः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc