लिङ्गपुराण · अध्याय 1.29
इदानीं श्रोतुमिच्छामि पुरा दारुवने विभो
प्रवृत्तं तद्वनस्थानां तपसा भावितात्मनाम् ॥
कथं दारुवनं प्राप्तो भगवान्नीललोहितः
विकृतं रूपमास्थाय चोर्ध्वरेता दिगम्बरः ॥
किं प्रवृत्तं वने तस्मिन् रुद्रस्य परमात्मनः
वक्तुमर्हसि तत्त्वेन देवदेवस्य चेष्टितम् ॥
तस्य तद्वचनं श्रुत्वा श्रुतिसारविदां वरः
शिलादसूनुर्भगवान् प्राह किंचिद्भवं हसन् ॥
मुनयो दारुगहने तपस्तेपुः सुदारुणम्
तुष्ट्यर्थं देवदेवस्य सदारतनयाग्नयः ॥
तुष्टो रुद्रो जगन्नाथश् चेकितानो वृषध्वजः
धूर्जटिः परमेशानो भगवान्नीललोहितः ॥
प्रवृत्तिलक्षणं ज्ञानं ज्ञातुं दारुवनौकसाम्
परीक्षार्थं जगन्नाथः श्रद्धया क्रीडया च सः ॥
निवृत्तिलक्षणज्ञान प्रतिष्ठार्थं च शङ्करः
देवदारुवनस्थानां प्रवृत्तिज्ञानचेतसाम् ॥
विकृतं रूपमास्थाय दिग्वासा विषमेक्षणः
मुग्धो द्विहस्तः कृष्णाङ्गो दिव्यं दारुवनं ययौ ॥
मन्दस्मितं च भगवान् स्त्रीणां मनसिजोद्भवम्
भ्रूविलासं च गानं च चकारातीव सुंदरः ॥
संप्रोक्ष्य नारीवृन्दं वै मुहुर्मुहुरनङ्गहा
अनङ्गवृद्धिम् अकरोद् अतीव मधुराकृतिः ॥
वने तं पुरुषं दृष्ट्वा विकृतं नीललोहितम्
स्त्रियः पतिव्रताश्चापि तमेवान्वयुरादरात् ॥
वनोटजद्वारगताश् च नार्यो विस्रस्तवस्त्राभरणा विचेष्टाः
लब्ध्वा स्मितं तस्य मुखारविन्दाद् द्रुमालयस्थास् तम् अथान्वयुस्ताः ॥
दृष्ट्वा काश्चिद्भवं नार्यो मदघूर्णितलोचनाः
विलासबाह्यास्ताश्चापि भ्रूविलासं प्रचक्रिरे ॥
अथ दृष्ट्वापरा नार्यः किंचित् प्रहसिताननाः
किंचिद् विस्रस्तवसनाः स्रस्तकाञ्चीगुणा जगुः ॥
काश्चित्तदा तं विपिने तु दृष्ट्वा विप्राङ्गनाः स्रस्तनवांशुकं वा
स्वान्स्वान्विचित्रान् वलयान्प्रविध्य मदान्विता बन्धुजनांश् च जग्मुः ॥
काचित्तदा तं न विवेद दृष्ट्वा विवासना स्रस्तमहांशुका च
शाखाविचित्रान् विटपान्प्रसिद्धान् मदान्विता बन्धुजनांस्तथान्याः ॥
काश्चिज्जगुस्तं ननृतुर् निपेतुश् च धरातले
निषेदुर्गजवच्चान्या प्रोवाच द्विजपुङ्गवाः ॥
अन्योन्यं सस्मितं प्रेक्ष्य चालिलिङ्गुः समन्ततः
निरुध्य मार्गं रुद्रस्य नैपुणानि प्रचक्रिरे ॥
को भवानिति चाहुस्तं आस्यतामिति चापराः
कुत्रेत्यथ प्रसीदेति जजल्पुः प्रीतमानसाः ॥
विपरीता निपेतुर्वै विस्रस्तांशुकमूर्धजाः
पतिव्रताः पतीनां तु संनिधौ भवमायया ॥
दृष्ट्वा श्रुत्वा भवस्तासां चेष्टावाक्यानि चाव्ययः
शुभं वाप्यशुभं वापि नोक्तवान्परमेश्वरः ॥
दृष्ट्वा नारीकुलं विप्रास् तथाभूतं च शङ्करम्
अतीव परुषं वाक्यं जजल्पुस्ते मुनीश्वराः ॥
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥
श्रूयते ऋषिशापेन ब्रह्मणस्तु महात्मनः
समृद्धश्रेयसां योनिर् यज्ञा वै नाशमाप्तवान् ॥
भृगोर् अपि च शापेन विष्णुः परमवीर्यवान्
प्रादुर्भावान्दश प्राप्तो दुःखितश् च सदा कृतः ॥
इन्द्रस्यापि च धर्मज्ञ छिन्नं सवृषणं पुरा
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम् ॥
गर्भवासो वसूनां च शापेन विहितस् तथा
ऋषीणां चैव शापेन नहुषः सर्पतां गतः ॥
क्षीरोदश् च समुद्रो ऽसौ निवासः सर्वदा हरेः
द्वितीयश्चामृताधारो ह्य् अपेयो ब्राह्मणैः कृतः ॥
अविमुक्तेश्वरं प्राप्य वाराणस्यां जनार्दनः
क्षीरेण चाभिषिच्येशं देवदेवं त्रियंबकम् ॥
श्रद्धया परया युक्तो देहाश्लेषामृतेन वै
निषिक्तेन स्वयं देवः क्षीरेण मधुसूदनः ॥
सेचयित्वाथ भगवान् ब्रह्मणा मुनिभिः समम्
क्षीरोदं पूर्ववच्चक्रे निवासं चात्मनः प्रभुः ॥
धर्मश्चैव तथा शप्तो माण्डव्येन महात्मना
वृष्णयश्चैव कृष्णेन दुर्वासाद्यैर्महात्मभिः ॥
राघवः सानुजश् चापि दुर्वासेन महात्मना
श्रीवत्सश् च मुनेः पाद पतनात्तस्य धीमतः ॥
एते चान्ये च बहवो विप्राणां वशमागताः
वर्जयित्वा विरूपाक्षं देवदेवमुमापतिम् ॥
एवं हि मोहितास्तेन नावबुध्यन्त शङ्करम्
अत्युग्रवचनं प्रोचुश् चोग्रो ऽप्यन्तरधीयत ॥
ते ऽपि दारुवनात्तस्मात् प्रातः संविग्नमानसाः
पितामहं महात्मानम् आसीनं परमासने ॥
गत्वा विज्ञापयामासुः प्रवृत्तमखिलं विभोः
शुभे दारुवने तस्मिन् मुनयः क्षीणचेतसः ॥
सो ऽपि संचिन्त्य मनसा क्षणादेव पितामहः
तेषां प्रवृत्तमखिलं पुण्ये दारुवने पुरा ॥
उत्थाय प्राञ्जलिर्भूत्वा प्रणिपत्य भवाय च
उवाच सत्वरं ब्रह्मा मुनीन्दारुवनालयान् ॥
धिग् युष्मान् प्राप्तनिधनान् महानिधिम् अनुत्तमम्
वृथाकृतं यतो विप्रा युष्माभिर् भाग्यवर्जितैः ॥
यस्तु दारुवने तस्मिंल् लिङ्गी दृष्टो ऽप्यलिङ्गिभिः
युष्माभिर् विकृताकारः स एव परमेश्वरः ॥
गृहस्थैश् च न निन्द्यास्तु सदा ह्यतिथयो द्विजाः
विरूपाश् च सुरूपाश् च मलिनाश्चाप्यपण्डिताः ॥
सुदर्शनेन मुनिना कालमृत्युरपि स्वयम्
पुरा भूमौ द्विजाग्र्येण जितो ह्यतिथिपूजया ॥
अन्यथा नास्ति संतर्तुं गृहस्थैश् च द्विजोत्तमैः
त्यक्त्वा चातिथिपूजां ताम् आत्मनो भुवि शोधनम् ॥
गृहस्थो ऽपि पुरा जेतुं सुदर्शन इति श्रुतः
प्रतिज्ञामकरोज्जायां भार्यामाह पतिव्रताम् ॥
सुव्रते सुभ्रु सुभगे शृणु सर्वं प्रयत्नतः
त्वया वै नावमन्तव्या गृहे ह्यतिथयः सदा ॥
सर्व एव स्वयं साक्षाद् अतिथिर्यत्पिनाकधृक्
तस्मादतिथये दत्त्वा आत्मानमपि पूजय ॥
एवमुक्त्वाथ संतप्ता विवशा सा पतिव्रता
पतिमाह रुदन्ती च किमुक्तं भवता प्रभो ॥
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह सुदर्शनः
देयं सर्वं शिवायार्ये शिव एवातिथिः स्वयम् ॥
तस्मात्सर्वे पूजनीयाः सर्वे ऽप्यतिथयः सदा
एवमुक्ता तदा भर्त्रा भार्या तस्य पतिव्रता ॥
शेषामिवाज्ञामादाय मूर्ध्ना सा प्राचरत्तदा
परीक्षितुं तथा श्रद्धां तयोः साक्षाद् द्विजोत्तमाः ॥
धर्मो द्विजोत्तमो भूत्वा जगामाथ मुनेर्गृहम्
तं दृष्ट्वा चार्चयामास सार्घ्याद्यैरनघा द्विजम् ॥
सम्पूजितस्तया तां तु प्राह धर्मो द्विजः स्वयम्
भद्रे कुतः पतिर्धीमांस् तव भर्ता सुदर्शनः ॥
अन्नाद्यैरलमद्यार्ये स्वं दातुमिह चार्हसि
सा च लज्जावृता नारी स्मरन्ती कथितं पुरा ॥
भर्त्रा न्यमीलयन्नेत्रे चचाल च पतिव्रता
किंचेत्याह पुनस्तं वै धर्मे चक्रे च सा मतिम् ॥
निवेदितुं किलात्मानं तस्मै पत्युरिहाज्ञया
एतस्मिन्नन्तरे भर्ता तस्या नार्याः सुदर्शनः ॥
गृहद्वारं गतो धीमांस् तामुवाच महामुनिः
एह्येहि क्व गता भद्रे तमुवाचातिथिः स्वयम् ॥
भार्यया त्वनया सार्धं मैथुनस्थो ऽहमद्य वै
सुदर्शन महाभाग किं कर्तव्यमिहोच्यताम् ॥
सुरतान्तस्तु विप्रेन्द्र संतुष्टो ऽहं द्विजोत्तम
सुदर्शनस्ततः प्राह सुप्रहृष्टो द्विजोत्तमः ॥
भुङ्क्ष्व चैनां यथाकामं गमिष्ये ऽहं द्विजोत्तम
हृष्टो ऽथ दर्शयामास स्वात्मानं धर्मराट् स्वयम् ॥
प्रददौ चेप्सितं सर्वं तमाह च महाद्युतिः
एषा न भुक्ता विप्रेन्द्र मनसापि सुशोभना ॥
मया चैषा न संदेहः श्रद्धां ज्ञातुमिहागतः
जितो वै यस्त्वया मृत्युर् धर्मेणैकेन सुव्रत ॥
अहो ऽस्य तपसो वीर्यम् इत्युक्त्वा प्रययौ च सः
तस्मात्तथा पूजनीयाः सर्वे ह्यतिथयः सदा ॥
बहुनात्र किमुक्तेन भाग्यहीना द्विजोत्तमाः
तमेव शरणं तूर्णं गन्तुमर्हथ शङ्करम् ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मणो ब्राह्मणर्षभाः
ब्रह्माणमभिवन्द्यार्ताः प्रोचुराकुलितेक्षणाः ॥
नापेक्षितं महाभाग जीवितं विकृताः स्त्रियः
दृष्टो ऽस्माभिर् महादेवो निन्दितो यस्त्वनिन्दितः ॥
शप्तश् च सर्वगः शूली पिनाकी नीललोहितः
अज्ञानाच्छापजा शक्तिः कुण्ठितास्यनिरीक्षणात् ॥
वक्तुमर्हसि देवेश संन्यासं वै क्रमेण तु
द्रष्टुं वै देवदेवेशम् उग्रं भीमं कपर्दिनम् ॥
आदौ वेदानधीत्यैव श्रद्धया च गुरोः सदा
विचार्यार्थं मुनेर्धर्मान् प्रतिज्ञाय द्विजोत्तमाः ॥
ग्रहणान्तं हि वा विद्वान् अथ द्वादशवार्षिकम्
स्नात्वाहृत्य च दारान्वै पुत्रानुत्पाद्य सुव्रतान् ॥
वृत्तिभिश्चानुरूपाभिस् तान् विभज्य सुतान्मुनिः
अग्निष्टोमादिभिश्चेष्ट्वा यज्ञैर्यज्ञेश्वरं विभुम् ॥
पूजयेत् परमात्मानं प्राप्यारण्यं विभावसौ
मुनिर्द्वादशवर्षं वा वर्षमात्रम् अथापि वा ॥
पक्षद्वादशकं वापि दिनद्वादशकं तु वा
क्षीरभुक् संयुतः शान्तः सर्वान् सम्पूजयेत्सुरान् ॥
इष्ट्वैवं जुहुयादग्नौ यज्ञपात्राणि मन्त्रतः
अप्सु वै पार्थिवं न्यस्य गुरवे तैजसानि तु ॥
स्वधनं सकलं चैव ब्राह्मणेभ्यो विशङ्कया
प्रणिपत्य गुरुं भूमौ विरक्तः संन्यसेद्यतिः ॥
निकृत्य केशान् सशिखान् उपवीतं विसृज्य च
पञ्चभिर् जुहुयाद् अप्सु भूः स्वाहेति विचक्षणः ॥
ततश्चोर्ध्वं चरेदेवं यतिः शिवविमुक्तये
व्रतेनानशनेनापि तोयवृत्त्यापि वा पुनः ॥
पर्णवृत्त्या पयोवृत्त्या फलवृत्त्यापि वा यतिः
एवं जीवन्मृतो नो चेत् षण्मासाद्वत्सरात्तु वा ॥
प्रस्थानादिकमायासं स्वदेहस्य चरेद्यतिः
शिवसायुज्यमाप्नोति कर्मणाप्येवमाचरन् ॥
सद्यो ऽपि लभते मुक्तिं भक्तियुक्तो दृढव्रताः ॥
त्यागेन वा किं विधिनाप्य् अनेन भक्तस्य रुद्रस्य शुभैर्व्रतैश्च
यज्ञैश् च दानैर्विविधैश् च होमैर् लब्धैश्चशास्त्रैर्विविधैश् च वेदैः ॥
श्वेतेनैवं जितो मृत्युर् भवभक्त्या महात्मना
वो ऽस्तु भक्तिर्महादेवे शङ्करे परमात्मनि ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0