लिङ्गपुराण · अध्याय 1.26
आवाहयेत्ततो देवीं गायत्रीं वेदमातरम्
आयातु वरदा देवीत्य् अनेनैव महेश्वरीम् ॥
पाद्यमाचमनीयं च तस्याश्चार्घ्यं प्रदापयेत्
प्राणायामत्रयं कृत्वा समासीनः स्थितो ऽपि वा ॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा
गायत्रीं प्रणवेनैव त्रिविधेष्वेकमाचरेत् ॥
अर्घ्यं दत्त्वा समभ्यर्च्य प्रणम्य शिरसा स्वयम्
उत्तमे शिखरे देवीत्य् उक्त्वोद्वास्य च मातरम् ॥
प्राच्यालोक्याभिवन्द्येशां गायत्रीं वेदमातरम्
कृताञ्जलिपुटो भूत्वा प्रार्थयेद्भास्करं तथा ॥
उदुत्यं च तथा चित्रं जातवेदसमेव च
अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विधानतः ॥
तथा सौराणि सूक्तानि ऋग्यजुःसामजानि च
जप्त्वा प्रदक्षिणं पश्चात् त्रिः कृत्वा च विभावसोः ॥
आत्मानं चान्तरात्मानं परमात्मानमेव च
अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विभावसुम् ॥
मुनीन् पितॄन् यथान्यायं स्वनाम्नावाहयेत्ततः
सर्वानावाहयामीति देवानावाह्य सर्वतः ॥
तर्पयेद्विधिना पश्चात् प्राङ्मुखो वा ह्युदङ्मुखः
ध्यात्वा स्वरूपं तत्तत्त्वम् अभिवन्द्य यथाक्रमम् ॥
देवानां पुष्पतोयेन ऋषीणां तु कुशांभसा
पितॄणां तिलतोयेन गन्धयुक्तेन सर्वतः ॥
यज्ञोपवीती देवानां निवीती ऋषितर्पणम्
प्राचीनावीती विप्रेन्द्र पितॄणां तर्पयेत् क्रमात् ॥
अङ्गुल्यग्रेण वै धीमांस् तर्पयेद्देवतर्पणम्
ऋषीन् कनिष्ठाङ्गुलिना श्रोत्रियः सर्वसिद्धये ॥
पितॄंस्तु तर्पयेद् विद्वान् दक्षिणाङ्गुष्ठकेन तु
तथैवं मुनिशार्दूल ब्रह्मयज्ञं यजेद् द्विजः ॥
देवयज्ञं च मानुष्यं भूतयज्ञं तथैव च
पितृयज्ञं च पूतात्मा यज्ञकर्मपरायणः ॥
स्वशाखाध्ययनं विप्र ब्रह्मयज्ञ इति स्मृतः
अग्नौ जुहोति यच्चान्नं देवयज्ञ इति स्मृतः ॥
सर्वेषामेव भूतानां बलिदानं विधानतः
भूतयज्ञ इति प्रोक्तो भूतिदः सर्वदेहिनाम् ॥
सदारान् सर्वतत्त्वज्ञान् ब्राह्मणान् वेदपारगान्
प्रणम्य तेभ्यो यद्दत्तम् अन्नं मानुष उच्यते ॥
पितॄन् उद्दिश्य यद्दत्तं पितृयज्ञः स उच्यते
एवं पञ्च महायज्ञान् कुर्यात् सर्वार्थसिद्धये ॥
सर्वेषां शृणु यज्ञानां ब्रह्मयज्ञः परः स्मृतः
ब्रह्मयज्ञरतो मर्त्यो ब्रह्मलोके महीयते ॥
ब्रह्मयज्ञेन तुष्यन्ति सर्वे देवाः सवासवाः
ब्रह्मा च भगवान्विष्णुः शङ्करो नीललोहितः ॥
वेदाश् च पितरः सर्वे नात्र कार्या विचारणा
ग्रामाद्बहिर्गतो भूत्वा ब्राह्मणो ब्रह्मयज्ञवित् ॥
यावत् त्वदृष्टम् अभवद् उटजानां छदं नरः
प्राच्यामुदीच्यां च तथा प्रागुदीच्यामथापि वा ॥
पुण्यमाचमनं कुर्याद् ब्रह्मयज्ञार्थमेव तत्
प्रीत्यर्थं च ऋचां विप्राः त्रिः पीत्वा प्लाव्य प्लाव्य च ॥
यजुषां परिमृज्यैवं द्विः प्रक्षाल्य च वारिणा
प्रीत्यर्थं सामवेदानाम् उपस्पृश्य च मूर्धनि ॥
स्पृशेदथर्ववेदानां नेत्रे चाङ्गिरसां तथा
नासिके ब्राह्मणो ऽङ्गानां क्षाल्य क्षाल्य च वारिणा ॥
अष्टादशपुराणानां ब्रह्माद्यानां तथैव च
तथा चोपपुराणानां सौरादीनां यथाक्रमम् ॥
पुण्यानामितिहासानां शैवादीनां तथैव च
श्रोत्रे स्पृशेद्धि तुष्ट्यर्थं हृद्देशं तु ततः स्पृशेत् ॥
कल्पादीनां तु सर्वेषां कल्पवित्कल्पवित्तमाः
एवमाचम्य चास्तीर्य दर्भपिञ्जूलम् आत्मनः ॥
कृत्वा पाणितले धीमान् आत्मनो दक्षिणोत्तरम्
हेमाङ्गुलीयसंयुक्तो ब्रह्मबन्धयुतो ऽपि वा ॥
विधिवद्ब्रह्मयज्ञं च कुर्यात्सूत्री समाहितः
अकृत्वा च मुनिः पञ्च महायज्ञान्द्विजोत्तमः ॥
भुक्त्वा च सूकराणां तु योनौ वै जायते नरः
तस्मात्सर्वप्रयत्नेन कर्तव्याः शुभमिच्छता ॥
ब्रह्मयज्ञादथ स्नानं कृत्वादौ सर्वथात्मनः
तीर्थं संगृह्य विधिवत् प्रविशेच्छिबिरं वशी ॥
बहिरेव गृहात्पादौ हस्तौ प्रक्षाल्य वारिणा
भस्मस्नानं ततः कुर्याद् विधिवद् देहशुद्धये ॥
शोध्य भस्म यथान्यायं प्रणवेनाग्निहोत्रजम्
ज्योतिः सूर्य इति प्रातर् जुहुयादुदिते यतः ॥
ज्योतिरग्निस् तथा सायं सम्यक् चानुदिते मृषा
तस्मादुदितहोमस्थं भसितं पावनं शुभम् ॥
नास्ति सत्यसमं यस्माद् असत्यं पातकं च यत्
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च ॥
उरोदेशमघोरेण गुह्यं वामेन सुव्रताः
सद्येन पादौ सर्वाङ्गं प्रणवेनाभिषेचयेत् ॥
ततः प्रक्षालयेत्पादं हस्तं ब्रह्मविदां वरः
व्यपोह्य भस्म चादाय देवदेवमनुस्मरन् ॥
मन्त्रस्नानं ततः कुर्याद् आपोहिष्ठादिभिः क्रमात्
पुण्यैश्चैव तथा मन्त्रैर् ऋग्यजुःसामसंभवैः ॥
द्विजानां तु हितायैवं कथितं स्नानमद्य ते
संक्षिप्य यः सकृत्कुर्यात् स याति परमं पदम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0