भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.25

1.25.1

कथं पूज्यो महादेवो लिङ्गमूर्तिर्महेश्वरः
वक्तुमर्हसि चास्माकं रोमहर्षण सांप्रतम् ॥

1.25.2

देव्या पृष्टो महादेवः कैलासे तां नगात्मजाम्
अङ्कस्थामाह देवेशो लिङ्गार्चनविधिं क्रमात् ॥

1.25.3

तदा पार्श्वे स्थितो नन्दी शालङ्कायनकात्मजः
श्रुत्वाखिलं पुरा प्राह ब्रह्मपुत्राय सुव्रताः ॥

1.25.4

सनत्कुमाराय शुभं लिङ्गार्चनविधिं परम्
तस्माद्व्यासो महातेजाः श्रुतवाञ्छ्रुतिसंमितम् ॥

1.25.5

स्नानयोगोपचारं च यथा शैलादिनो मुखात्
श्रुतवान् तत्प्रवक्ष्यामि स्नानाद्यं चार्चनाविधिम् ॥

1.25.6

अथ स्नानविधिं वक्ष्ये ब्राह्मणानां हिताय च
सर्वपापहरं साक्षाच् छिवेन कथितं पुरा ॥

1.25.7

अनेन विधिना स्नात्वा सकृत्पूज्य च शङ्करम्
ब्रह्मकूर्चं च पीत्वा तु सर्वपापैः प्रमुच्यते ॥

1.25.8

त्रिविधं स्नानमाख्यातं देवदेवेन शंभुना
हिताय ब्राह्मणाद्यानां चतुर्मुखसुतोत्तम ॥

1.25.9

वारुणं पुरतः कृत्वा ततश्चाग्नेयमुत्तमम्
मन्त्रस्नानं ततः कृत्वा पूजयेत्परमेश्वरम् ॥

1.25.10

भावदुष्टो ऽम्भसि स्नात्वा भस्मना च न शुध्यति
भावशुद्धश्चरेच्छौचम् अन्यथा न समाचरेत् ॥

1.25.11

सरित्सरस्तडागेषु सर्वेष्व् आ प्रलयं नरः
स्नात्वापि भावदुष्टश्चेन् न शुध्यति न संशयः ॥

1.25.12

नृणां हि चित्तकमलं प्रबुद्धमभवद्यदा
प्रसुप्तं तमसा ज्ञान भानोर्भासा तदा शुचिः ॥

1.25.13

मृच्छकृत्तिलपुष्पं च स्नानार्थं भसितं तथा
आदाय तीरे निःक्षिप्य स्नानतीर्थे कुशानि च ॥

1.25.14

प्रक्षाल्याचम्य पादौ च मलं देहाद्विशोध्य च
द्रव्यैस्तु तीरदेशस्थैस् ततः स्नानं समाचरेत् ॥

1.25.15

उद्धृतासीतिमन्त्रेण पुनर्देहं विशोधयेत्
मृदादाय ततश्चान्यद् वस्त्रं स्नात्वा ह्यनुल्बणम् ॥

1.25.16

गन्धद्वारां दुराधर्षाम् इति मन्त्रेण मन्त्रवित्
कपिलागोमयेनैव खस्थेनैव तु लेपयेत् ॥

1.25.17

पुनः स्नात्वा परित्यज्य तद्वस्त्रं मलिनं ततः
शुक्लवस्त्रपरीधानो भूत्वा स्नानं समाचरेत् ॥

1.25.18

सर्वपापविशुद्ध्यर्थम् आवाह्य वरुणं तथा
सम्पूज्य मनसा देवं ध्यानयज्ञेन वै भवम् ॥

1.25.19

आचम्य त्रिस्तदा तीर्थे ह्य् अवगाह्य भवं स्मरन्
पुनराचम्य विधिवद् अभिमन्त्र्य महाजलम् ॥

1.25.20

अवगाह्य पुनस्तस्मिन् जपेद्वै चाघमर्षणम्
तत्तोये भानुसोमाग्नि मण्डलं च स्मरेद्वशी ॥

1.25.21

आचम्य च पुनस्तस्माज् जलादुत्तीर्य मन्त्रवित्
प्रविश्य तीर्थमध्ये तु पुनः पुण्यविवृद्धये ॥

1.25.22

शृङ्गेण पर्णपुटकैः पालाशैः क्षालितैस् तथा
सकुशेन सपुष्पेण जलेनैवाभिषेचयेत् ॥

1.25.23

रुद्रेण पवमानेन त्वरिताख्येन मन्त्रवित्
तरत्समन्दीवर्गाद्यैस् तथा शान्तिद्वयेन च ॥

1.25.24

शान्तिधर्मेण चैकेन पञ्चब्रह्मपवित्रकैः
तत्तन्मन्त्राधिदेवानां स्वरूपं च ऋषीन् स्मरन् ॥

1.25.25

एवं हि चाभिषिच्याथ स्वमूर्ध्नि पयसा द्विजाः
ध्यायेच्च त्र्यम्बकं देवं हृदि पञ्चास्यम् ईश्वरम् ॥

1.25.26

आचम्याचमनं कुर्यात् स्वसूत्रोक्तं समीक्ष्य च
पवित्रहस्तः स्वासीनः शुचौ देशे यथाविधि ॥

1.25.27

अभ्युक्ष्य सकुशं चापि दक्षिणेन करेण तु
पिबेत्प्रक्षिप्य त्रिस्तोयं चक्री भूत्वा ह्यतन्द्रितः ॥

1.25.28

प्रदक्षिणं ततः कुर्याद् धिंसापापप्रशान्तये
एवं संक्षेपतः प्रोक्तं स्नानाचमनमुत्तमम् ॥

1.25.29

सर्वेषां ब्राह्मणानां तु हितार्थे द्विजसत्तमाः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc