भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.27

1.27.1

वक्ष्यामि शृणु संक्षेपाल् लिङ्गार्चनाविधिक्रमम्
वक्तुं वर्षशतेनापि न शक्यं विस्तरेण यत् ॥

1.27.2

एवं स्नात्वा यथान्यायं पूजास्थानं प्रविश्य च
प्राणायामत्रयं कृत्वा ध्यायेद्देवं त्रियंबकम् ॥

1.27.3

पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम्
सर्वाभरणसंयुक्तं चित्रांबरविभूषितम् ॥

1.27.4

तस्य रूपं समाश्रित्य दाहनप्लावनादिभिः
शैवीं तनुं समास्थाय पूजयेत्परमेश्वरम् ॥

1.27.5

देहशुद्धिं च कृत्वैव मूलमन्त्रं न्यसेत् क्रमात्
सर्वत्र प्रणवेनैव ब्रह्माणि च यथाक्रमम् ॥

1.27.6

सूत्रे नमः शिवायेति छन्दांसि परमे शुभे
मन्त्राणि सूक्ष्मरूपेण संस्थितानि यतस्ततः ॥

1.27.7

न्यग्रोधबीजे न्यग्रोधस् तथा सूत्रे तु शोभने
महत्यपि महद्ब्रह्म संस्थितं सूक्ष्मवत्स्वयम् ॥

1.27.8

सेचयेदर्चनस्थानं गन्धचन्दनवारिणा
द्रव्याणि शोधयेत्पश्चात् क्षालनप्रोक्षणादिभिः ॥

1.27.9

क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते
प्रोक्षणी चार्घ्यपात्रं च पाद्यपात्रम् अनुक्रमात् ॥

1.27.10

तथा ह्याचमनीयार्थं कल्पितं पात्रमेव च
स्थापयेद् विधिना धीमान् अवगुण्ठ्य यथाविधि ॥

1.27.11

दर्भैर् आच्छादयेच्चैव प्रोक्षयेच्छुद्धवारिणा
तेषु तेष्वथ सर्वेषु क्षिपेत्तोयं सुशीतलम् ॥

1.27.12

प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान्
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥

1.27.13

जातिकङ्कोलकर्पूर बहुमूलतमालकम्
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ॥

1.27.14

एवं सर्वेषु पात्रेषु दापयेच्चन्दनं तथा
कर्पूरं च यथान्यायं पुष्पाणि विविधानि च ॥

1.27.15

कुशाग्रमक्षतांश्चैव यवव्रीहितिलानि च
आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके ॥

1.27.16

कुशपुष्पयवव्रीहि बहुमूलतमालकम्
दापयेत्प्रोक्षणीपात्रे भसितं प्रणवेन च ॥

1.27.17

न्यसेत्पञ्चाक्षरं चैव गायत्रीं रुद्रदेवताम्
केवलं प्रणवं वापि वेदसारमनुत्तमम् ॥

1.27.18

अथ संप्रोक्षयेत्पश्चाद् द्रव्याणि प्रणवेन तु
प्रोक्षणीपात्रसंस्थेन ईशानाद्यैश् च पञ्चभिः ॥

1.27.19

पार्श्वतो देवदेवस्य नन्दिनं मांसमर्चयेत्
दीप्तानलायुतप्रख्यं त्रिनेत्रं त्रिदशेश्वरम् ॥

1.27.20

बालेन्दुमुकुटं चैव हरिवक्त्रं चतुर्भुजम्
पुष्पमालाधरं सौम्यं सर्वाभरणभूषितम् ॥

1.27.21

उत्तरे चात्मनः पुण्यां भार्यां च मरुतां शुभाम्
सुयशां सुव्रतां चाम्बां पादमण्डनतत्पराम् ॥

1.27.22

एवं पूज्य प्रविश्यान्तर् भवनं परमेष्ठिनः
दत्त्वा पुष्पाञ्जलिं भक्त्या पञ्चमूर्धसु पञ्चभिः ॥

1.27.23

गन्धपुष्पैस् तथा धूपैर् विविधैः पूज्य शङ्करम्
स्कन्दं विनायकं देवीं लिङ्गशुद्धिं च कारयेत् ॥

1.27.24

जप्त्वा सर्वाणि मन्त्राणि प्रणवादिनमो ऽन्तकम्
कल्पयेदासनं पश्चात् पद्माख्यं प्रणवेन तत् ॥

1.27.25

तस्य पूर्वदलं साक्षाद् अणिमामयम् अक्षरम्
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ॥

1.27.26

प्राप्तिस्तथोत्तरं पत्रं प्राकाम्यं पावकस्य तु
ईशित्वं नैरृतं पत्रं वशित्वं वायुगोचरे ॥

1.27.27

सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते
सोमस्याधस् तथा सूर्यस् तस्याधः पावकः स्वयम् ॥

1.27.28

धर्मादयो विदिक्ष्वेते त्व् अनन्तं कल्पयेत्क्रमात्
अव्यक्तादिचतुर्दिक्षु सोमस्यान्ते गुणत्रयम् ॥

1.27.29

आत्मत्रयं ततश्चोर्ध्वं तस्यान्ते शिवपीठिका
सद्योजातं प्रपद्यामीत्य् आवाह्य परमेश्वरम् ॥

1.27.30

वामदेवेन मन्त्रेण स्थापयेदासनोपरि
सान्निध्यं रुद्रगायत्र्या अघोरेण निरुध्य च ॥

1.27.31

ईशानः सर्वविद्यानाम् इति मन्त्रेण पूजयेत्
पाद्यमाचमनीयं च विभोश्चार्घ्यं प्रदापयेत् ॥

1.27.32

स्नापयेद्विधिना रुद्रं गन्धचन्दनवारिणा
पञ्चगव्यविधानेन गृह्य पात्रे ऽभिमन्त्र्य च ॥

1.27.33

प्रणवेनैव गव्यैस्तु स्नापयेच्च यथाविधि
आज्येन मधुना चैव तथा चेक्षुरसेन च ॥

1.27.34

पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्
जलभाण्डैः पवित्रैस्तु मन्त्रैस्तोयं क्षिपेत्ततः ॥

1.27.35

शुद्धिं कृत्वा यथान्यायं सितवस्त्रेण साधकः
कुशापामार्गकर्पूर जातिपुष्पकचम्पकैः ॥

1.27.36

करवीरैः सितैश्चैव मल्लिकाकमलोत्पलैः
आपूर्य पुष्पैः सुशुभैः चन्दनाद्यैश् च तज्जलम् ॥

1.27.37

न्यसेन्मन्त्राणि तत्तोये सद्योजातादिकानि तु
सुवर्णकलशेनाथ तथा वै राजतेन वा ॥

1.27.38

ताम्रेण पद्मपत्रेण पालाशेन दलेन वा
शंखेन मृन्मयेनाथ शोधितेन शुभेन वा ॥

1.27.39

सकूर्चेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम्
मन्त्राणि ते प्रवक्ष्यामि शृणु सर्वार्थसिद्धये ॥

1.27.40

यैर्लिङ्गं सकृदप्येवं स्नाप्य मुच्येत मानवः
पवमानेन मन्त्रज्ञाः तथा वामीयकेन च ॥

1.27.41

रुद्रेण नीलरुद्रेण श्रीसूक्तेन शुभेन च
रजनीसूक्तकेनैव चमकेन शुभेन च ॥

1.27.42

होतारेणाथ शिरसा अथर्वेण शुभेन च
शान्त्या चाथ पुनः शान्त्या भारुण्डेनारुणेन च ॥

1.27.43

वारुणेन च ज्येष्ठेन तथा वेदव्रतेन च
तथान्तरेण पुण्येन सूक्तेन पुरुषेण च ॥

1.27.44

त्वरितेनैव रुद्रेण कपिना च कपर्दिना
आवोसजेति साम्ना तु बृहच्चन्द्रेण विष्णुना ॥

1.27.45

विरूपाक्षेण स्कन्देन शतऋग्भिः शिवैस् तथा
पञ्चब्रह्मैश् च सूत्रेण केवलप्रणवेन च ॥

1.27.46

स्नापयेद्देवदेवेशं सर्वपापप्रशान्तये
वस्त्रं शिवोपवीतं च तथा ह्याचमनीयकम् ॥

1.27.47

गन्धं पुष्पं तथा धूपं दीपमन्नं क्रमेण तु
तोयं सुगन्धितं चैव पुनराचमनीयकम् ॥

1.27.48

मुकुटं च शुभं छन्नं तथा वै भूषणानि च
दापयेत्प्रणवेनैव मुखवासादिकानि च ॥

1.27.49

ततः स्फटिकसंकाशं देवं निष्कलमक्षरम्
कारणं सर्वदेवानां सर्वलोकमयं परम् ॥

1.27.50

ब्रह्मेन्द्रविष्णुरुद्राद्यैर् ऋषिदेवैर् अगोचरम्
वेदविद्भिर् हि वेदान्तैस् त्व् अगोचरमिति श्रुतिः ॥

1.27.51

आदिमध्यान्तरहितं भेषजं भवरोगिणाम्
शिवतत्त्वमिति ख्यातं शिवलिङ्गे व्यवस्थितम् ॥

1.27.52

प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्धनि
स्तोत्रं जपेच्च विधिना नमस्कारं प्रदक्षिणम् ॥

1.27.53

अर्घ्यं दत्त्वाथ पुष्पाणि पादयोस्तु विकीर्य च
प्रणिपत्य च देवेशम् आत्मन्यारोपयेच्छिवम् ॥

1.27.54

एवं संक्षिप्य कथितं लिङ्गार्चनमनुत्तमम्
आभ्यन्तरं प्रवक्ष्यामि लिङ्गार्चनमिहाद्य ते ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc