भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.107

1.107.1

पुरोपमन्युना सूत गाणपत्यं महेश्वरात्
क्षीरार्णवः कथं लब्धो वक्तुमर्हसि सांप्रतम् ॥

1.107.2

एवं कालीम् उपालभ्य गते देवे त्रियंबके
उपमन्युः समभ्यर्च्य तपसा लब्धवान्फलम् ॥

1.107.3

उपमन्युरिति ख्यातो मुनिश् च द्विजसत्तमाः
कुमार इव तेजस्वी क्रीडमानो यदृच्छया ॥

1.107.4

कदाचित् क्षीरम् अल्पं च पीतवान् मातुलाश्रमे
ईर्ष्यया मातुलसुतो ह्य् अपिबत् क्षीरम् उत्तमम् ॥

1.107.5

पीत्वा स्थितं यथाकामं दृष्ट्वा प्रोवाच मातरम्
मातर्मातर्महाभागे मम देहि तपस्विनि ॥

1.107.6

गव्यं क्षीरम् अतिस्वादु नाल्पमुष्णं नमाम्यहम्
उपलालितैवं पुत्रेण पुत्रम् आलिङ्ग्य सादरम् ॥

1.107.7

दुःखिता विललापार्ता स्मृत्वा नैर्धन्यमात्मनः
स्मृत्वा स्मृत्वा पुनः क्षीरम् उपमन्युरपि द्विजाः
देहि देहीति तामाह रोदमानो महाद्युतिः ॥

1.107.8

उञ्छवृत्त्यार्जितान् बीजान् स्वयं पिष्ट्वा च सा तदा
बीजपिष्टं तदालोड्य तोयेन कलभाषिणी ॥

1.107.9

ऐह्येहि मम पुत्रेति सामपूर्वं ततः सुतम्
आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥

1.107.10

पीत्वा च कृत्रिमं क्षीरं मात्रा दत्तं द्विजोत्तमाः
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥

1.107.11

दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्राय मूर्धनि
संमार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलायते ॥

1.107.12

तटिनी रत्नपूर्णास्ते स्वर्गपातालगोचराः
भाग्यहीना न पश्यन्ति भक्तिहीनाश् च ये शिवे ॥

1.107.13

राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम्
न लभन्ते प्रियाण्येषां नो तुष्यति सदा भवः ॥

1.107.14

भवप्रसादजं सर्वं नान्यदेवप्रसादजम्
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥

1.107.15

क्षीरं तत्र कुतो ऽस्माकं महादेवो न पूजितः
पूर्वजन्मनि यद्दत्तं शिवमुद्यम्य वै सुत ॥

1.107.16

तदेव लभ्यं नान्यत्तु विष्णुमुद्यम्य वा प्रभुम्
निशम्य वचनं मातुर् उपमन्युर्महाद्युतिः ॥

1.107.17

बालो ऽपि मातरं प्राह प्रणिपत्य तपस्विनीम्
त्यज शोकं महाभागे महादेवो ऽस्ति चेत्क्वचित् ॥

1.107.18

चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्
तां प्रणम्यैवमुक्त्वा स तपः कर्तुं प्रचक्रमे ॥

1.107.19

तमाह माता सुशुभं कुर्विति सुतरां सुतम्
अनुज्ञातस्तया तत्र तपस्तेपे सुदुस्तरम् ॥

1.107.20

हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः
तपसा तस्य विप्रस्य विधूपितमभूज्जगत् ॥

1.107.21

प्रणम्याहुस्तु तत्सर्वे हरये देवसत्तमाः
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥

1.107.22

किमिदं त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥

1.107.23

दृष्ट्वा देवं प्रणम्यैवं प्रोवाचेदं कृताञ्जलिः
भगवन् ब्राह्मणः कश्चिद् उपमन्युरितिश्रुतः ॥

1.107.24

क्षीरार्थमदहत्सर्वं तपसा तं निवारय
एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः
शक्ररूपं समास्थाय गन्तुं चक्रे मतिं तदा ॥

1.107.25

अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः
सह सुरासुरसिद्धमहोरगैर् अमरराजतनुं स्वयमास्थितः ॥

1.107.26

वामेन शच्या सहितं सुरेन्द्रं करेण चान्येन सितातपत्रम् ॥

1.107.27

रराज भगवान् सोमः शक्ररूपी सदाशिवः
सितातपत्रेण यथा चन्द्रबिंबेन मन्दरः ॥

1.107.28

आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः
जगामानुग्रहं कर्तुम् उपमन्योस् तदाश्रमम् ॥

1.107.29

तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम्
प्रणम्य शिरसा प्राह मुनिर्मुनिवराः स्वयम् ॥

1.107.30

पावितश्चाश्रमश्चायं मम देवेश्वरः स्वयम्
प्राप्तः शक्रो जगन्नाथो भगवान्भानुना प्रभुः ॥

1.107.31

एवमुक्त्वा स्थितं वीक्ष्य कृताञ्जलिपुटं द्विजम्
प्राह गंभीरया वाचा शक्ररूपधरो हरः ॥

1.107.32

तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत
ददामि चेप्सितान् सर्वान् धौम्याग्रज महामते ॥

1.107.33

एवमुक्तस्तदा तेन शक्रेण मुनिसत्तमः
वरयामि शिवे भक्तिम् इत्युवाच कृताञ्जलिः ॥

1.107.34

ततो निशम्य वचनं मुनेः कुपितवत्प्रभुः
प्राह सव्यग्रमीशानः शक्ररूपधरः स्वयम् ॥

1.107.35

मां न जानासि देवर्षे देवराजानमीश्वरम्
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥

1.107.36

मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥

1.107.37

ततः शक्रस्य वचनं श्रुत्वा श्रोत्रविदारणम्
उपमन्युरिदं प्राह जपन् पञ्चाक्षरं शुभम् ॥

1.107.38

मन्ये शक्रस्य रूपेण नूनम् अत्रागतः स्वयम्
कर्तुं दैत्याधमः कश्चिद् धर्मविघ्नं च नान्यथा ॥

1.107.39

त्वयैव कथितं सर्वं भवनिन्दारतेन वै
प्रसंगाद्देवदेवस्य निर्गुणत्वं महात्मनः ॥

1.107.40

बहुनात्र किमुक्तेन मयाद्यानुमितं महत्
भवान्तरकृतं पापं श्रुता निन्दा भवस्य तु ॥

1.107.41

श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव संत्यजेत्
स्वदेहं तं निहत्याशु शिवलोकं स गच्छति ॥

1.107.42

यो वाचोत्पाटयेज्जिह्वां शिवनिन्दारतस्य तु
त्रिः सप्तकुलमुद्धृत्य शिवलोकं स गच्छति ॥

1.107.43

आस्तां तावन्ममेच्छायाः क्षीरं प्रति सुराधमम्
निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम् ॥

1.107.44

पुरा मात्रा तु कथितं तथ्यमेव न संशयः
पूर्वजन्मनि चास्माभिर् अपूजित इति प्रभुः ॥

1.107.45

एवमुक्त्वा तु तं देवम् उपमन्युरभीतवत्
शक्रं चक्रे मतिं हन्तुम् अथर्वास्त्रेण मन्त्रवित् ॥

1.107.46

भस्माधारान्महातेजा भस्ममुष्टिं प्रगृह्य च
अथर्वास्त्रं ततस्तस्मै ससर्ज च ननाद च ॥

1.107.47

दग्धुं स्वदेहम् आग्नेयीं ध्यात्वा वै धारणां तदा
अतिष्ठच्च महातेजाः शुष्केन्धनमिवाव्ययः ॥

1.107.48

एवं व्यवसिते विप्रे भगवान्भगनेत्रहा
वारयामास सौम्येन धारणां तस्य योगिनः ॥

1.107.49

अथर्वास्त्रं तदा तस्य संहृतं चन्द्रकेण तु
कालाग्निसदृशं चेदं नियोगान्नन्दिनस् तथा ॥

1.107.50

स्वरूपमेव भगवान् आस्थाय परमेश्वरः
दर्शयामास विप्राय बालेन्दुकृतशेखरम् ॥

1.107.51

क्षीरधारासहस्रं च क्षीरोदार्णवमेव च
दध्यादेरर्णवं चैव घृतोदार्णवमेव च ॥

1.107.52

फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा
अपूपगिरयश्चैव तथातिष्ठन् समन्ततः ॥

1.107.53

उपमन्युमुवाच सस्मितो भगवान्बन्धुजनैः समावृतम्
गिरिजाम् अवलोक्य सस्मितां सघृणं प्रेक्ष्यतु तं तदा घृणी ॥

1.107.54

भुङ्क्ष्व भोगान्यथाकामं बान्धवैः पश्य वत्स मे ।*
उपमन्यो महाभाग तवांबैषा हि पार्वती ॥

1.107.55

मया पुत्रीकृतो ऽस्यद्य दत्तः क्षीरोदधिस् तथा
मधुनश्चार्णवश्चैव दध्नश्चार्णव एव च ॥

1.107.56

आज्योदनार्णवश्चैव फललेह्यार्णवस् तथा
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवः पुनः ॥

1.107.57

पिता तव महादेवः पिता वै जगतां मुने
माता तव महाभागा जगन्माता न संशयः ॥

1.107.58

अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम्
वरान्वरय दास्यामि नात्र कार्या विचारणा ॥

1.107.59

एवमुक्त्वा महादेवः कराभ्यामुपगृह्य तम्
आघ्राय मूर्धनि विभुर् ददौ देव्यास्तदा भवः ॥

1.107.60

देवी तनयमालोक्य ददौ तस्मै गिरीन्द्रजा
योगैश्वर्यं तदा तुष्टा ब्रह्मविद्यां द्विजोत्तमाः ॥

1.107.61

सो ऽपि लब्ध्वा वरं तस्याः कुमारत्वं च सर्वदा
तुष्टाव च महादेवं हर्षगद्गदया गिरा ॥

1.107.62

वरयामास च तदा वरेण्यं विरजेक्षणम्
कृताञ्जलिपुटो भूत्वा प्रणिपत्य पुनः पुनः ॥

1.107.63

प्रसीद देवदेवेश त्वयि चाव्यभिचारिणी
श्रद्धा चैव महादेव सान्निध्यं चैव सर्वदा ॥

1.107.64

एवमुक्तस्तदा तेन प्रहसन्निव शङ्करः
दत्त्वेप्सितं हि विप्राय तत्रैवान्तरधीयत ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc