लिङ्गपुराण · अध्याय 1.108
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा
धौम्याग्रजस्ततो लब्धं दिव्यं पाशुपतं व्रतम् ॥
कथं लब्धं तदा ज्ञानं तस्मात्कृष्णेन धीमता
वक्तुमर्हसि तां सूत कथां पातकनाशिनीम् ॥
स्वेच्छया ह्यवतीर्णो ऽपि वासुदेवः सनातनः
निन्दयन्नेव मानुष्यं देहशुद्धिं चकार सः ॥
पुत्रार्थं भगवांस्तत्र तपस्तप्तुं जगाम च
आश्रमं चोपमन्योर्वै दृष्टवांस्तत्र तं मुनिम् ॥
नमश्चकार तं दृष्ट्वा धौम्याग्रजमहो द्विजाः
बहुमानेन वै कृष्णस् त्रिः कृत्वा वै प्रदक्षिणम् ॥
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः
नष्टमेव मलं सर्वं कायजं कर्म्मजं तथा ॥
भस्मनोद्धूलनं कृत्वा उपमन्युर्महाद्युतिः
तमग्निरिति विप्रेन्द्रा वायुरित्यादिभिः क्रमात् ॥
दिव्यं पाशुपतं ज्ञानं प्रददौ प्रीतमानसः
मुनेः प्रसादान्मान्यो ऽसौ कृष्णः पाशुपते द्विजाः ॥
तपसा त्वेकवर्षान्ते दृष्ट्वा देवं महेश्वरम्
सांबं सगणमव्यग्रं लब्धवान्पुत्रमात्मनः ॥
तदाप्रभृति तं कृष्णं मुनयः संशितव्रताः
दिव्याः पाशुपताः सर्वे तस्थुः संवृत्य सर्वदा ॥
अन्यं च कथयिष्यामि मुक्त्यर्थं प्राणिनां सदा
सौवर्णीं मेखलां कृत्वा आधारं दण्डधारणम् ॥
सौवर्णं पिण्डिकं चापि व्यजनं दण्डमेव च
नरैः स्त्रियाथ वा कार्यं मषीभाजनलेखनीम् ॥
क्षुराः कर्तरिका चापि अथ पात्रमथापि वा
पाशुपताय दातव्यं भस्मोद्धूलितविग्रहैः ॥
सौवर्णं राजतं वापि ताम्रं वाथ निवेदयेत्
आत्मवित्तानुसारेण योगिनं पूजयेद्बुधः ॥
ते सर्वे पापनिर्मुक्ताः समस्तकुलसंयुताः
यान्ति रुद्रपदं दिव्यं नात्र कार्या विचारणा ॥
तस्मादनेन दानेन गृहस्थो मुच्यते भवात्
योगिनां संप्रदानेन शिवः क्षिप्रं प्रसीदति ॥
राज्यं पुत्रं धनं भव्यम् अश्वं यानमथापि वा
सर्वस्वं वापि दातव्यं यदीच्छेन्मोक्षमुत्तमम् ॥
अध्रुवेण शरीरेण ध्रुवं साध्यं प्रयत्नतः
भव्यं पाशुपतं नित्यं संसारार्णवतारकम् ॥
एतद्वः कथितं सर्वं संक्षेपान्न च संशयः
यः पठेच्छृणुयाद्वापि विष्णुलोकं स गच्छति ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0