लिङ्गपुराण · अध्याय 1.106
नृत्यारम्भः कथं शंभोः किमर्थं वा यथातथम्
वक्तुमर्हसि चास्माकं श्रुतः स्कन्दाग्रजोद्भवः ॥
दारुको ऽसुरसम्भूतस् तपसा लब्धविक्रमः
सूदयामास कालाग्निर् इव देवान्द्विजोत्तमान् ॥
दारुकेण तदा देवास् ताडिताः पीडिता भृशम्
ब्रह्माणं च तथेशानं कुमारं विष्णुमेव च ॥
यममिन्द्रमनुप्राप्य स्त्रीवध्य इति चासुरः
स्त्रीरूपधारिभिः स्तुत्यैर् ब्रह्माद्यैर्युधि संस्थितैः ॥
बाधितास्तेन ते सर्वे ब्रह्माणं प्राप्य वै द्विजाः
विज्ञाप्य तस्मै तत्सर्वं तेन सार्धमुमापतिम् ॥
सम्प्राप्य तुष्टुवुः सर्वे पितामहपुरोगमाः
ब्रह्मा प्राप्य च देवेशं प्रणम्य बहुधा नतः ॥
दारुणो भगवान्दारुः पूर्वं तेन विनिर्जिताः
निहत्य दारुकं दैत्यं स्त्रीवध्यं त्रातुमर्हसि ॥
विज्ञप्तिं ब्रह्मणः श्रुत्वा भगवान् भगनेत्रहा
देवीमुवाच देवेशो गिरिजां प्रहसन्निव ॥
भवतीं प्रार्थयाम्यद्य हिताय जगतां शुभे
वधार्थं दारुकस्यास्य स्त्रीवध्यस्य वरानने ॥
अथ सा तस्य वचनं निशम्य जगतो ऽरणिः
विवेश देहे देवस्य देवेशी जन्मतत्परा ॥
एकेनांशेन देवेशं प्रविष्टा देवसत्तमम्
न विवेद तदा ब्रह्मा देवाश्चेन्द्रपुरोगमाः ॥
गिरिजां पूर्ववच्छंभोर् दृष्ट्वा पार्श्वस्थितां शुभाम्
मायया मोहितस्तस्याः सर्वज्ञो ऽपि चतुर्मुखः ॥
सा प्रविष्टा तनुं तस्य देवदेवस्य पार्वती
कण्ठस्थेन विषेणास्य तनुं चक्रे तदात्मनः ॥
तां च ज्ञात्वा तथाभूतां तृतीयेनेक्षणेन वै
ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनीम् ॥
जाता यदा कालिमकालकण्ठी जाता तदानीं विपुला जयश्रीः
देवेतराणामजयस्त्वसिद्ध्या तुष्टिर्भवान्याः परमेश्वरस्य ॥
जातां तदानीं सुरसिद्धसंघा दृष्ट्वा भयाद् दुद्रुवुर् अग्निकल्पाम्
कालीं गरालंकृतकालकण्ठीम् उपेन्द्रपद्मोद्भवशक्रमुख्याः ॥
तथैव जातं नयनं ललाटे सितांशुलेखा च शिरस्युदग्रा
कण्ठे करालं निशितं त्रिशूलं करे करालं च विभूषणानि ॥
सार्धं दिव्यांबरा देव्याः सर्वाभरणभूषिताः
सिद्धेन्द्रसिद्धाश् च तथा पिशाचा जज्ञिरे पुनः ॥
आज्ञया दारुकं तस्याः पार्वत्याः परमेश्वरी
दानवं सूदयामास सूदयन्तं सुराधिपान् ॥
संरंभातिप्रसंगाद् वै तस्याः सर्वमिदं जगत्
क्रोधाग्निना च विप्रेन्द्राः संबभूव तदातुरम् ॥
भवो ऽपि बालरूपेण श्मशाने प्रेतसंकुले
रुरोद मायया तस्याः क्रोधाग्निं पातुम् ईश्वरः ॥
तं दृष्ट्वा बालमीशानं मायया तस्य मोहिता
उत्थाप्याघ्राय वक्षोजं स्तनं सा प्रददौ द्विजाः ॥
स्तनजेन तदा सार्धं कोपमस्याः पपौ पुनः
क्रोधेनानेन वै बालः क्षेत्राणां रक्षको ऽभवत् ॥
मूर्तयो ऽष्टौ च तस्यापि क्षेत्रपालस्य धीमतः
एवं वै तेन बालेन कृता सा क्रोधमूर्छिता ॥
कृतमस्याः प्रसादार्थं देवदेवेन ताण्डवम्
संध्यायां सर्वभूतेन्द्रैः प्रेतैः प्रीतेन शूलिना ॥
पीत्वा नृत्यामृतं शंभोर् आकण्ठं परमेश्वरी
ननर्त सा च योगिन्यः प्रेतस्थाने यथासुखम् ॥
तत्र सब्रह्मका देवाः सेन्द्रोपेन्द्राः समन्ततः
प्रणेमुस्तुष्टुवुः कालीं पुनर्देवीं च पार्वतीम् ॥
एवं संक्षेपतः प्रोक्तं ताण्डवं शूलिनः प्रभोः
योगानन्देन च विभोस् ताण्डवं चेति चापरे ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0