भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.101

1.101.1

कथं हिमवतः पुत्री बभूवांबा सती शुभा
कथं वा देवदेवेशम् अवाप पतिमीश्वरम् ॥

1.101.2

सा मेनातनुम् आश्रित्य स्वेच्छयैव वराङ्गना
तदा हैमवती जज्ञे तपसा च द्विजोत्तमाः ॥

1.101.3

जातकर्मादिकाः सर्वाश् चकार च गिरीश्वरः
द्वादशे च तदा वर्षे पूर्णे हैमवती शुभा ॥

1.101.4

तपस्तेपे तया सार्धम् अनुजा च शुभानना
अन्या च देवी ह्यनुजा सर्वलोके नमस्कृता ॥

1.101.5

ऋषयश् च तदा सर्वे सर्वलोकमहेश्वरीम्
तुष्टुवुस् तपसा देवीं समावृत्य समन्ततः ॥

1.101.6

ज्येष्ठा ह्यपर्णा ह्यनुजा चैकपर्णा शुभानना
तृतीया च वरारोहा तथा चैवैकपाटला ॥

1.101.7

तपसा च महादेव्याः पार्वत्याः परमेश्वरः
वशीकृतो महादेवः सर्वभूतपतिर्भवः ॥

1.101.8

एतस्मिन्नेव काले तु तारको नाम दानवः
तारात्मजो महातेजा बभूव दितिनन्दनः ॥

1.101.9

तस्य पुत्रास्त्रयश्चापि तारकाक्षो महासुरः
विद्युन्माली च भगवान् कमलाक्षश् च वीर्यवान् ॥

1.101.10

पितामहस् तथा चैषां तारो नाम महाबलः
तपसा लब्धवीर्यश् च प्रसादाद्ब्रह्मणः प्रभोः ॥

1.101.11

सो ऽपि तारो महातेजास् त्रैलोक्यं सचराचरम्
विजित्य समरे पूर्वं विष्णुं च जितवान् असौ ॥

1.101.12

तयोः समभवद्युद्धं सुघोरं रोमहर्षणम्
दिव्यं वर्षसहस्रं तु दिवारात्रम् अविश्रमम् ॥

1.101.13

सरथं विष्णुमादाय चिक्षेप शतयोजनम्
तारेण विजितः संख्ये दुद्राव गरुडध्वजः ॥

1.101.14

तारो वराञ्छतगुणं लब्ध्वा शतगुणं बलम्
पितामहाज्जगत्सर्वम् अवाप दितिनन्दनः ॥

1.101.15

देवेन्द्रप्रमुखाञ्जित्वा देवान्देवेश्वरेश्वरः
वारयामास तैर् देवान् सर्वलोकेषु मायया ॥

1.101.16

देवताश् च सहेन्द्रेण तारकाद्भयपीडिताः
न शान्तिं लेभिरे शूराः शरणं वा भयार्दिताः ॥

1.101.17

तदामरपतिः श्रीमान् संनिपत्यामरप्रभुः
उवाचाङ्गिरसं देवो देवानामपि संनिधौ ॥

1.101.18

भगवंस्तारको नाम तारजो दानवोत्तमः
तेन संनिहता युद्धे वत्सा गोपतिना यथा ॥

1.101.19

भयात्तस्मान्महाभाग बृहद्युद्धे बृहस्पते
अनिकेता भ्रमन्त्येते शकुन्ता इव पञ्जरे ॥

1.101.20

अस्माकं यान्य् अमोघानि आयुधान्य् अङ्गिरो वर
तानि मोघानि जायन्ते प्रभावादमरद्विषः ॥

1.101.21

दशवर्षसहस्राणि द्विगुणानि बृहस्पते
विष्णुना योधितो युद्धे तेनापि न च सूदितः ॥

1.101.22

यस्तेनानिर्जितो युद्धे विष्णुना प्रभविष्णुना
कथमस्मद्विधस्तस्य स्थास्यते समरे ऽग्रतः ॥

1.101.23

एवम् उक्तस् तु शक्रेण जीवः सार्धं सुराधिपैः
सहस्राक्षेण च विभुं सम्प्राप्याह कुशध्वजम् ॥

1.101.24

सो ऽपि तस्य मुखाच्छ्रुत्वा प्रणयात्प्रणतार्तिहा
देवैरशेषैः सेन्द्रैस्तु जीवमाह पितामहः ॥

1.101.25

जाने वो ऽर्तिं सुरेन्द्राणां तथापि शृणु सांप्रतम्
विनिन्द्य दक्षं या देवी सती रुद्राङ्गसंभवा ॥

1.101.26

उमा हैमवती जज्ञे सर्वलोकनमस्कृता
तस्याश्चैवेह रूपेण यूयं देवाः सुरोत्तमाः ॥

1.101.27

विभोर्यतध्वमाक्रष्टुं रुद्रस्यास्य मनो महत्
तयोर्योगेन सम्भूतः स्कन्दः शक्तिधरः प्रभुः ॥

1.101.28

षडास्यो द्वादशभुजः सेनानीः पावकिः प्रभुः
स्वाहेयः कार्तिकेयश् च गाङ्गेयः शरधामजः ॥

1.101.29

देवः शाखो विशाखश् च नैगमेशश् च वीर्यवान्
सेनापतिः कुमाराख्यः सर्वलोकनमस्कृतः ॥

1.101.30

लीलयैव महासेनः प्रबलं तारकासुरम्
बालो ऽपि विनिहत्यैको देवान् संतारयिष्यति ॥

1.101.31

एवम् उक्तस् तदा तेन ब्रह्मणा परमेष्ठिना
बृहस्पतिस् तथा सेन्द्रैर् देवैर् देवं प्रणम्य तम् ॥

1.101.32

मेरोः शिखरमासाद्य स्मरं सस्मार सुव्रतः
स्मरणाद्देवदेवस्य स्मरो ऽपि सह भार्यया ॥

1.101.33

रत्या समं समागम्य नमस्कृत्य कृताञ्जलिः
सशक्रमाह तं जीवं जगज्जीवो द्विजोत्तमाः ॥

1.101.34

स्मृतो यद्भवता जीव सम्प्राप्तो ऽहं तवान्तिकम्
ब्रूहि यन्मे विधातव्यं तमाह सुरपूजितः ॥

1.101.35

तम् आह भगवाञ्छक्रः संभाव्य मकरध्वजम्
शङ्करेणांबिकामद्य संयोजय यथासुखम् ॥

1.101.36

तया स रमते येन भगवान् वृषभध्वजः
तेन मार्गेण मार्गस्व पत्न्या रत्यानया सह ॥

1.101.37

सो ऽपि तुष्टो महादेवः प्रदास्यति शुभां गतिम्
विप्रयुक्तस्तया पूर्वं लब्ध्वा तां गिरिजामुमाम् ॥

1.101.38

एवमुक्तो नमस्कृत्य देवदेवं शचीपतिम्
देवदेवाश्रमं गन्तुं मतिं चक्रे तया सह ॥

1.101.39

गत्वा तदाश्रये शंभोः सह रत्या महाबलः
वसंतेन सहायेन देवं योक्तुमना भवत् ॥

1.101.40

ततः सम्प्रेक्ष्य मदनं हसन् देवस् त्रियंबकः
नयनेन तृतीयेन सावज्ञं तम् अवैक्षत ॥

1.101.41

ततो ऽस्य नेत्रजो वह्निर् मदनं पार्श्वतः स्थितम्
अदहत्तत्क्षणादेव ललाप करुणं रतिः ॥

1.101.42

रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः
कृपया परया प्राह कामपत्नीं निरीक्ष्य च ॥

1.101.43

अमूर्तो ऽपि ध्रुवं भद्रे कार्यं सर्वं पतिस्तव
रतिकाले ध्रुवे भद्रे करिष्यति न संशयः ॥

1.101.44

यदा विष्णुश् च भविता वासुदेवो महायशाः
शापाद्भृगोर्महातेजाः सर्वलोकहिताय वै ॥

1.101.45

तदा तस्य सुतो यश् च स पतिस्ते भविष्यति
सा प्रणम्य तदा रुद्रं कामपत्नी शुचिस्मिता ॥

1.101.46

जगाम मदनं लब्ध्वा वसंतेन समन्विता ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc