भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.102

1.102.1

तपसा च महादेव्याः पार्वत्या वृषभध्वज
प्रीतिश् च भगवाञ्छर्वो वचनाद्ब्रह्मणस्तदा ॥

1.102.2

हिताय चाश्रमाणां च क्रीडार्थं भगवान्भवः
तदा हैमवतीं देवीम् उपयेमे यथाविधि ॥

1.102.3

जगाम स स्वयं ब्रह्मा मरीच्याद्यैर्महर्षिभिः
तपोवनं महादेव्याः पार्वत्याः पद्मसंभवः ॥

1.102.4

प्रदक्षिणीकृत्य च तां देवीं स जगतो ऽरणीम्
किम् अर्थं तपसा लोकान् संतापयसि शैलजे ॥

1.102.5

त्वया सृष्टं जगत्सर्वं मातस्त्वं मा विनाशय
त्वं हि संधारयेल्लोकान् इमान् सर्वान् स्वतेजसा ॥

1.102.6

सर्वदेवेश्वरः श्रीमान् सर्वलोकपतिर्भवः
यस्य वै देवदेवस्य वयं किङ्करवादिनः ॥

1.102.7

स एवं परमेशानः स्वयं च वरयिष्यति
वरदे येन सृष्टासि न विना यस्त्वयांबिके ॥

1.102.8

वर्तते नात्र संदेहस् तव भर्त्ता भविष्यति
इत्युक्त्वा तां नमस्कृत्य मुहुः सम्प्रेक्ष्य पार्वतीम् ॥

1.102.9

गते पितामहे देवो भगवान् परमेश्वरः
जगामानुग्रहं कर्तुं द्विजरूपेण चाश्रमम् ॥

1.102.10

सा च दृष्ट्वा महादेवं द्विजरूपेण संस्थितम्
प्रतिभाद्यैः प्रभुं ज्ञात्वा ननाम वृषभध्वजम् ॥

1.102.11

सम्पूज्य वरदं देवं ब्राह्मणच्छद्मनागतम्
तुष्टाव परमेशानं पार्वती परमेश्वरम् ॥

1.102.12

अनुगृह्य तदा देवीम् उवाच प्रहसन्निव
कुलधर्माश्रयं रक्षन् भूधरस्य महात्मनः ॥

1.102.13

क्रीडार्थं च सतां मध्ये सर्वदेवपतिर्भवः
स्वयंवरे महादेवी तव दिव्यसुशोभने ॥

1.102.14

आस्थाय रूपं यत्सौम्यं समेष्ये ऽहं सह त्वया
इत्युक्त्वा तां समालोक्य देवो दिव्येन चक्षुषा ॥

1.102.15

जगामेष्टं तदा दिव्यं स्वपुरं प्रययौ च सा
दृष्ट्वा हृष्टस्तदा देवीं मेनया तुहिनाचलः ॥

1.102.16

आलिङ्ग्याघ्राय सम्पूज्य पुत्रीं साक्षात्तपस्विनीम्
दुहितुर्देवदेवेन न जानन्नभिमन्त्रितम् ॥

1.102.17

स्वयंवरं तदा देव्याः सर्वलोकेष्वघोषयत्
अथ ब्रह्मा च भगवान् विष्णुः साक्षाज्जनार्दनः ॥

1.102.18

शक्रश् च भगवान् वह्निर् भास्करो भग एव च
त्वष्टार्यमा विवस्वांश् च यमो वरुण एव च ॥

1.102.19

वायुः सोमस्तथेशानो रुद्राश् च मुनयस् तथा
अश्विनौ द्वादशादित्या गन्धर्वा गरुडस् तथा ॥

1.102.20

यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषोरगाः
समुद्राश् च नदा वेदा मन्त्राः स्तोत्रादयः क्षणाः ॥

1.102.21

नागाश् च पर्वताः सर्वे यज्ञाः सूर्यादयो ग्रहाः
त्रयस्त्रिंशच्च देवानां त्रयश् च त्रिशतं तथा ॥

1.102.22

त्रयश् च त्रिसहस्रं च तथान्ये बहवः सुरा
जग्मुर् गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम् ॥

1.102.23

अथ शैलसुता देवी हैममारुह्य शोभनम्
विमानं सर्वतोभद्रं सर्वरत्नैर् अलंकृतम् ॥

1.102.24

अप्सरोभिः प्रनृत्ताभिः सर्वाभरणभूषितैः
गन्धर्वसिद्धैर्विविधैः किन्नरैश् च सुशोभनैः ॥

1.102.25

बन्दिभिः स्तूयमाना च स्थिता शैलसुता तदा
सितातपत्रं रत्नांशु मिश्रितं चावहत्तथा ॥

1.102.26

मालिनी गिरिपुत्र्यास्तु संध्या पूर्णेन्दुमण्डलम्
चामरासक्तहस्ताभिर् दिव्यस्त्रीभिश् च संवृता ॥

1.102.27

मालां गृह्य जया तस्थौ सुरद्रुमसमुद्भवाम्
विजया व्यजनं गृह्य स्थिता देव्याः समीपगा ॥

1.102.28

मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः ॥

1.102.29

उत्सङ्गतलसंसुप्तो बभूव भगवान्भवः
अथ दृष्ट्वा शिशुं देवास् तस्या उत्संगवर्त्तिनम् ॥

1.102.30

को ऽयम् अत्रेति संमन्त्र्य चुक्षुभुश् च समागताः
वज्रमाहारयत्तस्य बाहुम् उद्यम्य वृत्रहा ॥

1.102.31

स बाहुरुद्यमस्तस्य तथैव समुपस्थितः
स्तम्भितः शिशुरूपेण देवदेवेन लीलया ॥

1.102.32

वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं तथा
वह्निः शक्तिं तथा क्षेप्तुं न शशाक तथा स्थितः ॥

1.102.33

यमो ऽपि दण्डं खड्गं च निरृतिर्मुनिपुङ्गवाः
वरुणो नागपाशं च ध्वजयष्टिं समीरणः ॥

1.102.34

सोमो गदां धनेशश् च दण्डं दण्डभृतां वरः
ईशानश् च तथा शूलं तीव्रमुद्यम्य संस्थितः ॥

1.102.35

रुद्राश् च शूलमादित्या मुशलं वसवस् तथा
मुद्गरं स्तम्भिताः सर्वे देवेनाशु दिवौकसः ॥

1.102.36

स्तम्भिता देवदेवेन तथान्ये च दिवौकसः
शिरः प्रकम्पयन् विष्णुश् चक्रम् उद्यम्य संस्थितः ॥

1.102.37

तस्यापि शिरसो बालः स्थिरत्वं प्रचकार ह
चक्रं क्षेप्तुं न शशाक बाहूंश्चालयितुं न च ॥

1.102.38

पूषा दन्तान् दशन् दन्तैर् बालमैक्षत मोहितः
तस्यापि दशनाः पेतुर् दृष्टमात्रस्य शंभुना ॥

1.102.39

बलं तेजश् च योगं च तथैवास्तम्भयद् विभुः
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि ॥

1.102.40

ब्रह्मा परमसंविग्नो ध्यानमास्थाय शङ्करम्
बुबुधे देवमीशानम् उमोत्संगे तमास्थितम् ॥

1.102.41

स बुद्ध्वा देवमीशानं शीघ्रम् उत्थाय विस्मितः
ववन्दे चरणौ शंभोर् अस्तुवच्च पितामहः ॥

1.102.42

बुद्धिस्त्वं सर्वलोकानाम् अहङ्कारस् त्वम् ईश्वरः
भूतानामिन्द्रियाणां च त्वमेवेश प्रवर्त्तकः ॥

1.102.43

तवाहं दक्षिणाद्धस्तात् सृष्टः पूर्वं पुरातनः
वामहस्तान् महाबाहो देवो नारायणः प्रभुः ॥

1.102.44

इयं च प्रकृतिर्देवी सदा ते सृष्टिकारण
पत्नीरूपं समास्थाय जगत्कारणमागता ॥

1.102.45

नमस्तुभ्यं महादेव महादेव्यै नमोनमः
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥

1.102.46

देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमोहिताः
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ॥

1.102.47

विज्ञाप्यैवं तदा ब्रह्मा देवदेवं महेश्वरम्
संस्तम्भितांस्तदा तेन भगवान् आह पद्मजः ॥

1.102.48

मूढास्थ देवताः सर्वा नैव बुध्यत शङ्करम्
देवदेवम् इहायान्तं सर्वदेवनमस्कृतम् ॥

1.102.49

गच्छध्वं शरणं शीघ्रं देवाः शक्रपुरोगमाः
सनारायणकाः सर्वे मुनिभिः शङ्करं प्रभुम् ॥

1.102.50

सार्धं मयैव देवेशं परमात्मानमीश्वरम्
अनया हैमवत्या च प्रकृत्या सह सत्तमम् ॥

1.102.51

तत्र ते स्तम्भितास्तेन तथैव सुरसत्तमाः
प्रणेमुर् मनसा सर्वे सनारायणकाः प्रभुम् ॥

1.102.52

अथ तेषां प्रसन्नो भूद् देवदेवस्त्रियंबकः
यथापूर्वं चकाराशु वचनाद्ब्रह्मणः प्रभुः ॥

1.102.53

तत एवं प्रसन्ने तु सर्वदेवनिवारणम्
वपुश्चकार देवेशो दिव्यं परममद्भुतम् ॥

1.102.54

तेजसा तस्य देवास्ते सेन्द्रचन्द्रदिवाकराः
सब्रह्मकाः ससाध्याश् च सनारायणकास् तथा ॥

1.102.55

सयमाश् च सरुद्राश् च चक्षुरप्रार्थयन् विभुम्
तेभ्यश् च परमं चक्षुः सर्वदृष्टौ च शक्तिमत् ॥

1.102.56

ददावंबापतिः शर्वो भवान्याश् च चलस्य च
लब्ध्वा चक्षुस्तदा देवा इन्द्रविष्णुपुरोगमाः ॥

1.102.57

सब्रह्मकः सशक्राश् च तमपश्यन्महेश्वरम्
ब्रह्माद्या नेमिरे तूर्णं भवानी च गिरीश्वरः ॥

1.102.58

मुनयश् च महादेवं गणेशाः शिवसंमताः
ससर्जुः पुष्पवृष्टिं च खेचराः सिद्धचारणाः ॥

1.102.59

देवदुन्दुभयो नेदुस् तुष्टुवुर्मुनयः प्रभुम्
जगुर्गन्धर्वमुख्याश् च ननृतुश्चाप्सरोगणाः ॥

1.102.60

मुमुहुर्गणपाः सर्वे मुमोदांबा च पार्वती
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥

1.102.61

पादयोः स्थापयामास मालां दिव्यां सुगन्धिनीम्
साधु साध्विति सम्प्रोच्य तया तत्रैव चार्चितम् ॥

1.102.62

सह देव्या नमश्चक्रुः शिरोभिर् भूतलाश्रितैः
सर्वे सब्रह्मका देवाः सयक्षोरगराक्षसाः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc