भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.100

1.100.1

विजित्य विष्णुना सार्धं भगवान्परमेश्वरः
सर्वान्दधीचवचनात् कथं भेजे महेश्वरः ॥

1.100.2

दक्षयज्ञे सुविपुले देवान् विष्णुपुरोगमान्
ददाह भगवान् रुद्रः सर्वान् मुनिगणान् अपि ॥

1.100.3

भद्रो नाम गणस्तेन प्रेषितः परमेष्ठिना
विप्रयोगेन देव्या वै दुःसहेनैव सुव्रताः ॥

1.100.4

सो ऽसृजद् वीरभद्रश् च गणेशान्रोमजाञ्छुभान्
गणेश्वरैः समारुह्य रथं भद्रः प्रतापवान् ॥

1.100.5

गन्तुं चक्रे मतिं यस्य सारथिर्भगवानजः
गणेश्वराश् च ते सर्वे विविधायुधपाणयः ॥

1.100.6

विमानैर्विश्वतो भद्रैस् तमन्वयुरथो सुराः
हिमवच्छिखरे रम्ये हेमशृङ्गे सुशोभने ॥

1.100.7

यज्ञवाटस् तथा तस्य गङ्गाद्वारसमीपतः
तद्देशे चैव विख्यातं शुभं कनखलं द्विजाः ॥

1.100.8

दग्धुं वै प्रेषितश्चासौ भगवान् परमेष्ठिना
तदोत्पातो बभूवाथ लोकानां भयशंसनः ॥

1.100.9

पर्वताश् च व्यशीर्यन्त प्रचकम्पे वसुंधरा
मरुतश् चाप्य् अघूर्णन्त चुक्षुभे मकरालयः ॥

1.100.10

अग्नयो नैव दीप्यन्ति न च दीप्यति भास्करः
ग्रहाश् च न प्रकाश्यन्ते न देवा न च दानवाः ॥

1.100.11

ततः क्षणात् प्रविश्यैव यज्ञवाटं महात्मनः
रोमजैः सहितो भद्रः कालाग्निरिवचापरः ॥

1.100.12

उवाच भद्रो भगवान् दक्षं चामिततेजसम्
संपर्कादेव दक्षाद्य मुनीन्देवान् पिनाकिना ॥

1.100.13

दग्धुं संप्रेषितश् चाहं भवन्तं समुनीश्वरैः
इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः ॥

1.100.14

गणेश्वराश् च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः
प्रस्तोत्रा सह होत्रा च दग्धं चैव गणेश्वरैः ॥

1.100.15

गृहीत्वा गणपाः सर्वान् गङ्गास्रोतसि चिक्षिपुः
वीरभद्रो महातेजाः शक्रस्योद्यच्छतः करम् ॥

1.100.16

व्यष्टम्भयद् अदीनात्मा तथान्येषां दिवौकसाम्
भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया ॥

1.100.17

निहत्य मुष्टिना दन्तान् पूष्णश्चैवं न्यपातयत्
तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया ॥

1.100.18

घर्षयामास भगवान् वीरभद्रः प्रतापवान्
चिछेद च शिरस्तस्य शक्रस्य भगवान्प्रभोः ॥

1.100.19

वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया
जघान मूर्ध्नि पादेन वीरभद्रो महाबलः ॥

1.100.20

यमस्य दण्डं भगवान् प्रचिछेद स्वयं प्रभुः
जघान देवमीशानं त्रिशूलेन महाबलम् ॥

1.100.21

त्रयस्त्रिंशत्सुरानेवं विनिहत्याप्रयत्नतः
त्रयश् च त्रिशतं तेषां त्रिसाहस्रं च लीलया ॥

1.100.22

त्रयं चैव सुरेन्द्राणां जघान च मुनीश्वरान्
अन्यांश् च देवान् देवो ऽसौ सर्वान्युद्धाय संस्थितान् ॥

1.100.23

जघान भगवान् रुद्रः खड्गमुष्ट्यादिसायकैः
अथ विष्णुर्महातेजाश् चक्रम् उद्यम्य मूर्छितः ॥

1.100.24

युयोध भगवांस्तेन रुद्रेण सह माधवः
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥

1.100.25

विष्णोर्योगबलात्तस्य दिव्यदेहाः सुदारुणाः ॥

1.100.26

शङ्खचक्रगदाहस्ता असंख्याताश् च जज्ञिरे
तान्सर्वानपि देवो ऽसौ नारायणसमप्रभान् ॥

1.100.27

निहत्य गदया विष्णुं ताडयामास मूर्धनि
ततश्चोरसि तं देवं लीलयैव रणाजिरे ॥

1.100.28

पपात च तदा भूमौ विसंज्ञः पुरुषोत्तमः
पुनरुत्थाय तं हन्तुं चक्रमुद्यम्य स प्रभुः ॥

1.100.29

क्रोधरक्तेक्षणः श्रीमान् अतिष्ठत् पुरुषर्षभः
तस्य चक्रं च यद्रौद्रं कालादित्यसमप्रभम् ॥

1.100.30

व्यष्टम्भयद् अदीनात्मा करस्थं न चचाल सः
अतिष्ठत् स्तम्भितस्तेन शृङ्गवानिव निश्चलः ॥

1.100.31

त्रिभिश् च धर्षितं शार्ङ्गं त्रिधाभूतं प्रभोस्तदा
शार्ङ्गकोटिप्रसङ्गाद् वै चिछेद च शिरः प्रभोः ॥

1.100.32

छिन्नं च निपपातासु शिरस्तस्य रसातले
वायुना प्रेरितं चैव प्राणजेन पिनाकिना ॥

1.100.33

प्रविवेश तदा चैव तदीयाहवनीयकम्
तत् प्रतिध्वस्तकलशं भग्नयूपं सतोरणम् ॥

1.100.34

प्रदीपितमहाशालं दृष्ट्वा यज्ञो ऽपि दुद्रुवे
तं तदा मृगरूपेण धावन्तं गगनं प्रति ॥

1.100.35

वीरभद्रः समाधाय विशिरस्कमथाकरोत्
ततः प्रजापतिं धर्मं कश्यपं च जगद्गुरुम् ॥

1.100.36

अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम्
मुनिम् अङ्गिरसं चैव कृष्णाश्वं च महाबलः ॥

1.100.37

जघान मूर्ध्नि पादेन दक्षं चैव यशस्विनम्
चिछेद च शिरस्तस्य ददाहाग्नौ द्विजोत्तमाः ॥

1.100.38

सरस्वत्याश् च नासाग्रं देवमातुस्तथैव च
निकृत्य करजाग्रेण वीरभद्रः प्रतापवान् ॥

1.100.39

तस्थौ श्रिया वृतो मध्ये प्रेतस्थाने यथा भवः
एतस्मिन्नेव काले तु भगवान्पद्मसंभवः ॥

1.100.40

भद्रमाह महातेजाः प्रार्थयन्प्रणतः प्रभुः
अलं क्रोधेन वै भद्र नष्टाश्चैव दिवौकसः ॥

1.100.41

प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत
सो ऽपि भद्रः प्रभावेण ब्रह्मणः परमेष्ठिनः ॥

1.100.42

शमं जगाम शनकैः शान्तस्तस्थौ तदाज्ञया
देवो ऽपि तत्र भगवान् अन्तरिक्षे वृषध्वजः ॥

1.100.43

सगणः सर्वदः शर्वः सर्वलोकमहेश्वरः
प्रार्थितश्चैव देवेन ब्रह्मणा भगवान् भवः ॥

1.100.44

हतानां च तदा तेषां प्रददौ पूर्ववत्तनुम्
इन्द्रस्य च शिरस्तस्य विष्णोश्चैव महात्मनः ॥

1.100.45

दक्षस्य च मुनीन्द्रस्य तथान्येषां महेश्वरः
वागीश्याश्चैव नासाग्रं देवमातुस्तथैव च ॥

1.100.46

नष्टानां जीवितं चैव वराणि विविधानि च
दक्षस्य ध्वस्तवक्त्रस्य शिरसा भगवान्प्रभुः ॥

1.100.47

कल्पयामास वै वक्त्रं लीलया च महान् भवः
दक्षो ऽपि लब्धसंज्ञश् च समुत्थाय कृताञ्जलिः ॥

1.100.48

तुष्टाव देवदेवेशं शङ्करं वृषभध्वजम्
स्तुतस्तेन महातेजाः प्रदाय विविधान्वरान् ॥

1.100.49

गाणपत्यं ददौ तस्मै दक्षायाक्लिष्टकर्मणे
देवाश् च सर्वे देवेशं तुष्टुवुः परमेश्वरम् ॥

1.100.50

नारायणश् च भगवान् तुष्टाव च कृताञ्जलिः
ब्रह्मा च मुनयः सर्वे पृथक्पृथगजोद्भवम् ॥

1.100.51

तुष्टुवुर् देवदेवेशं नीलकण्ठं वृषध्वजम्
तान् देवान् अनुगृह्यैव भवो ऽप्यन्तरधीयत ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc