भाषा

ENहिગુ
ग्रंथ पाठ

लीलावती · श्लोक 239-260

239

छाया-अग्रयोस् अन्तर-संगुणा भा छाया-प्रमाण-अन्तर-हृत् @भवेत् भूस्।
भू-शङ्कु-घातस् प्रभया विभक्तस् @प्रजायते दीप-शिख-औच्च्यम् एवम्।
त्रैराशिकेन एव यत् एतत् उक्तम् व्याप्तम् स्व-भेदैस् हरिणा इव विश्वम्॥

240

शङ्कोस् भा #अर्क-मित-अङ्गुलस्य सु-मते दृष्टा किल %अष्ट-अङ्गुला छाया-अग्र-अभिमुखे कर-%द्वय-मिते न्यस्तस्य देशे पुनर्।
तस्य एव #अर्क-मित-अङ्गुला यदि तदा छाया-प्रदीप-अन्तरम् दीप-औच्च्यम् च कियत् @वद व्यवहृतिम् छाया-अभिधाम् @वेत्सि चेत्॥

241

यत् किंचित् गुण-भाग-हार-विधिना बीजे अत्र वा @गण्यते तत् त्रैराशिकम् एव निर्मल-धियाम् एव अवगम्यम् विदाम्। [शर्म: अवगम्या भिदा]
एतत् यत् बहुधा अस्मद्-आदि-जड-धी-धी-वृद्धि-बुद्ध्या बुधैस् तद्-भेदान् सु-गमान् @विधाय रचितम् प्राज्ञैस् प्रकीर्ण-आदिकम्॥ [शर्म: -बुद्धि-प्रवृद्ध्यै < -वृद्धि-बुद्ध्या, -भेद-अनुगमान् < -भेदान् सुगमान्]
इति श्री-भास्कर-आचार्य-विरचितायाम् लीलावत्याम् छाया-अधिकारस् समाप्तिम् @अगात्॥

242

भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-%अर्थम्।
येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतत् दुष्टम् उद्दिष्टम् एव॥

243

परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् @स्यात् अपवर्तनम् सस्।
तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञितौ @स्तस्॥

244

मिथस् @भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये @भवति इह #रूपम्।
फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् ततस् शून्यम् उपान्तिमेन॥

245

स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् @त्यजेत् मुहुस् @स्यात् इति राशि-#युग्मम्।
ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् @स्यात् अधरस् हरेण॥

246

एवम् तदा एव अत्र यदा समास् तास् @स्युस् लब्धयस् चेद् विषमास् तदानीम्।
यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ @स्तस्॥

247

%एकविंशति-युतम् %शत-%द्वयम् यद्-गुणम् गणक %पञ्चषष्टि-युक्।
%पञ्च-वर्जित-%शत-%द्वय-उद्धृतम् शुद्धिम् @एति गुणकम् @वद आशु तम्॥

248

@भवति कुट्ट-विधेर् युति-भाज्ययोस् समपवर्तितयोस् अपि वा गुणस्।
@भवति यस् युति-भाजकयोस् पुनर् सस् च @भवेत् अपवर्तन-संगुणस्॥

249

%शतम् हतम् येन युतम् %नवत्या विवर्जितम् वा विहृतम् %त्रिषष्ट्या।
निस्-अग्रकम् @स्यात् @वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके @असि॥

251

यद्-गुणा गणक %षष्टिस् अन्विता वर्जिता च %दशभिस् %षष्-उत्तरैस्।
@स्यात् %त्रयोदश-हृता निस्-अग्रका तत् गुणम् @कथय मे पृथक् पृथक्॥

252

गुण-लब्ध्योस् समम् ग्राह्यम् धी-मता तक्षणे फलम्।
हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत्।
क्षेप-तक्षण-लाभ-आढ्या लब्धिस् शुद्धौ तु वर्जिता॥

253

येन संगुणितास् %पञ्च %त्रयोविंशति-संयुतास्।
वर्जितास् वा %त्रिभिस् भक्तास् निस्-अग्रास् @स्युस् स कस् गुणस्॥

254

क्षेप-अभावस् अथ वा क्षेपस् शुद्धस् हर-उद्धृतस्।
ज्ञेयस् #शून्यम् गुणस् तत्र क्षेपस् हार-हृतस् फलम्॥

255

येन %पञ्च-गुणितास् #ख-संयुतास् %पञ्चषष्टि-सहितास् च ते अथ वा।
@स्युस् %त्रयोदश-हृतास् निस्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे॥

257

क्षेपे तु #रूपे यदि वा विशुद्धे @स्याताम् क्रमात् ये गुण-कार-लब्धी।
अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे @भवतस् तयोस् ते॥

258

कल्प्या अथ शुद्धिस् विकला-अवशेषस् %षष्टिस् च भाज्यस् कु-दिनानि हारस्।
तद्-जम् फलम् @स्युस् विकला गुणस् तु लिप्ता-अग्रम् अस्मात् च कला लव-अग्रम्।
एवम् तद्-ऊर्ध्वम् च तथा अधिमास-अवम-अग्रकाभ्याम् दिवसास् रवि-इन्द्वोस्॥

259

%एकस् हरस् चेद् गुणकौ विभिन्नौ तदा गुण-ऐक्यम् @परिकल्प्य भाज्यम्।
अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ॥

260

कस् %पञ्च-निघ्नस् विहृतस् %त्रिषष्ट्या %सप्त अवशेषस् अथ सस् एव राशिस्।
%दश-आहतस् @स्यात् विहृतस् %त्रिषष्ट्या %चतुर्दश अग्रस् @वद राशिम् एनम्॥
अत्र गुण-ऐक्यम् भाज्यस्। अग्र-ऐक्यम् शुद्धिस् इति। न्यासस्। भाज्यस् 15 हारस् 63 शुधिस् 21। पूर्व-वत् जातस् शुद्धस् गुणस् 14॥ इति लीलावत्याम् कुट्टक-अध्यायस्॥

मूल पाठ: Līlāvatī · Edition: the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.'; 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.' · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc