लीलावती · श्लोक 261-272
स्थान-अन्तम् %एक-आदि-चय-अङ्क-घातस् संख्या-विभेदास् नियतैस् @स्युस् अङ्कैस्।
भक्तस् अङ्क-मित्या अङ्क-समास-निघ्नस् स्थानेषु युक्तस् मिति-संयुतिस् @स्यात्॥
%द्विक-%अष्टकाभ्याम् %त्रि-%नव-%अष्टकैस् वा निरन्तरम् %द्वि-आदि-%नव-अवसानैस्।
संख्या-विभेदास् कति @संभवन्ति तद्-संख्यक-ऐक्यानि पृथक् @वद आशु॥
पाश-अङ्कुश-अहि-डमरूक-कपाल-शूलैस् खट्वा-अङ्ग-शक्ति-शर-चाप-युतैस् @भवन्ति।
अन्योन्य-हस्त-कलितैस् कति मूर्ति-भेदास् शंभोस् हरेस् इव गदा-अरि-सरस्-ज-शङ्खैस्॥
यावत्-स्थानेषु तुल्य-अङ्कास् तद्-भेदैस् तु पृथक् कृतैस्।
प्राक्-भेदास् विहृतास् भेदास् तद्-संख्या-ऐक्यम् च पूर्व-वत्॥
%द्वि-%द्वि-%एक-#भू-परिमितैस् कति संख्यकास् @स्युस् तासाम् युतिस् च गणक आशु मम @प्रचक्ष्व।
#अम्भोधि-#कुम्भि-#शर-#भूत-#शरैस् तथा अङ्कैस् चेद् अङ्क-पाशम् इति युक्ति-विशारदस् @असि॥
स्थान-%षट्क-स्थितैस् अङ्कैस् अन्योन्यम् #खेन वर्जितैस्।
कति संख्या-विभेदास् @स्युस् यदि @वेत्सि @निगद्यताम्॥
निस्-%एकम् अङ्क-ऐक्यम् इदम् निस्-%एक-स्थान-अन्तम् %एक-अपचितम् विभक्तम्।
#रूप-आदिभिस् तद्-निहतैस् समास् @स्युस् संख्या-विभेदास् नियते अङ्क-योगे॥
%नव-अन्वित-स्थानक-संख्यकायास् ऊने अङ्क-योगे कथितम् तु वेद्यम्।
%पञ्च-स्थान-स्थितैस् अङ्कैस् यद्-यद्-योगस् %त्रयोदश।
कति-भेदा @भवेत् संख्या यदि @वेत्सि @निगद्यताम्॥
न गुणस् न हरस् न कृतिस् न घनस् पृष्टस् तथा अपि दुष्टानाम्।
गर्वित-गणक-बटूनाम् @स्यात् पातस् अवश्यम् अङ्क-पाशे अस्मिन्॥
येषाम् सु-जाति-गुण-वर्ग-विभूषित-अङ्गी शुद्धा अखिल-व्यवहृतिस् खलु कण्ठ-सक्ता।
लीलावती इह स-रस-उक्तिम् उदाहरन्ती तेषाम् सदा एव सुख-संपद् @उपैति वृद्धिम्॥
मूल पाठ: Līlāvatī · Edition: the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.'; 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.' · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0