भाषा

ENहिગુ
ग्रंथ पाठ

लीलावती · श्लोक 217-237

217

मुख-ज-तल-ज-तद्-युति-ज-क्षेत्र-फल-ऐक्यम् हृतम् %षड्भिस्।
क्षेत्र-फलम् समम् एवम् वेध-हतम् घन-फलम् स्पष्टम्॥ [शर्म: -गुणम् < -हतम्]
सम-खात-फल-%त्रि-अंशस् सूची-खाते फलम् @भवति॥

218

मुखे %दश-%द्वादश-हस्त-तुल्यम् विस्तार-दैर्घ्यम् तु तले तद्-%अर्धम्। [शर्म: -तुल्ये < -तुल्यम्, -दैर्घ्ये < -दैर्घ्यम्]
यस्यास् सखे %सप्त-करस् च वेधस् का खात-संख्या @वद तत्र वाप्याम्॥

219

खाते अथ #तिग्मकर-तुल्य-%चतुर्-भुजे च किम् @स्यात् फलम् %नव-मितस् किल यत्र वेधस्। [शर्म: खलु < किल]
वृत्ते तथा एव %दश-विस्तृति-%पञ्च-वेधे सूची-फलम् @वद तयोस् च पृथक् पृथक् मे॥

220

उच्छ्रयेण गुणितम् चितेस् किल क्षेत्र-संभव-फलम् घनम् @भवेत्। [शर्म: अपि < किल]
इष्टका-घन-हृते घने चितेस् इष्टका-परिमितिस् च @लभ्यते॥ [शर्म: तु < च]
इष्टका-उच्छ्रय-हृत्-उच्छ्रितिस् चितेस् @स्युस् स्तरास् च दृषदाम् चितेस् अपि॥

221

%अष्टादश-अङ्गुलम् दैर्घ्यम् विस्तारस् %द्वादश-अङ्गुलस्।
उच्छ्रितिस् %त्रि-अङ्गुला यासाम् इष्टकास् तास् चितौ किल॥

222

यद्-विस्तृतिस् %पञ्च-करा %अष्ट-हस्तम् दैर्घ्यम् च यस्याम् %त्रि-कर-उच्छ्रितिस् च। [शर्म: यस्यास् < यस्याम्]
तस्याम् चितौ किम् फलम् इष्टकानाम् संख्या च का @ब्रूहि कति स्तरास् च॥ [शर्म: किम् < का]
न्यासस्। [fइग्.38] इष्टका-चितिस्। इष्टकायास् घन-हस्त-मानम् 3_64। चितेस् क्षेत्र-फलम् 40। उच्छ्रयेण गुणितम् चितेस् घन-फलम् 120। लब्धा इष्टका-संख्या 2560। स्तर-संख्या 24। एवम् पाषाण-चितौ अपि॥ इति चिति-व्यवहारस्॥

223

पिण्ड-योग-#दलम् अग्र-मूलयोस् दैर्घ्य-संगुणितम् अङ्गुल-आत्मकम्।
दारु-दारण-पथैस् समाहतम् %षष्-#स्वर-#इषु-विहृतम् कर-आत्मकम्॥ [आपटे: षष्-स्तरेषु विहृतम्]

224

मूले #नख-अङ्गुल-मितस् अथ #नृप-अङ्गुलस् अग्रे पिण्डस् %शत-अङ्गुल-मितम् किल यस्य दैर्घ्यम्।
तद्-दारु-दारण-पथेषु %चतुर्षु किम् @स्यात् हस्त-आत्मकम् @वद सखे गणितम् द्रुतम् मे॥

225

@छिद्यते तु यदि तिर्यक् उक्त-वत् पिण्ड-विस्तृति-हतेस् फलम् तदा। [शर्म:-हृतेस् < -हतेस्]
इष्टका-चिति-दृषद्-चिति-खात-क्राकच-व्यवहृतौ खलु मूल्यम्।
कर्म-कार-जन-संप्रतिपत्त्या तद्-मृदुत्व-कठिनत्व-वशेन॥

226

यद्-विस्तृतिस् #दन्त-मिता अङ्गुलानि पिण्डस् तथा %षोडश यत्र काष्ठे।
छेदेषु तिर्यक् %नवसु @प्रचक्ष्व किम् @स्यात् फलम् तत्र कर-आत्मकम् मे॥
न्यासस्। [fइग्.40] विस्तारस् 32। पिण्डस् 16। पिण्ड-विस्तृति-हतिस् 512। दारु-दारण-मार्ग-9-घ्नी 4608। %षष्-#स्वर-#इषु-576-विहृता जातम् फलम् हस्तास् 8॥ इति क्रकच-व्यवहारस्॥

227

अनणुषु %दशम-अंशस् अणुषु अथ %एकादश-अंशस् परिधि-%नवम-भागस् शूकि-धान्येषु वेधस्। [शर्म: शूक- < शूकि-]
@भवति परिधि-%षष्ठे वर्गिते वेध-निघ्ने घन-गणित-करास् @स्युस् मागधास् तास् च खार्यस्॥

228

सम-भुवि किल राशिस् यस् स्थितस् स्थूल-धान्य-परिधि-परिमितिस् @स्यात् हस्त-%षष्टिस् यदीया। [शर्म:-धान्यस् < -धान्य-, वै < स्यात्]
@प्रवद गणक खार्यस् किम्-मितास् @सन्ति तस्मिन् अथ पृथक् अणु-धान्यैस् शूक-धान्यैस् च शीघ्रम्॥ [शर्म: अणु-धान्ये शूकि-धान्ये च]

229

%द्वि-#वेद-स-%त्रि-भाग-%एक-निघ्नात् तु परिधेस् फलम्।
भित्ति-अन्तर्-बाह्य-कोण-स्थ-राशेस् स्व-गुण-भाजितम्॥ [शर्म: -अन्तर्-कोण-बाह्य-स्थ-]

230

परिधिस् भित्ति-लग्नस्य राशेस् %त्रिंशत्-करस् किल।
अन्तर्-कोण-स्थितस्य अपि #तिथि-तुल्य-करस् सखे॥

231

बहिर्-कोण-स्थितस्य अपि %पञ्च-घ्न-%नव-संमितस्।
तेषाम् @आचक्ष्व मे क्षिप्रम् घन-हस्तान् पृथक् पृथक्॥

232

छाययोस् कर्णयोस् अन्तरे ये तयोस् वर्ग-विश्लेष-भक्तास् #रस-#अद्रि-#इषवस्।
स-%एक-लब्धेस् पद-घ्नम् तु कर्ण-अन्तरम् भा-अन्तरेण ऊन-युक्तम् #दले @स्तस् प्रभे॥ [शर्म: स्तम्भ-भे < स्तस् प्रभे]

233

#नन्द-#चन्द्रैस् मितम् छाययोस् अन्तरम् कर्णयोस् अन्तरम् #विश्व-तुल्यम् ययोस्।
ते प्रभे @वक्ति यस् युक्तिमान् @वेत्ति असौ व्यक्तम् अव्यक्त-युक्तम् हि @मन्ये अखिलम्॥ [शर्म: युक्ति-मार्गेण मे < युक्तिमान् वेत्ति असौ, अव्यक्तम् उक्तम् < अव्यक्त-युक्तम्]

234

शङ्कुस् प्रदीप-तल-शङ्कु-तल-अन्तर-घ्नस् छाया @भवेत् वि-नर-दीप-शिख-औच्च्य-भक्तस्॥ [शर्म: -औच्च-]

235

शङ्कु-प्रदीप-अन्तर-भूस् %त्रि-हस्ता दीप-उच्छ्रितिस् स-%अर्ध-कर-%त्रया चेद्।
शङ्कोस् तदा #अर्क-अङ्गुल-संमितस्य तस्य प्रभा @स्यात् कियती @वद आशु॥

237

प्रदीप-शङ्कु-अन्तर-भूस् %त्रि-हस्ता छाया-अङ्गुलैस् %षोडशभिस् समा चेद्।
दीप-उच्छ्रितिस् @स्यात् कियती @वद आशु प्रदीप-शङ्कु-अन्तरम् @उच्यताम् मे॥ [शर्म: तथा आभ्याम् < वद आशु]

मूल पाठ: Līlāvatī · Edition: the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.'; 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.' · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc