Lalitavistara · अध्याय 24
एवं खलु भौमा देवा बोधिमण्डनिषण्णं तथागतमभिष्टत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः ॥
॥ इति श्रीललितविस्तरे संस्तवपरिवर्तो नाम त्रयोविंशतितमो ऽध्यायः ॥
स्तर्त् परिवर्त 24
त्रपुषभल्लिकपरिवर्तश्चतुर्विंशः ।
इति हि भिक्षवो ऽभिसंबुद्धस्तथागतो देवैरभिष्टूयमानः पर्यङ्कमभिन्दन्ननिमिषनयनो द्रुमराजं प्रेक्षते स्म । ध्यानप्रीत्याहारः सुखप्रतिसंवेदी सप्तरात्रं बोधिवृक्षमूले ऽभिनामयति स्म ॥
अथ सप्ताहे ऽतिक्रान्ते कामावचरा देवपुत्रा दशगन्धोदककुम्भसहस्राणि परिगृह्य येन तथागतस्तेनोपसंक्रामन्ति स्म । रूपावचरा अपि देवपुत्रा दशगन्धोदककुम्भसहस्राणि परिगृह्य येन तथागस्तेनोपसंक्रामन्ति स्म । उपसंक्रम्य बोधिवृक्षं तथागतं च गन्धोदकेन स्नापयन्ति स्म । गणनासमतिक्रान्ताश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास्तेन तथागतकायपतितेन गन्धोदकेन स्वकस्वकान् कायानुपलिम्पन्ति स्म । अनुत्तरायां च सम्यक्संबोधौ चित्तान्युत्पादयामासुः । स्वभवने प्रविष्टा अपि च ते देवपुत्रादयो ऽविरहिता अभूवंस्तेन गन्धोदकगन्धेन, न चास्मै गन्धाय स्पृहामुत्पादयामासुः । तेनैव च प्रीतिप्रामोद्येन तथागतगौरवमनसिकारनिर्जातेनावैवर्तिका अभूवन्ननुत्तरायाः सम्यक्संबोधेः ॥
अथ खलु भिक्षवः समन्तकुसुमो नाम देवपुत्रस्तस्यामेव पर्षदि संनिपतितो ऽभूत् । स तथागतस्य चरणयोर्निपत्य प्राञ्जलिस्तथागतमेतदवोचत् - को नामायं भगवन् समाधिर्येन समाधिना समन्वागतस्तथागतः सप्तरात्रं विहरत्यभिन्नपर्यङ्कः? एवमुक्तो भिक्षवस्तथागतस्तं देवपुत्रमेतदवोचत् - प्रीत्याहारव्यूहो नाम देवपुत्र अयं समाधिर्येन समाधिना समन्वागतस्तथागतः सप्तरात्रं व्याहार्षीदभिन्नपर्यङ्कः ॥
अथ खलु भिक्षवः समन्तकुसुमो देवपुत्रस्तथागतं गाथाभिरभ्यस्तावीत् -
रथचरणनिचितचरणा दशशतअरजलजकमलदलतेजा ।
सुरमुकुटघृष्टचरणा वन्दे चरणौ शिरिघनस्य
अभिवन्द्य सुगतचरणौ प्रमुदितचित्तस्तदा स सुरपुत्रः ।
इदमवचि विमतिहरणं प्रशान्तकरणं नरमरूणाम्
शाक्यकुलनन्दिजनना अन्तकरा रागदोषमोहानाम् ।
प्रम्लानअन्तकरणा विनेहि काङ्क्षां नरमरूणाम्
किं कारणं दशबला बुद्ध्वा सर्वज्ञतामपरिमाणाम् ।
सप्ताहं महिमण्डे जिना न भिन्दन्ति पर्यङ्कम्
किं तु खलु पश्यमानः सप्ताहं अनिमेषेण नरसिंहा ।
प्रेक्षसि विशुद्धचक्षो विकसितशतपत्रतुल्याक्षः
किं तु भवतेष प्रणिधी उताहु सर्वेष वादिसिंहानाम् ।
येन द्रुमराजमूले पर्यङ्क न भिन्दि सप्ताहम्
साधु समशुद्धदन्ता सुगन्धगन्धामुखं दशबलस्य ।
प्रवद वचनं अवितथं कुरुष्व प्रीतिं नरमरूणाम्
तमुवाच चन्द्रवचनः शृणुष्व मे भाषतो अमरपुत्र ।
अस्य प्रश्नस्याहं किंचिन्मात्रं प्रवक्ष्यामि
राजा यद्वद्यस्मिन्नभिषिक्तो भवति ज्ञातिसंघेन ।
सप्ताहु तं प्रदेशं न जहाति हि धर्मता राज्ञाम्
एवमेव दशबला अपि अभिषिक्ता भोन्ति यद प्रणिधिपूर्णाः ।
सप्ताहु धरणिमण्डे जिना न भिन्दन्ति पर्यङ्कम्
शूरो यथारिसंघां निरीक्षते निर्जितां निरवशेषां ।
बुद्धा पि बोधिमण्डे क्लेशां निहतां निरीक्षन्ते
इह ते कामक्रोधा मोहप्रभावा जगत्परिनिकाशाः ।
साहोढा इव चौरा विनाशिता ये निरवशेषाः
इह मे हतान विविधा मानविधामन्युना पुरनिकेताः ।
सर्वाश्रवा प्रहीना ज्ञानं चाग्रं समोत्पन्नम्
इह सा अकार्यकर्त्री भवतृष्णा चारिणी तथाविद्या ।
सानुशयमूलजाता पटुना ज्ञानाग्निना दग्धा
इह सा अहं ममेति च कलिपाशु दुरानुगाढलितमूला ।
नीवरणकठिनग्रन्थि छिन्ना मे ज्ञानशस्त्रेण
इह ते चिरं समायत उल्लापनका विनाशपर्यन्ताः ।
स्कन्धाः सोपादाना ज्ञानेन मया परिज्ञाताः
इह ते द्वयसंमोहा मिथ्याग्राहा महानरकनिष्ठाः ।
मय उद्धृता अशेषा भूयश्च न जातु ज्ञास्यन्ते
इह नीवरणवनारी दग्धा मे कुशलमूलतेजेन ।
चतुरश्च विपर्यासा निर्दग्ध मया निरवशेषाः
इह सा वितर्कमाला संज्ञासूत्रेषु ग्रन्थिता निपथी ॥
विनिवर्तिता अशेषा बोध्यङ्गविचित्रमालाभिः
दुर्गानि पञ्चषष्टि मोहानी त्रिंशतिं च मलिनानि ।
चत्वारिंशदघानि छिन्ना मे ऽस्मिं धरणिमण्डे
षोडश असंवृतानि अष्टादश धातवश्च महिमण्डे ।
कृच्छ्राणि पञ्चविंशति छिन्नानि मयेहसंस्थेन
विंशति रजस्तराणि अष्टाविंशति जगस्य वित्रासाः ।
इह मे समतिक्रान्ता वीर्यबलपराक्रमं करित्वा
तथ बुद्धनर्दितानी पञ्चशतास्मिं मया समनुबुद्धा ।
परिपुर्णशतसहस्रं धर्मान मया समनुबुद्धम्
इह मे ऽनुशय अशेषा अष्टानवतिः समूलपर्यन्ताः ।
पर्युत्थानकिसलया निर्दग्धा ज्ञानतेजेन
काङ्क्षा विमतिसमुदया दृष्टीजडजन्तिता अशुभमूला ।
तृष्णानदी त्रिवेगा प्रशोषिता ज्ञानसूर्येण
कुहनलपनप्रहाणं मायामात्सर्यदोषईर्ष्याद्यम् ।
इह ते क्लेशारण्यं छिन्नं विनयाग्निना दग्धम्
इह ते विवादमूला आकर्षणदुर्गतीषु विषमासु ।
आर्यापवादवचना ज्ञानवरविरेचनैर्वान्ता
इह रुदितक्रन्दितानां शोचितपरिदेवितान पर्यन्तम् ।
प्राप्तं मया ह्यशेषं ज्ञानगुणसमाधिमागम्य
ओघा अयोगग्रन्थाः शोकाः शल्या मदप्रमादाश्च ।
विजिता मयेह सर्वे सत्यनयसमाधिमागम्य
इह मय किलेशगहना संकल्पविरूढमूल भववृक्षाः ।
स्मृतिपरशुना अशेषा छिन्ना ज्ञानाग्निना दग्धा
इह सो मया ह्यतिबलो अस्मिं मारस्त्रिलोकवशवर्ती ।
ज्ञानासिना शठात्मा हतो यथेन्द्रेण दैत्येन्द्रः
इह जालिनी अशेषा षड्विंशतिचारिणी धरणिमण्डे ।
प्रज्ञासिना बलवता छित्त्वा ज्ञानाग्निना दग्धा
इह ते मूलक्लेशाः सानुशया दुःखशोकसंभूताः ।
मय उद्घृता अशेषा प्रज्ञाबललाङ्गलमुखेन
इह मे प्रज्ञाचक्षुर्विशोधितं प्रकृतिशुद्धसत्त्वानाम् ।
ज्ञानाञ्जनेन महता मोहपटलविस्तरं भिन्नम्
इह धातुभूत चतुरो मदमकरविलोडिता विपुलतृष्णाः ।
स्मृतिशमथभास्करांशौ विशोषिता मे भवसमुद्राः
इह विषयकाष्ठनिचयो वितर्कसामो महामदनवह्निः ।
निर्वापितो ऽतिदीप्तो विमोक्षरसशीततोयेन
इह मे अनुशयपटला आस्वादतडिद्वितर्कनिर्घोषाः ।
वीर्यबलपवनवेगैर्विधूय विलयं समुपनीता
इह मे हतो ह्यशेषश्चित्तचरिरिपुर्भवानुगतवैरी ।
प्रज्ञासिना बलवता स्मृतिविमलसमाधिमागम्य
इह सा ध्वजाग्रधारी हस्त्यश्वरथोच्छ्रिता विकृतरूपा ।
नमुचिबलवीर्यसेना मैत्रीमागम्य विध्वस्ता
इह पञ्चगुणसमृद्धाः षडिन्द्रियहया सदा मदोन्मत्ताः ।
बद्धा मया ह्यशेषाः समाधिसशुभं समागम्य
इह अनुनयप्रतिघानां कलहविवादप्रहाणपर्यन्तः ।
प्राप्तो मया ह्यशेषो अप्रतिहतसमाधिमागम्य
इह ममियिता च सर्वे आध्यात्मिकबाहिरा परिक्षीणा ।
कल्पितविकल्पितानि च शून्यमिति समाधिमागम्य
इह लालयिता सर्वे मर्त्या दिव्या भवाग्रपर्यन्ताः ।
त्यक्ता मया ह्यशेषा आगम्य समाधिमनिवर्तम्
सर्वभवबन्धनानि च मुक्तानि मयेह तानि सर्वाणि ।
प्रज्ञाबलेन निखिला त्रिविधमिह विमोक्षमागम्य
इह हेतुदर्शनाद्वै जिता मया हेतुकास्त्रयः ।
संज्ञा नित्यानित्ये संज्ञा सुखदुःख चात्मनि च
इह मे कर्मविधाना समुदयमुदिता षडायतनमूला ।
छिन्ना द्रुमेन्द्रमूले सर्वानित्यप्रहारेण
इह मोहतमः कलुषं दुष्टीकृत दर्परोषसंकीर्णम् ।
भित्त्वा क्षत्रे सुचिरान्धकारं प्रभासितं ज्ञानसूर्येण
इह रागमदनमकरं तृष्णोर्मिजलं कुदृष्टिसंग्राहम् ।
संसारसागरमहं संतीर्णो वीर्यबलनावा
इह तन्मयानुबुद्धं यद्बुद्धो रागद्वेषमोहांश्च ।
प्रदहति चित्तवितर्कां दवाग्निपतितानिव पतङ्गां
इह अहु चिरप्रयातो ह्यपरिमित कल्पकोटिनयुतानि ।
संसारपथा क्लिष्टो विश्रांतो नष्टसंतापः
इह तन्मयानुबुद्धं सर्वपरप्रवादिभिर्यदप्राप्तम् ।
अमृतं लोकहितार्थं जरामरणशोकदुःखान्तम्
यत्र स्कन्धैर्दुःखं आयतनैः तृष्णसंभवं दुःखम् ।
भूयो न चोद्भविष्यति अभयपुरमिहाभ्युपगतो ऽस्मि
इह ते मयानुबुद्धा रिपवो अध्यात्मिका महाकृत्स्नाः ।
बद्धा च संप्रदग्धाः कृताश्च मे पुन भवनिकेताः
इह तन्मयानुबुद्धं यस्यार्थे कल्पकोटिनयुतानि ।
त्यक्ता समांसनयना रत्नानि बहून्यमृतहेतोः
इह तन्मयानुबुद्धं यद्बुद्धं प्राक्तनैर्जिनैरपरिमाणैः ।
यस्य मधुराभिरम्यः शब्दो लोकेषु विख्यातः
इह तन्मयानुबुद्धं प्रतीत्यसमुदागतं जगच्छून्यम् ।
चित्तेक्षणे ऽनुयातं मरीचिगन्धर्वपुरतुल्यम्
इह मे तत्खलु शुद्धं वरनयनं येन (लोक) धातवः सर्वां ।
पश्यामि पाणिमध्ये न्यस्तानि यथा द्रुमफलानि
पूर्वेनिवासस्मरणं तिस्रो विद्या मयेह संप्राप्ताः ।
अपरिमितकल्पनयुता स्मरामि स्वप्नादिव विबुद्धः
यैरादीप्त सुरनरा विपरीतविसंज्ञिनो विपर्यस्ताः ।
सो ऽपि च तथा अवितथा इह मय पीतो ह्यमृतमण्डः
यस्यार्थाय दशबला मैत्री भावेन्ति सर्वसत्त्वेषु ।
मैत्रीबलेन जित्वा पीतो मे ऽस्मिन्नमृतमण्डः
यस्यार्थाय दशबलाः करुणा भावेन्ति सर्वसत्त्वेषु ।
करुणाबलेन जित्वा पीतो मे ऽस्मिन्नमृतमण्डः
यस्यार्थाय दशबला मुदिता भावेन्ति सर्वसत्त्वेषु ।
मुदिताबलेन जित्वा पीतो मे ऽस्मिन्नमृतमण्डः
यस्यार्थाय दशबला उपेक्ष भावेन्ति कल्पनयुतानि ।
तमुपेक्षबलैर्जित्वा पीतो मे ऽस्मिन्नमृतमण्डः
यत्पीतं च दशबलैर्गङ्गानदीवालिकाबहुतरेभिः ।
प्राग्जिनसिंहैः पूर्वे इह मे पीतो ह्यमृतमण्डः
या भाषिता च वाग्मे मारस्येहागतस्य ससैन्यस्य ।
भेत्स्यामि न पर्यङ्कं अप्राप्य जरामरणपारम्
भिन्ना मया ह्यविद्या दीप्तेन ज्ञानकठिनवज्रेण ।
प्राप्तं च दशबलत्वं तस्मात्प्रभिनद्मि पर्यङ्कम्
प्राप्तं मयारहत्वं क्षीणा मे आश्रवा निरवशेषाः ।
भग्ना च नमुचिसेना भिनद्मि तस्माद्धि पर्यङ्कम्
नीवरणकपाटानि च पञ्च मयेह प्रदारिता सर्वा ।
तृष्णालता विछिन्ना हन्तेह भिनद्मि पर्यङ्कम्
अथ सो मनुष्यचन्द्रः सविलम्बितमासनात्समुत्थाय ।
भद्रासने निषीदन्महाभीषेकं प्रतीच्छंश्च
रत्नघटसहस्रैरपि नानागन्धोदकैश्च सुरसंघा ।
स्नपयन्ति लोकबन्धुं दशबलगुणपारमिप्राप्तम्
वादित्रसहस्रैरपि समन्ततो देवकोटिनयुतानि ।
अतुलां करोन्ति पूजां अप्सरनयुतैः सह समग्राः
एवं खलु देवसुताः सहेतु सप्रत्ययं च सनिदानम् ।
सप्ताहु धरणिमण्डे जिना न भिन्दन्ति पर्यङ्कम्
इति हि भिक्षवो ऽभिसंबुद्धबोधिस्तथागतः प्रथमे सप्ताहे तत्रैवासने ऽस्थात् - इह मयानुत्तरा सम्यक्संबोधिरभिसंबुद्धा, इह मयानवराग्रस्य जातिजरामरणदुःखस्यान्तः कृत इति । द्वितीये सप्ताहे तथागतो दीर्घचंक्रमं चंक्रम्यते स्म त्रिसाहस्रमहासाहस्रलोकधातुमुपगृह्य । तृतीये सप्ताहे तथागतो ऽनिमिषं बोधिमण्डमीक्षते स्म - इह मयानुत्तरां सम्यक्संबोधिमभिसंबुध्यानवराग्रस्य जातिजरामरणदुःखस्यान्तः कृत इति । चतुर्थे सप्ताहे तथागतो दहरचंक्रमं चंक्रम्यते स्म पूर्वसमुद्रात्पश्चिमसमुद्रमुपगृह्य ॥
अथ खलु मारः पापीयान् येन तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य तथागतमेतदवोचत् - परिनिर्वातु भगवन्, परिनिर्वातु सुगत । समय इदानीं भगवतः परिनिर्वाणाय । एवमुक्ते भिक्षवस्तथागतो मारं पापीयांसमेतदवोचत् - न तावदहं पापीयन् परिनिर्वास्यामि यावन्मे न स्थविरा भिक्षवो भविष्यन्ति दान्ता व्यक्ता विनीता विशारदा बहुश्रुता धर्मानुधर्मप्रतिपन्नाः प्रतिबलाः स्वयमाचार्यकं ज्ञानं परिदीपयितुमुत्पन्नोत्पन्नानां च परप्रवादिनां सह धर्मेण निगृह्याभिप्रायं प्रसाद्य सप्रातिहार्यं धर्मं देशयितुम् । न तावदहं पापीयन् परिनिर्वास्यामि यावन्मया बुद्धधर्मसंघवंशो लोकेन प्रतिष्ठापितो भविष्यति । अपरिमिता बोधिसत्त्वा न व्याकृता भविष्यन्ति ( वैद्य 275 ) अनुत्तरायां सम्यक्संबोधौ । न तावदहं पापीयान् परिनिर्वास्यामि यावन्मे न चतस्रः पर्षदो दान्ता विनीता व्यक्ता विशारदा भविष्यन्ति यावत्सप्रातिहाय धर्मं देशयितुमिति ॥
अथ खलु मारः पापीयानिदं वचनं श्रुत्वा एकान्ते प्रक्राम्य स्थितो ऽभूत् दुःखी दुर्मना विप्रतिसारी अधोमुखः काष्ठेन महीं विलिखन् विषयं मे ऽतिक्रान्त इति ॥
अथ खलु तास्तिस्रो मारदुहितरो रतिश्चारतिश्च तृष्णा च मारं पापीयांसं गाथयाध्यभाषन्त -
दुर्मनासि कथं तात प्रोच्यतां यद्यसौ नरः ।
रागपाशेन तं बुद्ध्वा कुञ्जरं वा नयामहे
आनयित्वा च तं शीघ्रं करिष्याम वशे तव ।
* * * * *
मार आह -
अरहन् सुगतो लोके न रागस्य वशं व्रजेत् ।
विषयं मे ह्यतिक्रान्तस्तस्माच्छोचाम्यहं भृशम्
ततस्ताः स्त्रीचापल्यादविदितप्रभावा अपि बोधिसत्त्वभूतस्यैव तथागतस्य पितुर्वचनमश्रुत्वैव प्रभूतयौवनमध्ययौवनधारिण्यो भूत्वा विचक्षुःकर्मणे तथागतस्यान्तिकमुपसंक्रान्ताः स्त्रीमाया अति तत्सर्वमकार्षुः । ताश्च तथागतो न मनसि करोति स्म । भूयश्च ता जराजर्जरा अध्यतिष्ठन् । ततस्ताः पितुरन्तिके गत्वैवमाहुः -
सत्यं वदसि नस्तात न रागेण स नीयते ।
विषयं मे ह्यतिक्रान्तस्तस्माच्छोचाम्यहं भृशम्
वीक्षेत यद्यसौ रूपं यदस्माभिर्विनिर्मितम् ।
गौतमस्य विनाशार्थं ततो ऽस्य हृदयं स्फुटेत्
तत्साधु नस्तातेदं जराजर्जरशरीरमन्तर्धापय ॥
मार आह -
नाहं पश्यामि तं लोके पुरुषं सचराचरे ।
बुद्धस्य यो ह्यधिष्ठानं शक्नुयात्कर्तुमन्यथा
शीघ्रं गत्वा निवेदय अत्ययं स्वकृतं मुनेः ।
सर्वं पौराणकं कायं करिष्यति यथामतम्
ततस्ता गत्वा तथागतं क्षमापयन्ति स्म - अत्ययं नो भगवान् प्रतिगृह्णातु । अत्ययं नो सुगतो प्रतिगृह्णातु यथा बालानां यथा मूढानां यथा व्यक्तानामकुशलानामक्षेत्रज्ञानां या वयं भगवन्तमासादयितव्यं मन्यामहे । ततस्तास्तथागतो गाथयाध्यभाषत -
गिरिं नखैर्विलिखेथ लोहं दन्तैर्विखादथ ।
शिरसा विभित्सथ गिरिमगाधे गाधमेषत
तस्माद्युष्माकं दारिका अत्ययं प्रतिगृह्णामि । तत्कस्मात्? वृद्धिरेषा आर्ये धर्मविनये यो ऽत्ययमत्ययतो दृष्ट्वा प्रतिदेशयत्यायत्यां च संवरमापद्यते ॥
पञ्चमे सप्ताहे भिक्षवस्तथागतो मुचिलिन्दनागराजभवने विहरति स्म सप्ताहे महादुर्दिने । अथ खलु मुचिलिन्दनागराजः स्वभवनान्निष्क्रम्य तथागतस्य काये सप्तकृद्भोगेन परिवेष्ट्य फणैश्छादयति स्म - मा भगवतः कायं शीतवाताः प्राक्षुरिति । पूर्वस्या अपि दिशो ऽन्ये ऽपि संबहुला नागराजा आगत्य तथागतस्य कायं सप्तकृद्भोगैः परिवेष्ट्य फणैश्छादयन्ति स्म - मा भगवतः कायं शीतवाताः प्राक्षुरिति । यथा पूर्वस्यां दिशि एवं दक्षिणपश्चिमोत्तराभ्यो दिग्भ्यो नागराजा आगत्य तथागतस्य कायं सप्तकृत्वो भोगैः परिवेष्ट्य फणैश्र्छादयन्ति - स्म मा भगवतः कायं शीतवाताः प्राक्षुरिति । स च नागराजभोगराशिर्मेरुपर्वतेन्द्रवदुच्चैस्त्वेन स्थितो ऽभूत् । न च तैर्नागराजैस्तादृशं कदाचित्सुखं प्राप्तं पूर्वं यादृशं तेषां तानि सप्तरात्रिंदिवसानि तथागतकायसंनिकर्षादासीत् । ततः सप्ताहस्यात्ययेन ततस्ते नागराजा व्यपगतदुर्दिनं विदित्वा तथागतस्य कायाद्भोगानपनीय तथागतस्य पादौ शिरसाभिवन्द्य त्रिप्रदक्षिणीकृत्य स्वकस्वकानि भवनान्युपजग्मुः । मुचिलिन्दो ऽपि नागराजस्तथागतस्य पादौ शिरसाभिवन्द्य त्रिप्रदक्षिणीकृत्य स्वभवनं प्राविक्षत् ॥
षष्ठे सप्ताहे तथागतो मुचिलिन्दभवनादजपालस्य न्यग्रोधमूलं गच्छति स्म । अन्तरे च मुचिलिन्दभवनस्यान्तराच्चाजपालस्य नद्या नैरञ्जनायास्तीरे चरकपरिव्राजकवृद्धश्रावकगौतमनिर्ग्रन्थाजीविकादयस्तथागतं दृष्ट्वाभिभाषन्ते स्म - अपि भगवता गौतमेनेदं सप्ताहमकालदुर्दिनं सम्यक्सुखेन व्यतिनामितम्?
अथ खलु भिक्षवस्तथागतस्तस्यां वेलायामिदमुदानयति स्म -
सुखो विवेकस्तुष्टस्य श्रुतधर्मस्य पश्यतः ।
अव्याबध्यं सुखं लोके प्राणिभूतेषु संयतः
सुखा विरागता लोके पापानां समतिक्रमः ।
अस्मिन् मानुष्यविषये एतद्वै परमं सुखम्
पश्यति स्म भिक्षवस्तथागतो लोकमादीप्तं प्रदीप्तं जात्या जरया व्याधिभिर्मरणेन शोकपरिदेवदुःखदौर्मनस्योपायासैः । तत्र तथागत इदमिहोदानमुदानयति स्म -
अयं लोकः संतापजातः शब्दस्पर्शरसरूपगन्धैः ।
भयभीतो भयं भूयो मार्गते भवतृष्णया
सप्तमे सप्ताहे तथागतो तारायणमूले विहरति स्म । तेन खलु पुनः समयेनोत्तरापथकौ द्वौ भ्रातरौ त्रपुषभल्लिकनामकौ वणिजौ पण्डितौ निपुणौ विविधपण्यं गृहीत्वा महालब्धलाभौ दक्षिणापथादुत्तरापथं गच्छेते स्म महता सार्थेन पञ्चभिर्धुरशतैः सुपरिपूर्णैः । तयोः सुजातः कीर्तिश्च नामाजानेयौ द्वौ बलीवर्दावास्ताम् । नास्ति तयोर्लग्नभयम् । यत्रान्ये बलीवर्दा न ( वैद्य 277 ) वहन्ति स्म तत्र तौ युज्येते स्म । यत्र चाग्रतो भयं भवति स्म तत्र, तौ कीलबद्धाविव तिष्ठेते स्म । न च तौ प्रतोदेन वाह्येते स्म । उत्पलहस्तकेन वा सुमनादामकेन वा तौ वाह्येते स्म । तेषां तारायणसमीपे क्षीरिकावननिवासिनीदेवताधिष्ठानात्ते शकटाः सर्वे विष्ठिता न वहन्ति स्म । वस्त्रादीनि च सर्वशकटाङ्गानि च छिद्यन्ते स्म, भिद्यन्ते च । शकटाचक्राणि च नाभीपर्यन्तं भूमौ निमग्नानि सर्वप्रयत्नैरपि ते शकटा न वहन्ति स्म । ते विस्मिता भीताश्चाभूवन् - किं नु खल्वत्र कारणम्, को ऽयं विकारो यदिमे स्थले शकटा विष्ठिताः? तैस्तौ सुजातकीर्तिबलीवर्दौ योजितौ । तावपि न वहेते स्म सोत्पलहस्तेन च सुमनादामकेन च वाह्यमानौ । तेषामेतदभवत् - असंशयं पुरतः किंचिद्भयं येनैतावपि न वहतः । तैरश्वदूताः पुरतः प्रेषिताः । अश्वदूताः प्रत्यागताः । प्राहुर्नास्ति किंचिद्भयमिति । तयापि देवतया स्वरूपं संदर्श्य आश्वासिताः - मा भेतव्यमिति । तावपि बलीवदौ येन तथागतस्तेन शकटा प्रकर्षितौ यावत्ते पश्यन्ति स्म तथागतं वैश्वानरमिव प्रदीप्तं द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतमचिरोदितमिव दिनकरं श्रिया दैदीप्यमानम् । दृष्ट्वा च ते विस्मिता बभूवुः - किं नु खल्वयं ब्रह्मा इहानुप्राप्त उताहो शक्रो देवेन्द्र उताहो वैश्रवण उताहो सूर्यचन्द्रौ वा उताहो किंचिद्गिरिदेवतं वा नदीदेवतं वा । ततस्तथागतः काषायाणि वस्त्राणि प्रकटायति स्म । ततस्ते आहुः - प्रव्रजितः खल्वयं काषायसंवृतो नास्माद्भयमस्तीति । ते प्रसादं प्रतिलब्धा अन्योन्यमेवमाहुः - प्रव्रजितः खल्वयं कालभोजी भविष्यति । अस्ति किंचित्? आहुः - अस्ति मधुतर्पणं लिखितकाश्चेक्षवः । ते मधुतर्पणमिक्षुलिखितकांश्चादाय येन तथागतस्तेनोपसंक्रामन् । उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्दित्वा त्रिप्रदक्षिणीकृत्यैकान्ते तस्थुः । एकान्ते स्थितास्ते तथागतमेवमाहुः - प्रतिगृह्णातु भगवन्निदं पिण्डपात्रमस्माकमनुकम्पामुपादाय ॥
अथ खलु भिक्षवस्तथागतस्यैतदभूअत् - साधु खल्विदं स्याद्यदहं हस्ताभ्यां प्रतिगृह्णीयाम् । कस्मिन् खलु पूर्वकैस्तथागतैः सम्यक्संबुद्धैः प्रतिगृहीतम्? पात्रेणेत्यज्ञासीत् ॥
इति हि भिक्षवस्तथागतस्य भोजनकालसमय इति विदित्वा तत्क्षणमेव चतसृभ्यो दिग्भ्यश्चत्वारो महाराजा आगत्य चत्वारि सौवर्णानि पात्राण्यादाय तथागतस्योपनामयन्ति स्म - प्रतिगृह्णातु भगवन्निमानि सौवर्णानि(चत्वारि)पात्राण्यस्माकमनुकम्पामुपादाय । तानि न श्रमणप्रतिरूपाणि इति कृत्वा तथागतो न प्रतिगृह्णीते स्म । एवं चत्वारि रूप्यमयानि चत्वारि वैडूर्यमयानि स्फटिकमयानि मुसारगल्वमयानि अश्मगर्भमयानि । ततश्चत्वारि सर्वरत्नमयानि पात्राणि गृहीत्वा तथागतस्योपनामयन्ति स्म । न श्रमणस्य सारूप्याणि इति कृत्वा तथागतो न प्रतिगृह्णीते स्म ॥
अथ खलु भिक्षवस्तथागतस्य पुनरेतदभूत् - एवं कतमद्विधैः पात्रैः पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः प्रतिगृहीतम्? शैलपात्रैरित्यज्ञासीत् । एवं च चित्तमुत्पन्नं तथागतस्य ॥
अथ खलु वैश्रवणो महाराजस्तदन्यास्त्रीन् महाराजानामन्त्रयते स्म - इमानि खलु पुनर्मार्षाश्चत्वारि शैलपात्राणि नीलकायिकैर्दवपुत्रैरस्मभ्यं दत्तानि - तत्रास्माकमेतदभूत् - एषु वयं परिभोक्ष्याम इति । ततो वैरोचनो नाम नीलकायिको देवपुत्रः सो ऽस्मानेवमाह -
म एषु भोक्ष्यथ भाजनेषु धारेतिभे चेतियसंमतीते ।
भविता जिनः शाक्यमुनीति नाम्ना तस्येति पात्राण्युपनामयेथा
अयं स कालः समयश्च मार्षा उपनामितुं शाक्यमुनेर्हि भाजना । संगीतितूर्यस्वरनादितेन दास्याम पात्राणि विधाय पूजाम्
स भाजनं धर्ममयं ह्यभेद्यं इमे च शैलामय भेद्य भाजना ।
प्रतिग्रहीतुं क्षमते न चान्यः प्रतिग्रहार्थाय व्रजाम हन्त
अथ खलु चत्वारो महाराजाः स्वस्वजनपार्षद्याः पुष्पधूपगन्धमाल्यविलेपनतूर्यताडावचरसंगीतिसंप्रभाणितेन स्वैः स्वैः पाणिभिस्तानि पात्राणि परिगृह्य येन तथागतस्तेनोपसंक्रामन् । उपसंक्रम्य तथागतस्य पूजां कृत्वा तानि पात्राणि दिव्यकुसुमप्रतिपूर्णानि तथागतायोपनामयन्ति स्म ॥
अथ खलु भिक्षवस्तथागतस्यैतदभवत् - अमी खलु पुनश्चत्वारो महाराजाः श्रद्धाः प्रसन्नाः मम चत्वारि शैलपात्राण्युपनामयन्ति । न च मे चत्वारि शैलपात्राणि कल्पन्ते । अथैकस्य प्रतिगृहीष्यामि, त्रयाणां वैमनस्यं स्यात् । यन्न्वहमिमानि चत्वारि पात्राणि प्रतिगृह्यैकं पात्रमधितिष्ठेयम् । अथ खलु भिक्षवस्तथागतो दक्षिणं पाणिं प्रसार्य वैश्रवणं महाराजं गाथयाध्यभाषत -
उपनामयस्व सुगतस्य भाजनं त्वं भेष्यसे भाजनमग्रयाने ।
अस्मद्विधेभ्यो हि प्रदाय भाजनं स्मृतिर्मतिश्चैव न जातु हीयते
अथ खलु भिक्षवस्तथागतो वैश्रवणस्य महाराजस्यान्तिकात्तत्पात्रं प्रतिगृह्णीते स्म अनुकम्पामुपादाय । प्रतिगृह्य च धृतराष्ट्रं महाराजं गाथयाध्यभाषत -
यो भाजनं देति तथागतस्य न तस्य जातु स्मृति प्रज्ञ हीयते ।
अतिनाम्य कालं च सुखंसुखेन यावत्पदं बुध्यति शीतिभावम्
अथ खलु भिक्षवस्तथागतो धृतराष्ट्रस्य महाराजस्यान्तिकात्तत्पात्रं प्रतिगृह्णीते स्म अनुकम्पामुपादाय । प्रतिगृह्य च विरूढकं महाराजं गाथयाध्यभाषत -
ददासि यस्त्वं परिशुद्धभाजनं विशुद्धचित्ताय तथागताय ।
भविष्यसि त्वं लघु शुद्धचित्तः प्रशंसितो देवमनुष्यलोके
अथ खलु भिक्षवस्तथागतो विरूढकस्य महाराजस्यान्तिकात्तत्पात्रं प्रतिगृह्णीते स्म अनुकम्पामुपादाय । प्रतिगृह्य च विरूपाक्षं महाराजं गाथयाध्यभाषत -
अच्छिद्रशीलस्य तथागतस्य अच्छिद्रवृत्तस्य अच्छिद्रभाजनम् ।
अच्छिद्रचित्तः प्रददासि श्रद्धया अच्छिद्र ते भेष्यति पुण्यदक्षिणा
प्रतिगृह्णीते स्म भिक्षवस्तथागतो विरूपाक्षस्य महाराजस्यान्तिकात्तत्पात्रं अनुकम्पामुपादाय । प्रतिगृह्य चैकं पात्रमधितिष्ठति स्म अधिमुक्तिबलेन । तस्यां च वेलायामिदमुदानमुदानयति स्म -
दत्तानि पात्राणि पुरे भवे मया फलपूरिता प्रेमणिया च कृत्वा ।
तेनेमि पात्राश्चतुरः सुसंस्थिता ददन्ति देवाश्चतुरो महर्द्धिकाः
तत्रेदमुच्यते ।
स सप्तरात्रं वरबोधिवृक्षं संप्रेक्ष्य धीरः परमार्थदर्शी ।
षड्भिः प्रकारैः प्रविकम्प्य चोर्वी अभुत्थितः सिंहगतिर्नृसिंहः
समन्त नागेन्द्रविलम्बगामी क्रमेण तारायणमूलमेत्य ।
उपाविशन्मेरुवदप्रकम्प्यो ध्यानं समाधिं च मुनिः प्रदध्यौ
तस्मिंश्च काले त्रपुषश्च भल्लिको भ्रातृद्वयं वणिजगणेन सार्धम् ।
शकटानि ते पञ्च धनेन पूर्णा संपुष्पिते सालवने प्रविष्टाः
महर्षितेजेन च अक्षमात्रं चक्राणि भूमौ विविशुः क्षणेन ।
तां तादृशीं प्रेक्ष्य च ते अवस्थां महद्भयं वणिजगणस्य जातम्
ते खड्गहस्ताः शरशक्तिपाणयो वने मृगं वा मृगयन् क एषः ।
वीक्षन्त ते शारदचन्द्रवक्त्रं जिनं सहस्रांशुमिवाभ्रमुक्तम्
प्रहीनकोपा अपनीतदर्पाः प्रणम्य मूर्ध्ना विमृषुः क एषः ।
नभस्तलाद्देवत वाच भाषते बुद्धो ह्ययं लोकहितार्थकारी
रात्रिंदिवा सप्त न चान्नपानं अनेन भुक्तं करुणात्मकेन ।
यदिच्छथा आत्मन क्लेशशान्तिं भोजेथिमं भावितकायचित्तम्
शब्दं च ते तं मधुरं निशाम्य वन्दित्व कृत्वा च जिनं प्रदक्षिणम् ।
प्रीतास्ततस्ते सहितैः सहायैः जिनस्य पिण्डाय मतिं प्रचक्रुः
तेन खलु भिक्षवः समयेन त्रपुषभल्लिकानां वणिजां प्रत्यन्तकर्वटे गोयूथं प्रतिवसति स्म । अथ ता गावस्तस्मिन् काले तस्मिन् समये सर्पिमण्डं प्रदुग्धा अभूवन् । अथ गोपालास्तत्सर्पिमण्डमादाय येन त्रपुषभल्लिकौ वणिजौ तेनोपसंक्रामन् । उपसंक्रम्येमां प्रकृतिमारोचयन्ति स्म - यत्खलु यूयं भट्टा जानीयात - सर्वास्ता गावः सर्पिमण्डं प्रदुग्धाः । तत्किमेतत्प्रशस्तमाहोस्विन्नेति?
तत्र लोलुपजात्या ब्राह्मणा एवमाहुः - अमङ्गल्यमेतद्बाह्मणानाम् । महायज्ञो यष्टव्य इति ॥
तेन खलु पुनर्भिक्षवः समयेन त्रपुषभल्लिकानां वणिजां शिखण्डी नाम ब्राह्मणः पूर्वजातिसालोहितो ब्रह्मलोके प्रत्याजातो ऽभूत् । स ब्राह्मणरूपमभिनिर्माय तान् वणिजो गाथाभिरध्यभाषत -
युष्माकं प्रणिधिः पूर्वे बोधिप्राप्तस्तथागतः ।
अस्माकं भोजनं भुक्त्वा धर्मचक्रं प्रवर्तयेत्
स चैष प्रणिधिः पूर्णो बोधिप्राप्तस्तथागतः ।
आहारमुपनाम्येत भुक्त्वा चक्रं प्रवर्तयेत्
सुमङ्गलं सुनक्षत्रं गवां वः सर्पिदोहनम् ।
पुण्यकर्मणस्तस्यैष अनुभावो महर्षिणः
एवं संचोद्य वणिजः शिखण्डी भवनं गतः ।
उदग्रमनसः सर्वे बभुवुस्त्रपुषाह्वयाः
क्षीरं यदासीच्च हि गोसहस्रा अशेषतस्तं समुदानयित्वा ।
अग्रं च तस्मात्परिगृह्य ओजः साधेंसु ते भोजन गौरवेण
शतं सहस्रैकपलस्य मूल्यं या रत्नपात्री अभु चन्द्रनामिका ।
चौक्षां सुधौतां विमलां च कृत्वा समतीर्थिकां पूरिषु भोजनेन
मधुं गृहीत्वा तथ रत्नपात्रीं तारायणीमूलमुपेत्य शास्तुः ।
प्रतिगृह्ण भक्ते अनुगृह्ण चास्मान् इदं प्रणीतं परिभुङ्क्ष्व भोज्यम्
अनुकम्पनार्थाय उभौ च भ्रातृणां पूर्वाशयं ज्ञात्व च बोधिप्रस्थितौ ।
प्रतिगृहीत्वा परिभुञ्जि शास्ता भुक्त्वा क्षिपी पात्रि नभस्तलेस्मिं
सुब्रह्मनामा च हि देवराजो जग्राह यस्तां वररत्नपात्रीम् ।
अधुनाप्यसौ तां खलु ब्रह्मलोके संपूजयत्यन्यसुरैः सहायः
अथ खलु तथागतस्तस्यां वेलायां तेषां त्रपुषभल्लिकानां वणिजानामिमां संहर्षणामकार्षीत् -
दिशां स्वस्तिकरं दिव्यं मङ्गल्यं चार्थसाधकम् ।
अर्था वः शासतां सर्वे भवत्वाशु प्रदक्षिणा
श्रीर्वो ऽस्तु दक्षिणे हस्ते श्रीर्वो वामे प्रतिष्ठिता ।
श्रीर्वो ऽस्तु सर्वसाङ्गेषु मालेव शिरसि स्थिता
धनैषिणां प्रयातानां वणिजां वै दिशो दश ।
उत्पद्यन्तां महालाभास्ते च सन्तु सुखोदयाः
कार्येण केनचिद्येन गच्छथा पूर्विकां दिशम् ।
नक्षत्राणि वः पालेन्तु ये तस्यां दिशि संस्थिता
कृत्तिका रोहिणी चैव मृगशिरार्द्रा पुनर्वसुः ।
पुष्यश्चैव तथाश्लेषा इत्येषां पूर्विकादिशाम्
इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः ।
अधिष्ठिता पूर्वभागे देवा रक्षन्तु सर्वतः
तेषां चाधिपती राजा धृतराष्ट्रेति विश्रुतः ।
स सर्वगन्धर्वपतिः सूर्येण सह रक्षतु
पुत्रा पि तस्य बहव एकनामा विचक्षणाः ।
अशीतिर्दश चैकश्च इन्द्रनामा महाबला ।
ते ऽपि व अधिपालेन्तु आरोग्येन शिवेन च
पूर्वस्मिन् वै दिशो भागे अष्टौ देवकुमारिकाः ।
जयन्ती विजयन्ती च सिद्धार्था अपराजिता
नन्दोत्तरा नन्दिसेना नन्दिनी नन्दवर्धनी ।
ता पि व अधिपालेन्तु आरोग्येन शिवेन च
पूर्वस्मिन् वै दिशो भागे चापालं नाम चेतियम् ।
अवुस्तं जिनेभि ज्ञातमर्हन्तेभि च तायिभिः ।
ते ऽपि व अधिपालेन्तु आरोग्येन शिवेन च
क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत् ।
लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः
येन केनचित्कृत्येन गच्छेथा दक्षिणां दिशम् ।
नक्षत्राणि वः पालेन्तु ये तां दिशमधिष्ठिता
मघा च द्वौ च फाल्गुन्यौ हस्ता चित्रा च पञ्चमी ।
स्वातिश्चैव विशाखा च एतेषां दक्षिणा दिशा
इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः ।
आदिष्टा दक्षिणे भागे ते वो रक्षन्तु सर्वतः
तेषां चाधिपती राजा विरूढक इति स्मृतः ।
सर्वकुम्भाण्डाधिपतिर्यमेन सह रक्षतु
पुत्रा पि तस्य बहव एकनामा विचक्षणाः ।
अशीतिर्दश चैकश्च इन्द्रनामा महाबलाः ।
ते ऽपि व अधिपालेन्तु आरोग्येन शिवेन च
दक्षिणे ऽस्मिन् दिशो भागे अष्टौ देवकुमारिकाः ।
श्रियामती यशमती यशप्राप्ता यशोधरा
सुउत्थिता सुप्रथमा सुप्रबुद्धा सुखावहा ।
ता पि व अधिपालेन्तु आरोग्येन शिवेन च
दक्षिणे ऽस्मिन् दिशो भागे पद्मनामेन चेतिकम् ।
नित्यं ज्वलिततेजेन दिव्यं सर्वप्रकाशितम् ।
ते ऽपि व अधिपालेन्तु आरोग्येन शिवेन च
क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत् ।
लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः
येन केनचित्कृत्येन गच्छेथा पश्चिमां दिशम् ।
नक्षत्राणि वः पालेन्तु ये तां दिशमधिष्ठिता
अनुराधा च जेष्ठा च मूला च दृढवीर्यता ।
द्वावाषाढे अभिजिच्च श्रवणो भवति सप्तमः
इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः ।
आदिष्टा पश्चिमे भागे ते वो रक्षन्तु सर्वदा
तेषां चाधिपती राजा विरूपाक्षेति तं विदुः ।
स सर्वनागाधिपतिर्वरूणेन सह रक्षतु
पुत्रा पि तस्य बहवः एकनामा विचक्षणाः ।
अशीतिर्दश चैकश्च इन्द्रनामा महाबलाः ।
ते ऽपि व अधिपालेन्तु आरोग्येन शिवेन च
पश्चिमे ऽस्मिन् दिशो भागे अष्टौ देवकुमारिकाः
अलम्बुशा मिश्रकेशी पुण्डरीका तथारुणा
एकादशा नवमिका शीता कृष्णा च द्रौपदी ।
ता पि व अधिपालेन्तु आरोग्येन शिवेन च
पश्चिमे ऽस्मिन् दिशो भागे अष्टङ्गो नाम पर्वतः ।
प्रतिष्ठा चन्द्रसूर्याणां अष्टमर्थं ददातु वः ।
सो ऽपि व अधिपालेतु आरोग्येन शिवेन च
क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत् ।
लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः
येन केनचित्कृत्येन गच्छेथा उत्तरां दिशम् ।
नक्षत्राणि वः पालेन्तु ये तां दिशमधिष्ठिता
धनिष्ठा शतभिषा चैव द्वे च पुर्वोत्तरापरे ।
रवती अश्विनी चैव भरणी भवती सप्तमी
इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः ।
आदिष्टा उत्तरे भागे ते वो रक्षन्तु सर्वदा
तेषां चाधिपती राजा कुबेरो नरवाहनः ।
सर्वयक्षाणामधिपतिर्माणिभद्रेण सह रक्षतु
पुत्रा पि तस्य बहव एकनामा विचक्षणाः ।
अशीतिर्दश चैकश्च इन्द्रनामा महाबलाः ।
ते पि व अधिपालेन्तु आरोग्येन शिवेन च
उत्तरे ऽस्मिन् दिशो भागे अष्टौ देवकुमारिकाः ।
इलादेवी सुरादेवी पृथ्वी पद्मावती तथा
उपस्थिता महाराजा आशा श्रद्धा हिरी शिरी ।
ता पि व अधिपालेन्तु आरोग्येन शिवेन च
उत्तरे ऽस्मिन् दिशो भागे पर्वतो गन्धमादनः ।
आवासो यक्षभूतानां चित्रकूटः सुदर्शनः ।
ते ऽपि व अधिपालेन्तु आरोग्येन शिवेन च
क्षेमाश्च वो दिशः सन्तु मा च वः पापमागमत् ।
लब्धार्थाश्च निवर्तध्वं सर्वदेवेभि रक्षिताः
अष्टाविंशति नक्षत्रा सप्त सप्त चतुर्दिशम् ।
द्वात्रिंशद्देवकन्याश्च अष्टावष्टौ चतुर्दिशम्
अष्टौ श्रमणा (चाष्टौ) ब्राह्मणा(अष्टौ) जनपदेषु नैगमाः ।
अष्टौ देवाः सैन्द्रकास्ते वो रक्षन्तु सर्वतः
स्वस्ति वो गच्छतां भोतु स्वस्ति भोतु निवर्तताम् ।
स्वस्ति पश्यत वै ज्ञातिं स्वस्ति पश्यन्तु ज्ञातयः
सेन्द्रा यक्षा महाराजा अर्हन्तमनुकम्पिताः ।
सर्वत्र स्वस्ति गच्छध्वं प्राप्स्यध्वममृतं शिवम्
संरक्षिता ब्राह्मण वासवेन विमुक्तिचित्तैश्च अनाश्रवैश्च ।
नागैश्च यक्षैश्च सदानुकम्पिताः पालेथ आयुः शरदां शतं समम्
प्रदक्षिणां दक्षिणलोकनाथः तेषां दिशैष ऽप्रतिमो विनायकः ।
अनेन यूयं कुशलेन कर्मणा मधुसंभवा नाम जिना भविष्यथ
प्रथमादिदं लोकविनायकस्य असङ्गतो व्याकरणं जिनस्य ।
पश्चादनन्ता बहुबोधिसत्त्वा ये व्याकृता बोधयि नो विवर्त्याः
श्रुत्वा इमं व्याकरणं जिनस्य उदग्रचित्ता परमाय प्रीत्या ।
तौ भ्रातरौ सार्धं सहायकैस्तैः बुद्धं च धर्मं शरण प्रपन्नाः
मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0