भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 25

25.1

इति ॥
॥ इति श्रीललितविस्तरे त्रपुषभल्लिकपरिवर्तो नाम चतुर्विंशतितमो ऽध्यायः ॥
स्तर्त् परिवर्त 25
अध्येषणापरिवर्तः पञ्चविंशः ।
इति हि भिक्षवस्तथागतस्य तारायणमूले विहरतः प्रथमाभिसंबुद्धस्यैकस्य रहोगतस्य प्रतिसंलीनस्य लोकानुवर्तनां प्रत्येतदभवत् - गम्भीरो बतायं मया धर्मो ऽधिगतो ऽभिसंबुद्धः शान्तः प्रशान्त उपशान्तः प्रणीतो दुर्दृशो दुरनुबोधो ऽतर्को ऽवितर्कावचरः । अलमार्यः पण्डितविज्ञवेदनीयो यदुत सर्वोपधिनिःसर्गो ऽवेदितो ऽनिवेदितः सर्ववेदितनिरोधः परमार्थो ऽनालयः । शीतीभावो ऽनादानो ऽनुपादानो ऽविज्ञप्तो ऽविज्ञापनीयो ऽसंस्कृतः षड्विषयसमतिक्रान्तः । अकल्पो ऽविकल्पो ऽनभिलाप्यः । अरुतो ऽघोषो ऽनुदाहारः । अनिदर्शनो ऽप्रतिघः सर्वालम्बनसमतिकान्तः शमथधर्मोपच्छेदः । शून्यतानुपलम्भः । तृष्णाक्षयो विरागो निरोधो निर्वाणम् । अहं चेदिमं परेभ्यो धर्मं देशयेयम्, ते चेन्नाजानीयुः, स मे स्यात्क्लमथो मिथ्याव्यायामो ऽक्षणधर्मदेशनता च । यन्न्वहमल्पोत्सुकस्तूष्णीभावेन विहरेयम् । तस्यां च वेलायामिमां गाथामभाषत -
गम्भीर शान्तो विरजः प्रभास्वरः प्राप्तो मि धर्मो ह्यमृतो ऽसंस्कृतः ।
देशेय चाहं न परस्य जाने यन्नून तूष्णी पवने वसेयम्

25.2

अपगतगिरिवाक्पथो ह्यलिप्तो यथ गगनं तथा स्वभावधर्मम् ।
चित्तमन विचारविप्रमुक्तं परमसुआश्चरियं परो विजाने

25.3

न च पुनरयु शक्य अक्षरेभिः प्रविशतु अनर्थयोगविप्रवेशः ।
पुरिमजिनकृताधिकारसत्त्वाः ते इमु श्रुणित्व हि धर्मु श्रद्दधन्ति

25.4

न च पुनरिह कश्चिदस्ति धर्मः सो पि न विद्यते यस्य नास्तिभावाः ।
हेतुक्रियपरंपरा य जाने तस्य न भोतिह अस्तिनास्तिभावाः

25.5

कल्पशतसहस्र अप्रमेया अहु चरितः पुरिमे जिनसकाशे ।
न च मय प्रतिलब्ध एष क्षान्ती यत्र न आत्म न सत्त्व नैव जीवः

25.6

यद मय प्रतिलब्ध एष क्षान्ती म्रियति न चेह न कश्चि जायते वा ।
प्रकृति इमि निरात्म सर्वधर्माः तद मां व्याकरि बुद्ध दीपनामा

25.7

करुण मम अनन्त सर्वलोके परतु न चार्थनतामहं प्रतीक्षे ।
यद पुन जनता प्रसन्न ब्रह्मे तेन अधीष्टु प्रवर्तयिष्य चक्रम्

25.8

एव च अयु धर्म ग्राह्यु मे स्यात् सचि मम ब्रह्म क्रमे निपत्य याचेत् ।
प्रवदहि विरजा प्रणीतु धर्मं सन्ति विजानक सत्त्व स्वाकराश्च

25.9

इति हि भिक्षवस्तथागतस्तस्मिन् समये ऊर्णाकोशात्प्रभामुत्सृजति स्म यया प्रभया त्रिसाहस्रमहासाहस्रो लोकधातुर्महता सुवर्णवर्णावभासेन स्फुटो ऽभूत् ॥
अथ खलु दशत्रिसाहस्रमहासाहस्राधिपतिः शिखी महाब्रह्मा बुद्धानुभावेनैव तथागतस्य चेतसैव चेतःपरिवितर्कमाज्ञासीत् - अल्पोत्सुकतायै भगवतश्चित्तमभिनतं न धर्मदेशनायामिति । तस्यैतदभवत् - यन्न्वहमुपसंक्रम्य तथागतमध्येष्येयं धर्मचक्रप्रवर्तनतायै ॥
अथ खलु शिखी महाब्रह्मा तस्यां वेलायां तदन्यान् ब्रह्मकायिकान् देवपुत्रानामन्त्रयते स्म - नश्यति बतायं मार्षा लोको विनश्यति, यत्र हि नाम तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्याल्पोत्सुकतायै चित्तमभिनामयति न धर्मदेशनायाम् । यन्नु वयमुपसंक्रम्य तथागतमर्हन्तं सम्यक्संबुद्धमध्येष्येमहि धर्मचक्रप्रवर्तनाय ॥
अथ खलु भिक्षवः शिखी महाब्रह्मा अष्टषष्ट्या ब्राह्मणशतसहस्रैः परिवृतः पुरस्कृतो येन तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्य प्राञ्जलिस्तथागतमेतदवोचत् नश्यति बतायं भगवन् लोकः, प्रणश्यति बतायं भगवन् लोकः, यत्र हि नाम तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्याल्पोत्सुकतायै चित्तमभिनामयति न धर्मदेशनायाम् । तत्साधु देशयतु ( वैद्य 288 ) भगवान् धर्मम्, देशयतु सुगतो धर्मम् । सन्ति सत्त्वाः स्वाकाराः सुविज्ञापकाः शक्ता भव्याः प्रतिबलाः भगवतो भाषितस्यार्थमाज्ञातुम् । तस्यां च वेलायामिमां गाथामभाषत -
समुदानिय ज्ञानमहाग्रमण्डलं विसृज्य रश्मीन् दशदिक्षु चैव ।
तदञ्ज ज्ञानांशु नृपद्मबोधका उपेक्षकस्तिष्ठसि वादिभास्करः

25.10

निमन्त्रयित्वार्यधनेन सत्त्वां आश्वासयित्वा बहुप्राणकोट्यः ।
न युक्तमेतत्तव लोकबन्धो यं तूष्णिभावेन उपेक्षसे जगत्

25.11

पराहनस्वोत्तमधर्मदुन्दुभिं सद्धर्मशङ्खं च प्रपूरयाशु ।
उच्छ्रेपयस्व महधर्मयूपं प्रज्वालयस्व महधर्मदीपम्

25.12

प्रवर्ष वै धर्मजलं प्रधानं प्रतारयेमां भवसागरस्थां ।
प्रमोचयेमां महव्याधिक्लिष्टां क्लेशाग्नितप्ते प्रशमं कुरुष्व

25.13

निदर्शय त्वं खलु शान्तिमार्गं क्षेमं शिवं निर्जरतामशोकम् ।
निर्वाणमार्गागमनादनाथे विपथस्थिते नाथ कृपां कुरुष्व

25.14

विमोक्षद्वाराणि अपावृणिष्व प्रचक्ष्व तं धर्मनयं ह्यकोप्यम् ।
जात्यन्धभूतस्य जनस्य नाथ त्वमुत्तमं शोधय धर्मचक्षुः

25.15

न ब्रह्मलोके न च देवलोके न यक्षगन्धर्वमनुष्यलोके ।
लोकस्य यो जातिजरापनेता नान्यो ऽस्ति त्वत्तो हि मनुष्यचन्द्रः

25.16

अध्येषको ऽहं तव धर्मराज अध्याचराकृत्वन सर्वदेवान् ।
अनेन पुण्येन अहं पि क्षिप्रं प्रवर्तयेयं वरधर्मचक्रम्

25.17

अधिवासयति स्म भिक्षवस्तथागतः शिखिनो ब्रह्मणस्तूष्णीभावेन सदेवमानुषासुरस्य लोकस्यानुग्रहार्थमनुकम्पामुपादाय ॥
अथ खलु शिखी महाब्रह्मा तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा दिव्यैश्चन्दनचूर्णैरगुरुचूर्णैश्च तथागतमभ्यवकीर्य प्रीतिप्रामोद्यजातस्तत्रैवान्तरधात् ॥
अथ खलु भिक्षवस्तथागतस्य धर्मालोकस्यादरोत्पादनार्थं शिखिनश्च महाब्रह्मणः पुनः पुनस्तथागताध्येषणया कुशलमूलविवृद्ध्यर्थं धर्मस्य चातिगम्भीरोदारतामुपादाय पुनरप्येकस्य रहोगतस्य प्रतिसंलीनस्यायमेवंरूपं चेतोवितर्को ऽभूत् - गम्भीरः खल्वयं मया धर्मो ऽभिसंबुद्धः सूक्ष्मो निपुणो दुरनुबोधः अतर्को ऽतर्कावचरः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको दुर्दृशः सर्वोपधिनिःसर्गः सर्वसंस्कारोपशमः सर्वतमोपच्छेदः शून्यतानुपलम्भस्तृष्णाक्षयो विरागो निरोधो निर्वाणम् । अहं चेदिदं धर्मं देशयेयम्, परे च मे न विभावयेयुः, सा मे परमा विहेठा भवेत् । यन्न्वहमल्पोत्सुकविहारेणैव विहरेयम् ॥
अथ खलु भिक्षवः शिखी महाब्रह्मा बुद्धानुभावेन पुनरपि तथागतस्येतदमेवंरूपेण चेतः - परिवितर्कमाज्ञाय येन शक्रो देवानामिन्द्रस्तेनोपसंक्रामत् । उपसंक्रम्य शक्रं देवानामिन्द्रमेतदवोचत् - यत्खलु कौशिक जानीयास्तथागतस्यार्हतः सम्यक्संबुद्धस्याल्पोत्सुकतायै चित्तं नतं न धर्मदेशनायाम् । नक्ष्यते बतायं कौशिक लोकः, विनक्ष्यते बतायं कौशिक लोकः, महाविद्यान्धकारक्षिप्तो बतायं कौशिक लोको भविष्यति, यत्र हि नाम तथागतस्यार्हतः सम्यक्संबुद्धस्याल्पोत्सुकतायै चित्तं नतं न धर्मसंप्रकाशनायाम् । कस्माद्वयं न गच्छामस्तथागतमर्हन्तं सम्यक्संबुद्धं धर्मचक्रप्रवर्तनायाध्येषितुम्? तत्कस्मात्? न ह्यनध्येषितास्तथागता धर्मचक्रं प्रवर्तयन्ति । साधु मार्षेति शक्रो ब्रह्मा भौमाश्च देवा अन्तरीक्षाश्चातुर्महाराजकायिकास्त्रायत्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका आभास्वरा बृहत्फला शुभकृत्स्ना संबहुलानि च शुद्धावासकायिक देवपुत्रशतसहस्राण्यतिक्रान्तवर्णा अतिक्रान्तायां रात्रौ केवलं तारायणमूलं दिव्येन वर्णेन दिव्येनावभासेनावभास्य येन तथागतस्तेनोपसंक्रामन् । उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्य प्रदक्षिणीकृत्य चैकान्ते तस्थुः ॥
अथ खलु शक्रो देवानामिन्द्रो येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथयाभितुष्टाव -
उत्तिष्ठ विजितसंग्राम प्रज्ञाकारा तिमिस्रा विवर लोके ।
चित्तं हि ते विमुक्तं शशिरिव पूर्णो ग्रहविमुक्तः

25.18

एवमुक्ते तथागतस्तूष्णीमेवास्थात् ॥
अथ खलु शिखी महाब्रह्मा शक्रं देवानामिन्द्रमेतदवोचत् - नैव कौशिक तथागता अर्हन्तः सम्यक्संबुद्धा अध्येष्यन्ते धर्मचक्रप्रवर्तनतायै यथा त्वमध्येषसे ॥
अथ खलु शिखी महाब्रह्मा एकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथयाध्यभाषत -
उत्तिष्ठ विजितसंग्राम प्रज्ञाकारा तिमिस्रा विवर लोके ।
देशय त्वं मुने धर्मं आज्ञातारो भविष्यन्ति

25.19

एवमुक्ते भिक्षवस्तथागतः शिखिनं महाब्रह्माणमेतदवोचत् - गम्भीरः खल्वयं महाब्रह्मन् मया धर्मो ऽभिसंबुद्धः सूक्ष्मो निपुणः पेयालं यावत्सा मे स्यात्परमा विहेठा । अपि च मे ब्रह्मन्निमे गाथे ऽभीक्ष्णं प्रतिभासः -
प्रतिस्रोतगामि मार्गो गम्भीरो दुर्दृशो मम ।
न तं द्रक्ष्यन्ति रागान्धा अलं तस्मात्प्रकाशितुम्

25.20

अनुस्रोतं प्रवाह्यन्ते कामेषु पतिता प्रजाः ।
कृच्छ्रेण मे ऽयं संप्राप्तं अलं तस्मात्प्रकाशितुम्

25.21

अथ खलु भिक्षवः शिखी महाब्रह्मा शक्रश्च देवानामिन्द्रस्तथागतं तूष्णीभूतं विदित्वा सार्धं तैर्देवपुत्रैर्दुःखिता दुर्मनास्तत्रैवान्तरधायिषुः ॥
त्रिरपि च तथागतस्याल्पोत्सुकतायै चित्तं नमयति स्म ॥
तेन खलु पुनर्भिक्षवः समयेन मागधकानां मनुष्याणामिमान्येवंरूपाणि पापकानि अकुशलानि दृष्टिगतान्युत्पन्नान्यभूवन् । तद्यथा । केचिदेवमाहुः - वाता न वास्यन्ति । केचिदेवमाहुः - अग्निर्न ज्वलिष्यति । केचिदाहुः - देवो न वर्षिष्यति । केचिदाहुः - नद्यो न वह्यन्ति । केचिदाहुः - शस्यानि न प्रजास्यन्ति । केचिदाहु - पक्षिण आकाशे न क्रमिष्यन्ति । केचिदाहुः - गुर्विण्यो नारोग्येण प्रसविष्यन्ति ॥
अथ खलु भिक्षवः शिखी महाब्रह्मा तथागतस्यैवमेवंरूपं चित्तवितर्कमाज्ञाय मागधकानां च मनुष्याणामिमानि दृष्टिगतानि विदित्वा अतिक्रान्तायां रात्रावभिसंक्रान्तेन वर्णेन सर्वावन्तं तारायणमूलं दिव्येनावभासेनावभास्य येन तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्यैकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथाभिरध्यभाषत -
वादो बभूव समलैर्विचिन्तितो धर्मो ऽविशुद्धो मगधेषु पूर्वम् ।
अमृतं मुने तद्विवृणीष्व द्वारं शृण्वन्ति धर्मं विमलेन बुद्धम्

25.22

कृतस्वकार्थो ऽसि भुजिष्यतां गतो दुःखाभिसंस्कारमलापकृष्टः ।
न हानिवृद्धी कुशलस्य ते ऽस्ति त्वमग्रधर्मेष्विह पारमिं गतः

25.23

न ते मुने सदृश इहास्ति लोके कुतो ऽधिकः स्यादिह ते महर्षे ।
भवानिहाग्रस्त्रिभवे विरोचते गिरिर्यथा ऽसावसुरालयस्थः

25.24

महाकृपां जानय दुःखिते जने न त्वादृशा जातु भवन्त्युपेक्षकाः ।
भवान् विशारद्यबलैः समन्वितः त्वमेव शक्तो जनतां प्रतारितुम्

25.25

इयं सुशल्या सुचिरातुरा प्रजा सदेवका सश्रमणा द्विजाखिला ।
आरोगिनी भोतु निरातुरज्वरा न चापरः शरणमिहास्य विद्यते

25.26

चिरानुबद्धास्तव देवमानुषाः कल्याणचित्ता अमृतार्थिनश्च ।
धर्मं यमेवाधिगमिष्यते जिनो यथावदन्यूनमुदाहरिष्यति

25.27

तस्माद्धिया चामिसु विक्रम त्वां विनयस्व सत्त्वां चिरनष्टमार्गां ।
अविश्रुतार्था शमनाय काङ्क्षिताः सुदुर्बला बृंहणकाङ्क्षिणो वा

25.28

इयं तृषार्ता जनता महामुने उदीक्षते धर्मजलं तवान्तिके ।
मेघो यथा संतृषितां वसुंधरां कुरु तर्पणां नायक धर्मवृष्ट्या

25.29

चिरप्रणष्टा विचरन्ति मानवा भवे कुदृष्टीगहने सकण्टके ।
अकण्टकं मार्गमृजुं प्रचक्ष्व तं यं भावयित्वा ह्यमृतं लभेयम्

25.30

अन्धाप्रपाते पतिता ह्यनायका नोद्धर्तुमन्यैरिह शक्यमेते ।
महाप्रपाते पतितां समुद्धर छन्दं समुत्पाद्य वृषो ऽसि बुद्धिमान्

25.31

न संगतिस्ते ऽस्ति सदा मुने चिरं कदाचिदौदुम्बरपुष्पसंनिभाः ।
जिनाः पृथिव्यां प्रभवन्ति नायकाः प्राप्ताक्षणो मोचय नाथ सत्त्वां

25.32

अभूच्च ते पूर्वभवेष्वियं मतिः तीर्णः स्वयं तारयिता भवेयम् ।
असंशयं पारगतो ऽसि सांप्रतं सत्यां प्रतिज्ञां कुरु सत्यविक्रमः

25.33

धर्मोल्कया विधम मुने ऽन्धकारा उच्छ्रेपय त्वं हि तथागतध्वजम् ।
अयं स कालः प्रतिलाभ्युदीरणे मृगाधिपो वा नद दुन्दुभिस्वरः

25.34

अथ खलु भिक्षवस्तथागतः सर्वावन्तं लोकं बुद्धचक्षुषा व्यवलोकयन् सत्त्वान् पश्यति स्म हीनमध्यप्रणीतानुच्चनीचमध्यमान् स्वाकारान् सुविशोधकान् दुराकारान् दुर्विशोधकानुद्धाटितज्ञानविपञ्चिज्ञान् पदपरमांस्त्रीन् सत्त्वराशीनेकं मिथ्यत्वनियतमेकं सम्यक्त्वनियतमेकमनियतम् । तद्यथापि नाम भिक्षवः पुरुषः पुष्करिण्यास्तीरे स्थितः पश्यति जलरुहाणि कानिचिदुदकान्तर्गतानि कानिचिदुदकसमानि कानिचिदुदकाभ्युद्गतानि, एवमेव भिक्षवस्तथागतः सर्वावन्तं लोकं बुद्धचक्षुषा व्यवलोकयन् पश्यति स्म सत्त्वांस्त्रिषु राशिषु व्यवस्थितान् ॥
अथ खलु भिक्षवस्तथागतस्यैतदभवत् - देशयेयं चाहं धर्मं न वा देशयेयम् । स एष मिथ्यत्वनियतो राशिर्नैवायं धर्ममाजानीयात् । देशयेयं चाहं वा धर्मं न वा देशयेयम् । यो ऽयं सम्यक्त्वनियतो राशिराज्ञास्यत्येवैष धर्मम् । (यत्खलु पुनरयमनियतो राशिराज्ञास्यत्येवैष धर्मम् । ) यत्खलु पुनरयमनियतो राशिः, तस्मै सचेद्धर्मं देशयिष्यामि, आज्ञास्यति । उत न देशयिष्यामि, नाज्ञास्यते ॥
अथ खलु भिक्षवस्तथागतो ऽनियतराशिव्यवस्थितान् सत्त्वानारभ्य महाकरुणामवक्रामयति स्म ॥
अथ खलु तथागत आत्मनश्चेमं सम्यग्ज्ञानमधिकृत्य शिखिनश्च महाब्रह्मणो ऽध्येषणां विदित्वा शिखिनं महाब्रह्माणं गाथाभिरध्यभाषत -
अपावृतास्तेषाममृतस्य द्वारा ब्रह्मन् ति सततं ये श्रोतवन्तः ।
प्रविशन्ति श्रद्धा नविहेठसंज्ञाः शृण्वन्ति धर्मं मगधेषु सत्त्वाः

25.35

अथ खलु शिखी महाब्रह्मा तथागतस्याधिवासनां विदित्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तथागतस्य पादौ शिरसा वन्दित्वा तत्रैवान्तरधात् ॥
अथ खलु भिक्षवो भौमा देवास्तस्यां वेलायामन्तरीक्षेभ्यो देवेभ्यो घोषमुदीरयन्ति स्म, शब्दमनुश्रावयन्ति स्म - अद्य मार्षा तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रप्रवर्तनायै प्रतिश्रुतम् । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । परिहास्यन्ते बत भो मार्षा असुराः कायाः । दिव्याः कायाः परिपूरिं गभिष्यन्ति । बहवश्च सत्त्वा लोके परिनिर्वास्यन्ति । एवमेवान्तरीक्षा देवा भौमेभ्यो देवेभ्यः प्रतिश्रत्य चातुर्महाराजिकानां देवानां घोषमुदीरयन्ति स्म । चातुर्महाराजिकास्त्रायत्रिंशानाम्, त्रायत्रिंशा यामानाम्, यामा तुषितनिर्माणरतीनाम्, निर्माणरतयः परनिर्मितवशवर्तिनाम्, ते ऽपि ब्रह्मकायिकानां देवानां घोषमुदीरयन्ति स्म, शब्दमनुश्रावयन्ति स्म - अद्य मार्षास्तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रप्रवर्तनायै प्रतिश्रुतम् । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । परिहास्यन्ते बत भो मार्षा असुराः कायाः । दिव्याः काया विवर्धिष्यन्ते । बहवश्च सत्त्वा लोके परिनिर्वास्यन्तीते ॥
इति हि भिक्षवस्तत्क्षणं तन्मुहुर्तं तल्लवं यावद्बह्मकायिका देवास्तस्माद्भौमादारभ्य एकवागेकनिर्नाद एकनिर्घोषो ऽभ्युद्गतो ऽभूत् - अद्य मार्षास्तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रप्रवर्तनायै प्रतिश्रुतमिति ॥
अथ खलु भिक्षवो धर्मरुचिश्च नामा बोधिवृक्षदेवता धर्मकायश्च धर्ममतिश्च धर्मचारी च, एते चत्वारो बोधिवृक्षदेवतास्तथागतस्य चरणयोर्निपत्यैवमाहुः - क्व भगवान् धर्मचक्रं प्रवर्तिष्यतीति? एवमुक्ते भिक्षवस्तथागतस्तान् देवतानेतदवोचत् - वाराणस्यामृषिपतने मृगदावे । ते आहुः - परीत्तजनकाया भगवन् वाराणसी महानगरी, परीत्तद्रुमछायश्च मृगदावः । सन्त्यन्यानि भगवन् महानगराणि ऋद्धानि स्फीतानि क्षेमानि सुभिक्षाणि रमणीयानि आकीर्णबहुजनमनुष्याणि उद्यानवनपर्वतप्रतिमण्डितानि । तेषां भगवानन्यतमे धर्मचक्रं प्रवर्तयतु । तथागतो ऽवोचत्मैवं भद्रमुखाः । तत्कस्मात्?
षष्टिं यज्ञसहस्रकोटिनयुता ये तत्र यष्टा मया
षष्टिं बुद्धसहस्रकोटिनयुता ये तत्र संपूजिता ।
पौराणामृषिणामिहालयु वरो वाराणसी नामवा
देवानागमभिष्टुतो महितलो धर्माभिनिम्नः सदा

25.36

बुद्धा कोटिसहस्र नैकनवतिः पूर्वे स्मरामी अह
ये तस्मिन्नृषिसाह्वये वनवरे वर्तीसु चक्रोत्तमम् ।
शान्तं चाप्युपशान्तध्यानभिमुखं नित्यं मृगैः सेवितं
इत्यर्थे ऋषिसाह्वये वनवरे वर्तिष्यि चक्रोत्तमम्

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc