भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 23

23.1

इति ॥
स्तर्त् परिवर्त 23
संस्तवपरिवर्तस्त्रयोविंशः ।
अथ खलु शुद्धावासकायिका देवपुत्रा बोधिमण्डनिषण्णं तथागतं प्रदक्षिणीकृत्य दिव्यैश्चन्दनचूर्णवर्षैरभ्यवकीर्य आभिः सारूप्याभिर्गाथाभिरभितुष्टुवुः -
उत्पन्नो लोकप्रद्योतो लोकनाथः प्रभंकरः ।
अन्धभूतस्य लोकस्य चक्षुर्दाता रणंजहः

23.2

भवान् विजितसंग्रामः पुण्यैः पूर्णमनोरथः ।
संपूर्णः शुक्लधर्मैश्च जगत्त्वं तर्पयिष्यसि

23.3

उत्तीर्णपङ्को ह्यनिघः स्थले तिष्ठति गौतमः ।
अन्यां सत्त्वां महोघेन प्रोद्गतस्तारयिष्यसि

23.4

उद्गतस्त्वं महाप्राज्ञो लोकेष्वप्रतिपुद्गलः ।
लोकधर्मैरलिप्तस्त्वं जलस्थमिव पङ्कजः

23.5

चिरप्रसुप्तमिमं लोकं तमस्कन्धावगुण्ठितम् ।
भवान् प्रज्ञाप्रदीपेन समर्थः प्रतिबोधितुम्

23.6

चिरातुरे जीवलोके क्लेशव्याधिप्रपीडिते ।
वैद्यराट् त्वं समुत्पन्नः सर्वव्याधिप्रमोचकः

23.7

भविष्यन्त्यक्षणा शून्या त्वयि नाथे समुद्गते ।
मनुष्याश्चैव देवाश्च भविष्यन्ति सुखान्विताः

23.8

येषां त्वद्दर्शनं सौम्य एष्यसे पुरुषर्षभ ।
न ते कल्पसहस्राणि जातु यास्यन्ति दुर्गतिम्

23.9

पण्डिताश्चाप्यरोगाश्च धर्मं श्रोष्यन्ति ये ऽपि ते ।
गम्भीराश्चोपधीक्षीणा भविष्यन्ति विशारदाः

23.10

मोक्ष्यन्ते च लघुं सर्वे छित्त्वा वै क्लेशबन्धनम् ।
यास्यन्ति निरुपादानाः फलप्राप्तिवरं शुभम्

23.11

दक्षिणीयाश्च ते लोके आहुतीनां प्रतिग्रहाः ।
न तेषु दक्षिणा न्यूना सत्त्वानिर्वाणहेतुकी

23.12

एवं खलु भिक्षवः शुद्धावासकायिका देवपुत्रास्तथागतमभिष्टुत्यैकान्ते प्राञ्जलयस्तस्थुः, प्राञ्जलयस्तथागतं नमस्यन्तः ॥
अथ खलु चाभास्वरा देवपुत्रास्तथागतं बोधिमण्डनिषण्णं दिव्यैर्नानाप्रकारैः पुष्पधूपगन्धमाल्यविलेपनछत्रध्वजपताकाभिः संपूज्य त्रिप्रदक्षिणीकृत्य चाभिर्गाथाभिरभ्यस्ताविषुः -
गम्भीरबुद्धे मधुरस्वरा मुने ब्रह्मस्वरा मुनिवरगीत सुस्वरम् ।
वराग्रबोधि परमार्थप्राप्ता सर्वस्वरे पारगते नमस्ते

23.13

त्रातासि दीपो ऽसि परायणो ऽसि नाथो ऽसि लोके कृपमैत्रचित्तः ।
वैद्योत्तमस्त्वं खलु शल्यहर्ता चिकित्सकस्त्वं परमं हितंकरः

23.14

दीपंकरस्य सहदर्शनं त्वया समुदानितं मैत्रकृपाभ्रजालम् ।
प्रमुञ्च नाथा अमृतस्य धारां शमेहि तापं सुरमानुषाणाम्

23.15

त्वं पद्मभूतं त्रिभवेष्वलिप्तं त्वं मेरुकल्पो विचलो ह्यकम्प्यः ।
त्वं वज्रकल्पो ह्यचलप्रतिज्ञ त्वं चन्द्रमा सर्वगुणाग्रधारी

23.16

एवं खलु भिक्षव आभास्वरा देवास्तथागतमभिसंस्तुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः ॥
अथ खलु सुब्रह्मदेवपुत्रप्रमुखा ब्रह्मकायिका देवास्तथागतं बोधिमण्डनिषण्णमनेकमणिरत्नकोटीनयुतशतसहस्रप्रत्युप्तेन रत्नजालेनाभिछाद्य त्रिप्रदक्षिणीकृत्य चाभिः सारूप्याभिर्गाथाभिरभ्यस्ताविषुः -
शुभविमलप्रज्ञ प्रभतेजधरा द्बात्रिंशल्लक्षणवराग्रधरा ।
स्मृतिमं मतिमं गुणज्ञानधरा अकिलान्तका शिरसि वन्दमि ते

23.17

अमला विमला त्रिमलैर्विमला त्रैलोक्यविश्रुत त्रिविद्यगता ।
त्रिविधाविमोक्षवरचक्षुददा वन्दामि त्वां त्रिनयनं विमलम्

23.18

कलिकलुष उद्धृत सुदान्तमना कृपकरुण उद्गत जगार्थकरा ।
मुनि मुदित उद्गत प्रशान्तमना द्वयमतिविमोचक उपेक्षरता

23.19

व्रत तपस उद्गत जगार्थकरा । स्वचरीविशुद्धचरिपारगता ।
चतुसत्यदर्शक विमोक्षरता मुक्तो विमोचयसि चान्यजगत्

23.20

बलवीर्य आगतु इहा नमुचि प्रज्ञाय वीर्य तव मैत्र्य जितो ।
प्राप्तं च ते पदवरं अमृतं वन्दाम ते शठचमूमथना

23.21

एवं खलु भिक्षवः सुब्रह्मदेवपुत्रप्रमुखा ब्रह्मकायिका देवास्तथागतमाभिर्गाथाभिरभिष्टुत्य एकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः ॥
अथ खलु ते शुक्लपाक्षिका मारपुत्रा येन तथागतस्तेनोपसंक्रामन् । उपसंक्रम्य महारत्नछत्रवितानैस्तथागतमभिच्छाद्य प्राञ्जलयस्तथागतमाभिः सारूप्याभिर्गाथाभिरभ्यस्ताविषुः -
प्रत्यक्षे ऽस्मि बले तवातिविपुले मारस्य घोरा चमू
यत्सा मारचमू महाप्रतिभया एकक्षणे ते जिता ।
न च ते उत्थितु नैव कायु त्रसितो नो वा गिरा व्याहृता
त्वां वन्दामहि सर्वलोकमहितं सर्वार्थसिद्धं मुनिम्

23.22

मारा कोटिसहस्रनेकनयुता गङ्गाणुभिः संमिताः
ते तुभ्यं न समर्थ बोधिसुवटा संचालितुं कम्पितुम् ।
यज्ञा कोटिसहस्रनेकनयुता गङ्गा यथा वालिका
यष्टा बोधिवटासितेन भवता तेनाद्य विभ्राजसे

23.23

भार्या चेष्टतमा सुताश्च दयिता दास्यश्च
दासास्तथा उद्याना नगराणि राष्ट्रनिगमा राज्यानि सान्तःपुराः ।
हस्ता पादशिरोत्तमाङ्गमपि वा चक्षूंषि जिह्वा तथा
त्यक्ता ते वरबोधिचर्य चरता तेनाद्य विभ्राजसे

23.24

उक्तं यद्वचनं त्वया सुबहुशो बुद्धो भविष्याम्यहं
तारिष्ये बहुसत्त्वकोटिनयुता दुःखार्णवेनोह्यता ।
ध्यानाधीन्द्रियबुद्धिभिः कवचितः सद्धर्मनावा स्वयं
सा चैषा प्रतिपूर्ण तुभ्य प्रणिधिस्तारिष्यसे प्राणिनः

23.25

यत्पुण्यं च स्तवित्व वादिवृषभं लोकस्य चक्षुर्ददं
सर्वे भूत्व उदग्रहृष्टमनसः प्रार्थेम सर्वज्ञताम् ।
समुदानीत्व वराग्रबोधिमतुलां बुद्धैः सुसंवर्णितां
एवं तद्विनिहत्य मारपरिषां बुद्धेम सर्वज्ञताम्

23.26

एवं खलु भिक्षवो मारपुत्रास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः ॥
अथ खलु परनिर्मितवशवर्ती देवपुत्रो ऽनेकैर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतो जाम्बूनदसुवर्णवर्णैः पद्मैस्तथागतमभ्यवकीर्य संमुखमाभिर्गाथाभिरभ्यस्तावीत् -
अपीडित अलुडित अवितथवचना अपगततमरज अमृतगतिगता ।
अरहसि दिवि भुवि श्रियक्रियमतुला अतिद्युतिस्मृतिमति प्रणिपति शिरसा

23.27

रतिकर रणजह रजमलमथना रमयसि सुरनर सुविशदवचनैः ।
विकसित सुविपुल वरतनु किरणैः सुरनरपतिरिव जयसि जगदिदम्

23.28

परगणिप्रमथन परचरिकुशला प्रियु भव नरमरु परमति धुनता ।
परचरि विभजसि सुनिपुणमतिमान् पथि इह विचरतु दशबलगमने

23.29

त्यजि पृथु भवग्रहि वितथदुख महा विनयसि सुरनर यथमति विनये ।
विचरसि चतुदिश शशिरिव गगने चक्षु भव परायण इह भुवि त्रिभवे

23.30

प्रियु भव नरमरु न च खलि विषये रमयसि शुभरति कामरतिविरतो ।
दिनदर्शि परिषदि न ति समु त्रिभवे नाथु गति परायणु त्वमिह हि जगतः

23.31

एवं खलु भिक्षवो वशवर्तिदेवप्रमुखाः परिनिर्मितवशवर्तिनो देवपुत्रास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः ॥
अथ खलु सुनिर्मितो देवपुत्रो देवसंघपरिवृतः पुरस्कृतो नानारत्नपट्टदामैस्तथागतमभिछाद्य संमुखमाभिर्गाथाभिरभ्यस्तावीत् -
धर्मालोक भवान् समुद्गत त्रिविधमलनुच्छिदो
मोहादृष्टिअविद्यघातको हिरिशिरिभरितः ।
मिथ्यामार्गरतामिमां प्रजाममृते थपयितो
उत्पन्नो इह लोकि चेतियो दिवि भुवि महितः

23.32

त्वं वैद्यो कुशलचिकित्सको ह्यमृतसुखददो
दृष्टिक्लेशमविद्यसंचयं पुरिममनुशयम् ।
सर्वव्याध्यपनेसि देहिनां पुरिमजिनपथे
तस्माद्वैद्यतमो ऽसि नायका विचरसि धरणीम्

23.33

चन्द्रासूर्यप्रभाश्च ज्योतिषा मणि तथ ज्वलना
शक्रब्रह्मप्रभा न भासते पुरतु शिरिघने ।
प्रज्ञालोककरा प्रभंकरा प्रभसिरिभरिता
प्रत्यक्षास्तव ज्ञाति अद्भुते प्रणिपति शिरसा

23.34

सत्यासत्यकथी विनायका सुमधुरवचना
दान्ता शान्तमना जितेन्द्रिय प्रशमितमनसा ।
शास्ता शासनियां प्रशाससे नरमरुपरिषां
वन्दे शाक्यमुनिं नरर्षभं सुरनरमहितम्

23.35

ज्ञानिं ज्ञानकथाग्रधारका ज्ञपयसि त्रिभवे
त्रैविद्यत्रिविमोक्षदेशका त्रिमलमलनुदा ।
भव्याभव्य मुने प्रजानसे यथमति विनये
वन्दे त्वां त्रिसहस्रि अद्भुतं दिवि भुवि महितम्

23.36

एवं खलु भिक्षवः सुनिर्मितो देवपुत्रः सपरिवारस्तथागतमभिष्टुत्यैकान्ते ऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्कुर्वन् ॥
अथ खलु संतुषितो देवपुत्रः सार्धं तुषितकायिकैर्देवैर्येन तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य महता दिव्यवस्त्रजालेन बोधिमण्डनिषण्णं तथागतमभिसंछाद्य संमुखमाभिर्गाथाभिरभ्यस्तौषीत् -
तुषितालयि यद्वसितस्त्वं तत्र ति देशितु धर्म उदारो ।
न च छिद्यति सा अनुशास्ति अद्यपि धर्मचरी सुरपुत्रा

23.37

न च दर्शन तृप्ति लभामो धर्म शृणोतु न विन्दति तृप्तिम् ।
गुणसागर लोकप्रदीपा वन्दिम ते शिरसा मनसा च

23.38

तुषितालय यच्चलितस्त्वं शोषित अक्षण सर्वि तदा ते ।
यद बोधिवटे उपविष्टः सर्वजगस्य किलेश प्रशान्ताः

23.39

यस्य कृतेन च बोधि उदारा एष ति प्राप्ति जिनित्वन मारम् ।
त्वा प्रणिधी तपसा परिपूर्णा क्षिप्र प्रवर्तय चक्रमुदारम्

23.40

बहु दिक्षिषु प्राणिसहस्रा धर्मरता क्षुणियामथ धर्मम् ।
क्षिप्र प्रवर्तय चक्रमुदारं मोचय प्राणिसहस्र भवेषु

23.41

एवं खलु भिक्षवः संतुषितो देवपुत्रः सपरिवारस्तथागतमभिष्टत्यैकान्ते ऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्यमानः ॥
अथ खलु सुयामदेवपुत्रप्रमुखाः सुयामा देवा येन तथागतस्तेनोपसंक्रामत् ।
उपसंक्रम्य नानापुष्पधूपगन्धमाल्यविलेपनैर्बोधिमण्डनिषण्णं तथागतं संपूज्य संमुखमाभिः सारूप्याभिर्गाथाभिस्तुष्टवुः -
सदृशो ऽस्ति न ते कुतोन्तरे शील समाधि तथैव प्रज्ञया ।
अधिमुक्तिविमुक्तिकोविदा शिरसा वन्दिम ते तथागतम्

23.42

दृष्टा स वियूह शोभना बोधिमण्डस्मि मरुभि या कृता ।
न तमर्हति अन्य कश्चना यथ त्वं देवमनुष्यपूजितः

23.43

न मुधाय भवान् समुद्गतो यस्य अर्थे बहु चीर्ण दुष्करा ।
विजितो हि शठः ससैन्यकः प्राप्ता बोधि अनुत्तरा त्वया

23.44

आलोक कृतो दशादिशे प्रज्ञादीपेन त्रिलोक ज्वालितः ।
तिमिरं अपनाययिष्यसे दास्यसि चक्षुरनुत्तरं जगे

23.45

बहुकल्प स्तुवन्ति भाषतो रोमरूपस्य न चान्तु अस्ति ते ।
गुणसागर लोकविश्रुता शिरसा वन्दिम ते तथागतम्

23.46

एवं खलु ते सुयामदेवपुत्रप्रमुखा देवास्तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलस्तथागतं नमस्यन्तः ॥
अथ खलु शक्रो देवानामिन्द्रः सार्धं त्रायत्रिंशकायिकैर्देवैर्नानापुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजपताकाव्यूहैस्तथागतं संपूज्य आभिर्गाथाभिरभ्यस्तावीत् -
अस्खलिता अनवद्या सदा सुस्थिता मेरुकल्पा मुने
दशदिशि सुविघुष्ट ज्ञानप्रभा पुण्यतेजान्विता ।
बुद्धशतसहस्र संपूजिता पूर्वि तुभ्यं मुने
तस्य विशेषु येन बोधिद्रुमे मारसेना जिता

23.47

शीलश्रुतसमाधिप्रज्ञाकरा ज्ञानकेतुध्वजा
जरमरणनिघाति वैद्योत्तमा लोकचक्षुर्ददा ।
त्रिमलखिलप्रहीण शान्तेन्द्रिया शान्तचित्ता मुने
शरणु तवमुपेम शाक्यर्षभा धर्मराजा जगे

23.48

बोधिचरी अनन्ततुल्या अभूद्वीर्यस्थामोद्गता
प्रज्ञाबल उपाय मैत्राबलं ब्राह्मपुण्यं बलम् ।
एति बलमनन्ततुल्या भवं बोधि संप्रस्थिते
दशबलबलधारी अद्या पुनर्बोधिमण्डे भुतो

23.49

दृष्ट्व चमु अनन्तसत्त्वे सुरा भीतत्रस्ताभवन्
मा खु श्रमणराजु बाधिष्यते बोधिमण्डे स्थितः ।
न च भवतु बभूव तेभ्यो भयं नो च कायेञ्जना
करहत गुरुभार संकम्पना मारसेना जिता

23.50

यथ च पुरिमकेभि सिंहासने प्राप्त बोधि वरा
तथ त्वया अनुबुद्ध तुल्या समा अन्यथा त्वं न हि ।
सममनस समचित्त सर्वज्ञता स्थाम प्राप्तं त्वया
तेन भव स्वयंभु लोकोत्तमो पुण्यक्षेत्रं जगे

23.51

एवं खलु भिक्षवः शक्रो देवानामिन्द्रः सार्धं देवपुत्रैस्त्रायत्रिंशैस्तथागतमभिष्टुत्यैकान्ते ऽस्थात् प्राञ्जलीकृतस्तथागतं नमस्कुर्वन् ॥
अथ खलु चत्वारो महाराजानः सार्धं चतुर्महाराजकायिकैर्देवपुत्रैर्येन तथागतस्तेनोपसंक्रामत् । उपसंक्रम्याभिमुक्तकचम्पकसुमनावार्षिकधानुस्कारिमाल्यदामपरिगृहीता अप्सरःशतसहस्रपरिवृता दिव्यसंगीतिसंप्रवादितेन तथागतस्य पूजां कृत्वा आभिः सारूप्याभिर्गाथाभिस्तुष्टुवुः -
सुमधुरवचना मनोज्ञघोषा शशि व प्रशान्तिकरा प्रसन्नचित्ता ।
प्रहसितवदना प्रभूतजिह्वा परमसुप्रीतिकरा मुने नमस्ते

23.52

रुतरवित य अस्ति सर्वलोके सुमधुर प्रेमणिया नरामरूणाम् ।
भवत स्वरु प्रमुक्त मञ्जुघोषो अभिभवते रुत सर्वि भाषमाणां

23.53

रागु समयि दोषमोहक्लेशा प्रीति जनेति अमानुषां विशुद्धाम् ।
अकलुषहृदया निशाम्य धर्मं आर्य विमुक्ति लभन्ति ते हि सर्वे

23.54

न च भव अतिमन्यसे अविद्वां न च पुन विद्वमदेन जातु मत्तः ।
उन्नतु न च नैव चोनतस्त्वं गिरिरिव सुस्थितु सागरस्य मध्ये

23.55

लाभ इह सुलब्ध मानुषाणां यत्र हि तादृशु जातु सत्त्व लोके ।
श्रीरिव पदुमो धनस्य दात्री तथ तव दास्यति धर्मु सर्वलोके

23.56

एवं खलु चतुर्महाराजप्रमुखा महाराजकायिका देवा बोधिमण्डनिषण्णं तथागतमभिष्टुत्यैकान्ते तस्थुः प्राञ्जलयस्तथागतं नमस्यन्तः ॥
अथ खल्वन्तरिक्षा देवास्तथागतस्यान्तिकमुपसंक्रम्याभिसंबोधेः पूजाकर्मणे सर्वमन्तरीक्षं रत्नजालेन किङ्किणीजालेन रत्नछत्रै रत्नपताकाभी रत्नपट्टदामै रत्नावतंसकैर्विविधमुक्ताहारपुष्पदामार्धकायिकदेवतापरिगृहीतैरर्धचन्द्रकैश्च समलंकृत्य तथागताय निर्यातयन्ति स्म । निर्यात्य च संमुखमाभिर्गाथाभिरभ्यस्ताविषुः -
अस्माकु वासं गगने ध्रुवं मुने पश्याम सत्त्वा चरिया यथा जगे ।
भवतश्चरिं प्रेक्षिय शुद्धसत्त्व स्खलितं न पश्याम तवैकचित्ते

23.57

ये आगता पूजन बोधिसत्त्वा गगनं स्फुटं तैर्नरनायकेभिः ।
हानिर्विमानान न चाभवन्त तथा हि ते वै गगनात्मभावाः

23.58

ये अन्तरीक्षातु प्रवर्षि पुष्पां स्याच्चूडबन्धा हि महासहस्रा ।
ते तुभ्य काये पतिता अशेषा नद्यो यथा सागरि संप्रविष्टाः

23.59

पश्याम छत्राण्यवतंसका च मालागुणां चम्पकपुष्पदामां ।
हारांश्च चन्द्रांश्च तथार्धचन्द्रां क्षिपन्ति देवा न च संस्करोति

23.60

वालस्य नाभूदवकाशमस्मिन् देवैः स्फुटं सर्वत अन्तरीक्षम् ।
कुर्वन्ति पूजां द्विपदोत्तमस्य न च ते मदो जायति विस्मयो वा

23.61

एवं खल्वन्तरीक्षदेवा बोधिमण्डे निषण्णं तथागतमभिष्टुत्यैकान्ते ऽवतस्थिवन्तः प्राञ्जलयस्तथागतं नमस्यन्तः ॥
अथ खलु भौमा देवास्तथागतस्य पूजाकर्मणे सर्वावन्तं धरणीतलं सुशोधितोपलिप्तं गन्धोदकपरिषिक्तं पुष्पावकीर्णं च कृत्वा नानादूष्यवितानविततं च तथागताय निर्यातयन्ति स्म । आभिर्गाथाभिरभितुष्टुवुः -
वज्रमिव अभेद्या संस्थिता त्रिःसहस्रा वज्रमयपदेनायं स्थितो बोधिमण्डे ।
इह मम त्वचमांसं शुष्यतामस्थिमज्जा न च अहु अस्पृशित्वा बोधि उत्थेष्य अस्मात्

23.62

सविभव नरसिंहा सर्वियं त्रिःसहस्रा न करिषु अधिस्थानं स्याद्विदीर्णशेषा ।
तादृश महवेगा आगता बोधिसत्त्वा येष क्रमतलेभिः कम्पिता क्षेत्रकोट्यः

23.63

लाभ इह सुलब्धा भूमिदेवैरुदारा यत्र परमसत्त्वश्चंक्रमी मेदिनीये ।
यत्र कु रजु लोके सर्व ओभासितास्ते चेतिभु त्रिसहस्रः किं पुनस्तुभ्य कायः

23.64

हेस्ति शतसहस्रं यावतश्चापस्कन्धो धरणितलु जगस्या यावतश्चोपजीव्यः ।
सर्व वयु धरेमो मेदिनी त्रिःसहस्रां सर्व तव ददामो भुङ्क्ष्विमां त्वं यथेष्टम्

23.65

यत्र भव स्थिहेद्वा चंक्रमेद्वा शयेद्वा ये ऽपि सुगतपुत्राः श्रावका गौतमस्य ।
धर्मकथ कथेन्ती ये ऽपि वा तां शृणोन्ति सर्वकुशलमूलं बोधिये नामयामः

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc