लक्ष्मीतन्त्रम् · अध्याय 39
एकोनचत्वारिंशोऽध्यायः - 39
श्रीः---
शृणु भोगान् सुरेशान दत्तैस्तुष्यामि यैरहम्।
येषु मे वितता शक्तिर्भोग्यभोगाय तिष्ठते
1. तिष्ठते; स्वाशयं प्रकाशयन्ती तिष्ठतीत्यर्थः। प्रकाशनार्थे तङ्।
यथाशक्त्यनुरूपेण तत्तद्भोगोपकल्पने।
दिव्यशक्तिप्रभेदैस्तैर्विचित्रैः स्त्यानतां गतैः
संपूर्णमीस्वरार्हं तद्भावनीयमशेषतः।
मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम्
3. भोगविशेषा उच्यन्ते---मृद्वित्यादिना। भगवदाराधने षडासनानि; यथा---मन्त्रासनम्, स्नानासनम्, अलंकारासनम्, भोज्यासनम्, पुनर्मन्त्रासनम्, पर्यह्कासनं चेति। तत्र प्रथमं मन्त्रासनमत्रोच्यते।
अर्घ्यं पाद्यं मधूपर्कस्तथैवाचमनीयकम्।
प्रणामपूर्वकं पश्चादात्मात्मीयनिवेदनम्
4. तस्मिन्नासने समर्पणीयानाह---अर्घ्यमित्यादिना। आत्मात्मीयनिवेदनप्रकारमाह पाद्मे (4-3-140)---"दासोऽहं ते जगन्नाथ सपुत्रादिपरिग्रहः। प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्क्ष्व हिते सदा॥" इति।
अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम्।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहः
5. द्वितीयं स्नानासनमत्र। अत्र मन्त्रः सात्त्वते (6-26)---"स्फुटीकृतं मया देव त्विदं स्नानपरे त्वयि। सपादपीठं परमं शुभं स्नानासनं महत्। आसादयाशु स्नानार्थं मदनुग्रहकाम्यया॥" इति।
पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम्
6. मात्रा च शालिकेति। अक्षताग्रशुभ्रवर्णशालितण्डुलपूर्णपात्रमत्र मात्रापदार्थः। तथा च पाद्मे (4-6-36)---"शालितण्डुलमात्रया" इति। एतच्च मात्रादानमाराधनमध्यापतितवैकल्यपरिहाराय।
दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी।
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम्
हरिद्राचूर्णसंमिश्रमीषत्पद्मकभावितम्।
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम्
8. खलिः मृगमदादिवासनावासितं घनीभूतगन्धतैलकिट्टकम्।
उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम्।
क्षीरं दधि घृतं गव्यं मध्वैक्षवरसं तथा
9. चन्द्रः घनसारः।
सुगन्धामलकाभिश्च लोध्रतोयं ततः परम्।
रक्तचन्दनतोयं च रजनीवारि चोत्तमम्
ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम्।
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम्
पुष्पपत्रफलाम्भांसि बीजगन्धोदके तथा।
हेमरत्नसरित्तीर्थकेवलाम्बूनि च क्रमात्
स्नानीयांम्बुसमेतानि देयान्यम्बून्यमूनि तु।
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा
दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा।
स्नानशिष्टाम्बुसंपूर्णं हरिद्राशालिसंभृतम्
14. स्नपनानन्तरं नीराजनमुच्यते---स्नानशिष्टेति।
स्रगादिसंयुतं कुम्भं हस्ते कृत्वापरत्र तु।
सिद्धार्थैर्धूपवत् पात्रं भ्रामयित्वा तु मूर्धनि
15. हस्ते; वामहस्ते। अपरत्र; दक्षिणहस्ते।
बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके।
केशोदकापकर्षार्थमम्बरं देहवारिहृत्
अन्तरीयोत्तरीये द्वे सुधौते वाससी शुभे।
भाविते गन्धधूपेन दद्याद् भद्रासनं ततः
17. भद्रासनम्; स्नानासनम्।
शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम्।
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम्
18. खप्लुतम्; द्वादसान्तस्थितम्। तृतीयमलंकारासनमाह--अलंकारेति।
तत्र सर्वं प्रदातव्यमर्घ्यपाद्यादि पूर्ववत्।
विवेचनं च केशानां कङ्कतेन प्रशोधनम्
19. कङ्कतं केशप्रसाधनी।
शीर्षण्यास्ताः सुमनसस्ततश्चूडोपकल्पनम्।
चन्दनाद्याः सुगन्धाश्च व्यजनं शोषणार्थकम्
मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः
पुष्पाञ्जलिः पदद्वन्द्वे प्राकारः सुमनश्चयैः।
गन्धद्रव्यसुशीतेन ह्यञ्जनेनाञ्जनं दृशोः
तथैवालम्भनं चापि ललाटतिलकं तथा।
आदर्शो विमलो मृष्टः परितश्च समीक्षणम्
प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्।
स्तुतिमङ्गलगीतानि नृत्तवादित्रदर्शनम्
24. चेतनेतरत् वाहनमिति। सुवर्णादिनिर्मितं हस्त्यश्वादि।
मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः।
बुद्ध्या विरचितास्तास्ता राजराजोचिताः क्रियाः
अलंकारासनस्थाय त्वेते भोगा हि मन्मयाः।
अथ भोज्यासनं देयमर्ग्यपाद्यादिकं तथा
26. मन्मया इत्यनेनाध्यायादावुक्तो विषयः स्मार्यते। तुरीयं भोज्यासनमुपवर्ण्यते---अथेति।
यजेत मधुपर्केण यथा तदवधारय।
पयसो मधुनो दध्नः संयोगो मधुपर्ककः
27. मधुपर्कमाह--पयस इति।
पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम्।
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत्
अर्हणेनार्चनं पूर्वं ततश्च मधुपर्ककम्।
तर्पणं तर्पणीयाभिस्ततो निष्पुंसनं करे
29. अर्हणमापोशनम्। तर्पणम्; पानीयतीर्थम्। निष्पुंसनम्; हस्तोद्वर्तनम्।
देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी।
यष्टव्यमन्नयज्ञेन साङ्गेन मधुपर्कवत्
30. पुनः मधुपर्कदानसंभावितवैकल्यपरिहाराय गवा मात्रादानमत्रोच्यते।
प्रदेया अन्नयज्ञार्था मात्राः शाल्यन्ननिर्मिताः।
सकर्पूरं च ताम्बूलं प्रदेयमनुवासनम्
31. पञ्चमे मन्त्रासने समर्पणीयानि ताम्बूलादीनि।
ततश्च विश्रमार्थाय विमानं परमाद्भुतम्।
प्रदेयं तत्र दातव्यं सर्वमर्घ्यादि पूर्ववत्
32. षष्ठं पर्यह्कासनमुच्यते---ततश्चेति।
जपं समाचरेत् पश्चादलक्ष्यमितरैर्जनैः।
मन्त्रसंस्कृतया सम्यक् शुभया ह्यक्षमालया
33. जपसंख्यागणनोपकरणेष्वक्षमाला प्रशस्ता।
प्राकृतस्त्वङ्गुलीभिस्तु पर्वभिस्तु दशोत्तरः।
शतोत्तरादिसंख्यस्तु विज्ञेयो ह्यक्षमालया
वाचिकः क्षुद्रकर्मार्थमुपांशु सिद्धिकर्मणि।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत्
35. जपविशेषो वाचिकादिः।
अक्षमाला तथा कार्या न दृश्या प्राकृतैर्यथा।
अक्षास्थिमात्रा मण्य उत्तमाः परिकीर्तिताः
धात्रीफलास्थिसदृशा मध्यमाः परिकीर्तिताः।
अधमा बदरास्थ्याभाः श्रेष्ठमष्टशतात्मकम्
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम्।
सौवर्णं द्रव्यसिद्ध्यर्थे पुष्ट्यर्थे पितृकर्मणि
38. अक्षमालामणिविशेषानाह---सौवर्णमित्यादिना।
राजतं ताम्ररूपं तु मेधावीर्यजयाप्तये।
त्रापुषं यक्षिणीसिद्धौ सैसं रक्षःपिशाचयोः
वेतालसाधनार्थं तु रीतिजं कांस्यजं तु तत्।
अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने
40. रीतिः पित्तललोहविशेषः।
आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः।
आयुरारोग्यभूत्यर्थः सर्वो मणिमयो मणिः
मोक्षाय शान्तये चैव स्फाटिको मणिरुच्यते।
सौभाग्ये वैद्रुमः कार्यः सौत्रः कार्यस्तु मुक्तये
42. सैत्रः; तन्तुनिर्मितः।
शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः।
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः
आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः।
आदद्यादेकमेतेषां शुभकाले गुणाधिके
अस्रेण गन्धतोयेन क्षालयेत्तदनन्तरम्।
शाणकार्पासजोर्णानां कृत्वा सूत्रं नवं दृढम्
त्रिगुणं त्रिगुणीकृत्य चतुर्धा वा यथा दृढम्।
क्षालयित्वास्रतोयेन तेनैव ग्रथयेन्मणीन्
अनूनानधिकांस्तुल्यानचलान् ग्रथितान्तरान्।
इष्टसंख्यामणिप्रोतसूत्रान्तद्वितयोपमम्॥
मणिं प्रकल्पयेन्मेरुमक्षमालाविधिस्त्वयम्
47. मेरुः जपसूत्रप्रधानग्रन्थिस्थो बृहन्मणिविशेषः।
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो नामैकोनचत्वारिंशोऽध्यायः
********इत्येकोनचत्वारिंशोऽध्यायः********
मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0