लक्ष्मीतन्त्रम् · अध्याय 40
चत्वारिंशोऽध्यायः - 40
शक्रः---
नमस्ते वारिसंभूते नमस्ते पद्मसंभवे।
प्रकारमक्षमालायाः प्रतिष्ठाया वदाम्बुजे
श्रीः---
साधितामक्षमालां तु स्थापयेद्भाजने शुभे।
पूजयित्वार्घ्यपुष्पाद्यैस्तस्याः शुद्धिं समाचरेत्
2. साधिताम्; निर्मिताम्।
अस्त्रेण दग्ध्वा निर्वाप्य वर्मणाप्याययेच्छ्रिया।
परमामृतरूपिण्या तां मालां भावयेत्ततः
3. निर्वाप्य; विशोष्य। श्रिया; श्रीमन्त्रेण। भावयेत्; वक्ष्यमाणरूपेण ध्यायेत्।
चतुर्भुजामनौपम्यां मन्मयीं मामिवापराम्।
वरदाभयहस्तां च बद्धाञ्जलिकरद्वयाम्
ब्रह्मद्वाराम्बुजन्मस्थां देवीं ध्यायेच्छिखोपमाम्।
तां परां वैष्णवीं शक्तिं मन्मयीं मदभेदिनीम्
5. ब्रह्मद्वारं ब्रह्मरन्ध्राख्यनाडी। शिखा वह्निशिखा।
द्वादशान्ते विचिन्त्याथ क्रमाद्ध्यायेद्धृदम्बुजे।
हृत्पद्मादुत्थितां बूयो ब्रह्मरन्ध्राद्विनिर्गताम्
6. द्वादशान्ते; मूर्ध्न उपरि द्वादशाङ्गुलपरिमितस्थाने।
शनैः शनैरुल्लसन्तीं मालास्थां तां विचिन्तयेत्।
अङ्गोपाङ्गक्रमोपेतां स्थूलसूक्ष्मपरात्मिकाम्
मां ध्यायेत् तारिकाकारां तत्र शक्तौ सुरेश्वर।
मणीन् सूत्रं तथा मालां मालास्थां वैष्णवीमपि
एकार्णवीकृतं सर्वं मायां ध्यायेत् सुरेश्वर।
मया दत्तां विभाव्यैनां संस्कृतामक्षमालिकाम्
जपं समाचरेत् पश्चात् पूर्वोक्तेन विधानतः।
अनुन्मिषत् परं सूक्ष्मं स्थूलमात्मानमेव च
लक्ष्मीनारायणाकारं पञ्चकं भावयेदिदम्।
तुर्यातीतं तथा तुर्यं सुषुप्तिस्वप्नजागराः
अवस्थापञ्चकं तद्वत् तत्कर्तृकरणादिकम्।
कर्त्रुन्मेषं तथा तत्स्थं करणं बाह्यकं तथा
मन्त्राक्षरं तथा स्थूलं सर्वं तत्तन्मयं स्मरेत्।
हृत्पुण्डरीकमध्यस्थां मन्मुखाम्भोजनिःसृताम्
स्मरेच्छब्दमयीं शक्तिं वैष्णवीं मदभेदिनीम्।
तस्या विनिर्गतां ध्यायेन्मातृकां मन्त्रमातरम्
मन्मयीं संस्मरेन्मालां जप्यमन्त्रमयीं ततः।
लतायामिव पुष्पाणि मन्त्रान् वै तत्र संस्मरेत्
स्फुरणं मणिसंस्पर्शे हृल्लयं च तदत्यये।
भावयन् मन्त्रनाथस्य जपं कुर्याद्विचक्षणः
हृद्भास्वरूपसंसूतिबहिरन्तःक्रमोत्क्रमात्।
इति स्मरन् जपेदेकवारं तत्कोटिसंमितम्
जपं समाप्य विधिवन्न्यस्येन्मयि जपं कृतम्।
शक्तिं तां मन्मुखान्तःस्थां जपरूपां विचिन्तयेत्
दीपे धूपे तथार्घ्ये च घण्टानादं समाचरेत्।
आवाहने तथार्घ्ये च नैवेद्ये मधुपर्कके
प्रीणने च प्रयुञ्जीत घण्टानादं विचक्षणः।
न विना पूजया चाल्या तां विना पूजयेन्न च
कार्यसिद्धिमभीप्सद्भिरिह चामुत्र चोभयोः।
सा हि घण्टाभिधा शक्तिर्वागीशा च सरस्वती
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रेषु चाखिलम्।
एतस्यां चाल्यमानायां मन्त्रा वत्सा इव द्रुतम्
काङ्क्षमाणाः समायान्ति तां घण्टां मन्त्रमातरम्।
अधोमुखं तु ब्रह्माण्डं द्यायेल्लोककुलाकुलम्
नालं तस्यास्तदूर्ध्वे तु वृत्तं पद्मं स्मरेद्बुधः।
अष्टपत्रं शुभं श्वेतं कर्णिकाकेसरान्वितम्
तन्मध्ये चिन्तयेद्देवीं घण्टामष्टभुजान्विताम्।
मुख्यहस्तचतुष्केण पाशशङ्खाम्बुजाङ्कुशान्
परबाहुचतुष्केण दधतीमक्षसूत्रकम्।
विज्ञानपुस्तकं सम्यगभयं च वरं तथा
पद्मासनामम्बुजाक्षीं पद्मगर्भसमत्विषम्।
बद्ममालाधरां पीतसितवस्रानुलेपनाम्
मन्त्रौघमुद्गिरन्तीं च ब्रह्मादिपरिसंस्तुताम्।
तारिकामुच्चरन् दीर्घं युग्मां संचालयेदिमाम्
अनया पूजयन् मन्त्री मन्त्रसिद्धिं निगच्छति।
ततो गुरून् समानीय मन्मयान् वापि वैष्णवान्
प्रदद्यात् प्रापणार्धं तु तेभ्यो मन्मन्त्रमुच्चरन्।
अथ वह्निगतां सम्यगग्नीषोममयीं पराम्
30. वह्निसंतर्पणमुच्यते---अथेत्यादिना।
तर्पयेन्मां सुरेशान यथावदवधारय।
तत उत्तरदिग्भागे देवागाराद्बहिस्तु वा
भूभागे लक्षणोपेते कुण्डं कुर्यात् सलक्षणम्।
चतुरश्रं समं यद्वा पद्माकारं मनोहरम्
शतार्धहोमसंख्यायां कुण्डं स्याद् द्वादशाङ्गुलम्।
अष्टोत्तरशतेऽरत्निसमं हस्तं सहस्रके
33. होमसंक्यानुगुण्येन कुण्डविस्तृतिरुच्यते---शतार्धेत्यादिना।
अयुताख्ये द्विहस्तं च लक्षहोमे चतुष्करम्।
कोटिहोमेऽष्टहस्तं स्याच्छास्रतः कारयेच्च तत्
त्रिकोणमपि वा कुर्याद्धोमकुण्डं त्रिमेखलम्।
उद्धृत्य तारया पूर्वं त्रिस्तया प्रोक्षयेद्भुवम्
35. तया; तारया।
शोषणं दाहनं प्लावं तारया सम्यगाचरेत्।
आधारशक्त्याद्यारभ्य पूज्यं भावासनावधि
36. भावासनं पूर्वमाधारशक्तिप्रकरणोक्तम्।
तत्र नारायणाख्यां वै शक्तिं तेजोमयीं पराम्।
मन्मयीममृताकारां सर्वातिशयरूपिणीम्
सर्वशक्तिसमूहस्थां सर्ववस्त्वन्तरस्थिताम्।
अवतार्य हृदम्भोजात् सृष्टिमार्गेण शाश्वतीम्
तारिकास्फुरणाकारामवतीर्य हृदम्बुजात्।
रेचकेन विनिक्षिप्य कुण्डमध्याम्बुजान्तरे
संपूज्य गन्धपुष्पाद्यैः पद्ममुद्रां प्रदर्श्य च।
ध्यायेदृतमतीं शक्तिं सुस्नातामहताम्बराम्
40. ध्यायेदित्यादिना अग्नेर्वैष्णवीकरणमुच्यते।
ध्यायेत् सर्वात्मिकां शक्तिं तामेव त्वधरारणिम्।
उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम्
मथ्नीयात् तारया सम्यक् तथा चैवानुतारया।
उत्पन्नं तारयादाय कृशानुं शक्तिसंभवम्
अभिगूह्याङ्गुलीभिस्तु संस्कुर्याद्वैष्णवाक्यया।
चूडां च तारया कुर्यादन्नप्राशनपूर्वकम्
43. अभिगूह्य; संवृत्य। अन्नप्राशनेति जातकर्मनामकरणयोरप्युपलक्षणम्।
उपनीय ततो वह्निं तारया चानुतारया।
ततः स्वाहास्वधाभ्यां तु देवीभ्यां जातवेदसः
पाणिग्रहणकं कुर्यात् तारया त्वनुतारया।
सर्वं ध्यानमयं कार्यं जातनामादिकर्म तत्
लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते।
लौकिके वापि संस्कारं निषेकादि समाचरेत्
आधाय तैजसे पात्रे मृन्मयेऽभिनवे तु वा।
देवीसहायं स्वाहेशं तारयैवार्चयेत् सुधीः
पूरणेनोपसंहृत्य स्वात्मन्युपशमं नयेत्।
क्रमादानन्दशक्त्या तं संहारेण तु योजयेत्
सृष्टिमार्गेण तं भूयोऽप्यवतार्य पदात् पदम्।
कुण्डमध्याम्बुजान्तःस्थां तारया भुवमानयेत्
वह्निं स्वाहास्वधेशानमग्नीषोममयं यजेत्।
समिद्भिस्तिसृभिस्तारामुच्चरन्नेकयैकया
शालीतिलाक्षतैः पश्चात् तत आज्याहुतित्रयम्।
उच्चार्य तारिकां पूर्वं बोधयेति द्विरुच्चरेत्
तत्रस्थो बुध्यते वह्निर्यथावच्च हुतः स्वयम्।
पर्यग्निकरणं कार्यं तारयैवार्द्रपाणिना
स्तृणीयात् तारया दर्भैस्रेधा त्रेधा चतुर्धिशम्।
उदग्भागेऽग्निकुण्डस्य स्तृणीयाद्दर्भसंचयम्
प्रणीताप्रोक्षणीपात्रे दर्वीध्मौ स्रुक्स्रुवौ तथा।
आज्यस्थालीं पवित्रे च सर्वं तत्र निधापयेत्
प्रणीतां तारयापूर्य गन्धयुक्तेन वारिणा।
पवित्राब्यां त्रिरुत्पूय मां ध्यायेत् तारया श्रियम्
वह्नेरुदक् प्रतिष्ठाप्य प्रोक्षणीं पूरयेच्छ्रिया।
तामुत्पूय ततः प्रोक्ष्य यागोपकरणं समम्
आज्यपात्रं समादाय तस्मिन्नाज्यं निधाय च।
ब्रह्म सर्पिःसमुद्रोत्थं तद्ध्यात्वाग्नेरुदग्गतम्
तारया समभिज्वाल्य दर्भाग्रे विनिधाय च।
तया पुनरभिज्वाल्य पर्यग्निकृतिमाचरेत्
वह्नेः पश्चात् प्रतिष्ठाप्य पवित्रद्वितयेन तत्।
उत्पूय तारयाग्नौ तत् पवित्रद्वितयं क्षिपेत्
परिदध्यात् परिधिभिर्यज्ञयोग्यैश्चतुर्दिशम्।
अग्निशर्वदिशोः स्थाप्य कुण्डमध्ये समिद्द्वयम्
तत इध्मं समाधाय शुष्कं पञ्चदशात्मकम्।
तारया परिषिच्याग्निं स्रुक्स्रुवौ परितापयेत्
निमृज्य तारया पश्चात्तौ प्रोक्ष्याथ स्रुचा तया।
वायोरग्निदिशं यावद्यातोः शर्वदिशावधि
धारया स्रावयेद्वह्नौ मध्ये दद्यात् स्रुवाहुतिम्।
अष्टोत्तरशतं वापि तदर्धं वा तदर्थकम्
स्रुवेणाज्याहुतीर्दद्यात् स्वाहान्तां तारिकां गृणन्।
अयं योग्यो भवेद्वह्निर्भगवद्धव्यवाहने
आदध्यात् समिधः सप्त ततस्तारिकया सुधीः।
यज्ञकाष्ठमयीरादौ ब्रह्मक्षत्रतरूद्भवाः
65. ब्रह्मतरुः पलाशः। क्षत्रतरुः मुचुकुन्दनामा तरुः। दशापरा इति। अवशिष्टा दश समिध दश समिध इत्यर्थः।
तारया समिधो दद्यात् काष्ठरूपा दशापराः।
मामेव भावयेन्मध्ये विष्णोरङ्कस्थितां पराम्
ब्रह्मानन्दमयाम्भोजकर्णिकास्थस्य वै विभोः।
अङ्कस्थां भावयल्लँक्ष्मीं ता दद्यात्समिधोऽखिलः
ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा।
एतास्तु त्रिविधा देया हस्तेनैव मनीषिणा
मधुपर्कमयीं पश्चात् स्रुवेण जुहुयात् सुधीः।
स्रुच्यन्नं चतुरादाय सर्पिषापूर्यं पूर्ववत्
तयैवान्नाहुतिं दद्यात् स्वाहान्तां तारिकां गृणन्।
स्रुवेणाज्याहुतीः पूर्वसमित्संख्याः समाचरेत्
पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेद्धिया।
नित्ययागो ममैतावानूर्ध्वं काम्याहुतिं क्षिपेत्
दशवारं तारयैव क्षमस्वेति वदन् धिया।
प्रणीतामुपसंहृत्य शुचिस्थाने निनीय च
प्रहृत्य परिधीन् सर्वान् सँस्रावं समाचरेत्।
स्तरं प्रहृत्य वह्नौ च घृतेनापूर्य च स्रुवम्
दद्यात् पूर्णाहुतिं दीर्घां स्वाहान्तां तारिकां गृणन्।
शक्त्या समेतां तां तारां वह्निस्थां मन्मयीं पराम्
मां चाप्यङ्कस्थितां विष्णोर्नासिकासंधिमार्गतः।
मरुच्छक्त्या समाकृष्य हृत्पद्मे विनिवेश्य च
यागभूमिं समेत्याथ नवपद्मस्थया मया।
एकीकृत्य मयि न्यस्येदर्छास्थायां कृतिं तु ताम्
प्रागेव विभजेदन्नं प्रापणात् संप्रदानतः।
तेनान्नेन यजेत् सम्यग्विष्वक्सेन चतुर्भुजम्
मण्डलान्तमुपानीय समाहूयाम्बरान्तरात्।
नवाम्रपत्रसदृशं पिङ्गभ्रूश्मश्रुलोचनम्
पीतवस्रं चतुर्दंष्ट्रं स्वमुद्राद्वितयान्वितम्।
गदाखड्गधरं देवमभ्यर्च्य क्रमशः सुधीः
साङ्गमुद्रामथादर्श्य गत्वा कुण्डसमीपतः।
विष्वक्सेनस्ततो भकत्या तर्पणीयस्तिलाक्षतैः
81. इत आरभ्य पञ्चार्धानि जयाख्यावचनमनुकुर्वन्ति।
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं ततः।
मण्डले पूजयित्वाथ कुर्यात्तस्य विसर्जनम्
स्वमन्त्रेण सुरश्रेष्ठ क्षमस्वेति पदं वदन्।
मुद्रां च दर्शयेत्तं च नभस्युत्पतितं स्मरेत्
विष्वक्सेनार्चनं सर्वमगाधेऽम्बुनि निक्षिपेत्।
तोयेनास्रप्रजप्तेन प्लावयेन्मण्डलं च तत्
ततः संपूजयेत् सर्वान् लोकपालानशेषतः।
पुष्पार्घ्यैरन्नदानान्तैरेकाहुत्या च वह्नितः
बह्विभिर्वा यथाशक्ति स्वैः स्वैर्मन्त्रैर्यथाविधि।
पूजयित्वा विसृज्यैतांस्तदस्राण्यपि पूजयतेत्
सर्वांश्च परिवारांस्तान् स्वस्वस्थानक्रमेण तु।
र्चयेत् क्षेत्रपालादीन् वह्निमध्ये च तर्पयेत्
आधारशक्तेरारभ्य पीठशक्तीश्च सर्वशः।
गणेशाद्याश्च संपूज्याः संतर्प्याश्च घृतादिकैः
सकृत्कृत्या त्रिवृत्या वा पूर्णाः सर्वेष्वथ क्षिपेत्।
लक्ष्म्यादीन्पूजयेत्सर्वान् विष्वक्सेनार्चनात्पुरा
विष्वक्सेनार्चनात् पश्चाल्लोकपालार्चनं क्रमात्।
ततो वेदिं विशोध्याथ दर्भान् संस्तीर्य दक्षिणान्
पितॄन् यजेत् क्रमेणैव प्रापणार्थावशेषतः।
कृत्वा पिण्डत्रयं तेन पितृभ्यो निर्वपेत् स्तरे
अर्घ्याज्जलं तथा दद्यादेकैकस्यैकमञ्जलिम्।
वैष्णवायाथवा दद्याद्ब्राह्नणाय विशेषिणे
92. ब्राह्नणाय विशेषिणे इति। विशिष्टब्राह्नणायेत्यर्थः। एतच्च धनिकेतरविषयम्। धनिकविषये तु चतुरो ब्राह्नणान्, तदलाभे एकं वा श्राद्धविधिना भोजयेदिति सात्त्वते उक्तम् (6, 167-179)।
पितॄनुद्दिश्य वै भक्तं तत्तन्नामानुदेशवत्।
संन्यस्य मयि तत् सर्वमन्तर्धानमवेक्ष्य च
अर्घ्याद्यमुपसंहृत्य वर्मास्रे प्रतिहृत्य च।
उपसंहृत्य च न्यासमनुयागं समाचरेत्
94. अनुयागः प्रापणावशेषोपयोगो भोजनादिः।
अस्रेण तारया प्रोक्ष्य तारया परिषिच्य च।
उपस्तीर्य तया चापो दद्यात् प्राणाहुतीस्तया
95. तयोपस्तीर्य; तारया निपीयेत्यर्थः।
अदीक्षितस्त्वनुयजंस्तत्तन्मन्त्रानुसंहिताम्।
तारिकामुच्चरन् कुर्यान्मां चान्तःस्थां विभावयेत्
96. पूर्वोक्तं तारया प्रोक्षणपरिषेचनापोशनप्राणाहुत्यादिकं दीक्षितविषयम्। अदीक्षितानां तु तत्तत्सूत्रकृदुक्तमन्त्रैरेव कर्तव्यम्।
सोमानन्दमयीं दिव्यां क्रमादन्नात्मतां गताम्।
वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम्
ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम्।
आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम्
तारिकामुच्चरन् पश्चादपिधायान्नमम्भसा।
आचम्य द्विस्ततो न्यस्येदनुयागं ततो मयि
99. अपिधायाम्भसेति। उत्तरापोशनं पीत्वेत्यर्थः।
अथ स्वाध्यायमभ्यस्येद् दिनशेषं विचक्षणः।
चतुर्विधानि शास्राणि तदुत्थं तारिकादिकम्
100. स्वाध्यायम्; वेददिव्यशास्रादिपरिचयम्। चतुर्विधानि---आगमसिद्धान्तमन्त्रसिद्धान्ततन्त्रसिद्धान्ततन्त्रान्तरसिद्धान्तप्रतिपादकानि शास्राणि।
सिद्धान्तानपि चाशेषानसंलग्नेन चेतसा।
स्वाशयप्रविशुद्ध्यर्थं समीक्षेत धिया स्वया
संध्यामुपास्य विधिवदभिगम्य च मां धिया।
योगं युञ्जीत विधिवच्छास्रशुद्धेन चेतसा
पूर्वपश्चिमयोर्नक्तं यामयोर्धातुसाम्यवान्।
इति यागविधिः शक्र विस्तरेण प्रदर्शितः
103. नक्तं प्रथमयामः चरमयामश्च योगकालः। मध्ये जायमाना निद्रापि भगवति स्वात्मसमर्पणेन योगरूपा भावनीया।
विधानस्य तु संक्षेपं पुनरस्य निबोध मे।
संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः
नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम्।
यजेतोभौ सहैवावां सूक्तेन पुरुषेण तु
105. अपच्छेदः; विच्छेदः।
तथा मदीयसूक्तेन ताभ्यां वा नौ यजेत् पृथक्।
स्थाने वा सर्वमन्त्राणां तारिकामेव योजयेत्
कुर्यात् संकल्पसंन्यासौ द्वावेवाद्यन्तयोः पृथक्।
अकुर्वन् भोगनिर्देशं केवलैर्वा यजेत्तु तैः
तथा तथैव कुर्वीत शक्नुयात्तु यथा यथा।
न त्वेव हापयेद्यागमपि दद्याज्जलाञ्जलिम्
108. शक्नुयादिति। मदाराधनस्य नित्यत्वात् नित्यस्य च यथाशक्त्यनुष्ठानविधानात् यथाशक्ति मामाराधयेदित्यर्थः।
तारिकां वाप्यधीयीत द्रव्याभावे विचक्षणः।
मनसा भावेयेद्रूपं यत्तस्या यादृशं च यत्
निरामिषस्य शुद्धस्य लब्धलक्ष्यस्य वै पदे।
विक्षोभाय क्रियाः सर्वाः या याः शास्रेण दर्शिताः
आततस्य च सर्वत्र समतामभ्युपेयुषः।
कः किं कस्मै किमर्थं वा कथं वा शक्नुयात्क्रियाम्
अग्नीषोममयौ हित्वा पन्थानौ सार्वलौकिकौ।
तयोरन्तरमाविश्य मार्गमूर्ध्वं समाचरेत्
लयाग्निदग्धदुर्मार्गः शीतीभूतो निरामयः।
स्थूलसूक्ष्मपरातीतपदाक्रान्तिविचक्षणः
पश्यञ्च्छृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि
अकुर्वन्नेव तत् सर्वं मद्भूतो ह्यनिदंमयः।
अवस्थादेशकालाद्यैरनवस्यूतयाखिलैः
115. अनवस्यूतयेति। अपरिच्छिन्नयेत्यर्थः।
अहंतया समाक्रान्तो धूमपीताग्निपीतवत्।
अनत्रा वर्तमानो हि सूर्याचन्द्रमसोर्द्वयोः
116. धूमपीतेत्यादि। यथा धूमाग्न्योर्मध्ये वर्तमानो धूमेनाग्निना च संबद्धो भवति, तथा सूर्याचन्द्रमसोरन्तरा वर्तमान इत्यर्थः।
व्यक्तमुद्दाल्य वै तालु ध्रुवस्थाने निवेशयन्।
मनः शून्यमयं भावमातिष्ठन् लयसंमितम्
एवं यो वर्तते योगी तारिकामननोद्यतः।
स कर्मठः स वै सांख्यः स योगी स च सात्त्वतः
स च पाशुपतो ज्ञेयः सर्वसिद्धान्तगश्च सः।
इत्येवं ते मयोद्दिष्टो मद्भावः पारमार्थिकः।
शृणु शेषमशेषं मे यत्ते किंचिद् विवक्षितम्
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे नित्यविधिप्रकाशो नाम चत्वारिंशोऽध्यायः
********इति चत्वारिंशोऽध्यायः********
मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0