लक्ष्मीतन्त्रम् · अध्याय 38
अष्टत्रिंशोऽध्यायः - 38
श्रीः---
एको नारायणो देवः पूर्णषाड्गुण्यविग्रहः।
तस्याहं परमा शक्तिरेकाहंता सनातनी
साधकानुग्रहार्थाय साहं साकारतां गता।
अङ्कस्था देवदेवस्य यथा पूज्ये तथा शृणु
प्राप्यानुज्ञां गणेशादेर्हृत्स्थामावाहयेत्ततः।
भावयेत् परमात्मानमन्तर्यागाभिपूजितम्
पूर्णस्तिमितषाड्गुण्यं मया शक्त्याभिपूरितम्।
तारकं तत् त्रिरुच्चार्य तारिकां तु त्रिरुच्चरेत्
आवाहयेत् ततो मन्त्रं पुंलिङ्गं समुदीरयन्।
पुरुषं पुण्डरीकाक्षं पीनोदारचतुर्भुजम्
5. पुंलिङ्गं मन्त्रमिति। प्रणवमित्यर्थः।
उच्चरन् परमं मन्त्रं रेचकेन शनैः शनैः।
अग्नीषोमद्वयान्तः स्थवर्त्मना नासिकोदरात्
दिव्यशक्तिसमावासं लक्ष्मीशमवतारयेत्।
अनाहतात् पदाद्यद्वा सर्वतः समतां गतम्
7. अनाहतं हृदयस्थं द्वादशदलं पद्मम्।
निर्गतं तु स्मरेद्देवं विद्युत्पुञ्चमिवाम्बुदात्।
सपुष्पाञ्जलिमध्यस्थं भावासनगतं न्यसेत्
संनिधिं संनिरोधं च संस्तम्भं स्थापनं तथा।
कुर्वन् मुद्राचतुष्कं तु मनसा सम्यगाचरेत्
9. संनिध्यादीनां मुद्रा अनन्तरमेव वक्ष्यन्ते।
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।
स्वां स्वां कनिष्ठिकां मृज्यात् संनिधीकरणं तु तत्
अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं तथा।
संस्तम्भसंनिरोधौ च द्वौ कृतौ भवतस्तदा
कृत्वा चतसृभिर्मुष्टिमङ्गुलीभिः करद्वये।
तिर्यक् च संमुखीकृत्य न्यसेन्मुष्टिद्वयोपरि
अङ्गुष्ठद्वितयं शक्र संस्थापनमिदं भवेत्।
एवंभूतो भवत्येवं तारादिं मन्त्रमुच्चरन्
कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेद्धरिम्।
स्नानाभरणवस्रस्रग्दानेऽलंकरणे तथा
14. कालमिति। काले इत्यर्थः। अत्यन्तसंयोगे द्वितीया।
अन्यत्र भोगयागेषु तत्तद्भोगानुकूलतः।
स्मरेच्छास्रीयसंस्थानं सानुकम्पं सुसंमुखम्
15. सानुकम्पं सुसंमुखमिति च हरिविशेषणम्।
क्लृप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते।
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा
तत्रस्थां तां स्मरेत् साक्षादाददानो हरिर्यथा।
आहूतस्य ततः सार्घ्यं पुष्पाणां पूर्णमञ्जलिम्
17. आहूतस्येति। सांनिध्यं प्रापितस्येत्यर्थः।
विक्षिप्याधोमुखैनैव पाणियुग्मेन मूर्धनि।
तारेण तारया द्वाभ्यां नमसा चार्चयेत् क्रमात्
पुष्पार्घ्यधूपलेपैस्तु मूलमन्त्रादिभिः क्रमात्।
संक्षेपं विस्तरं चापि यथाकालं समाचरेत्
19. लेपः चन्दनाद्यनुलेपः।
शक्तिं तदङ्गसंपूर्णां निराकारामनूपमाम्।
तारया पूजयेत् पस्चात्तत्तदङ्गेषु देवताः
20. अनूपमाम्; अनुपमामित्यर्थः।
अस्रभूषणशक्त्याद्याः स्वैः स्वैर्मन्त्रैः समर्चयेत्।
अयं यागो लयो नाम महान् सर्वार्थसिद्धिदः
ततो भगवतो विष्णोः शक्तिसंपूर्णविग्रहात्।
सर्वशक्तिमयीं दिव्यामेकां परमभास्वराम्
षाड्गुण्यविग्रहां देवीमनिर्देश्यामनूपमाम्।
सर्वत्र सर्वदा विष्णोः सर्वथैवानपायिनीम्
कृपया साधकार्थाय स्वयं साकारतां गताम्।
अविहायैव तं देवमाकारं पृथगेयुषीम्
उक्तक्रमेण मां पूर्वं मन्त्रेणावाहयेत् सुधीः।
आवाहनविधौ प्रोक्तं क्रमं सर्वं समाचरेत्
वामोत्सङ्गे निषण्णां च विष्णोर्मां भावयेत् प्रियाम्।
भावनीयं च मद्रूपं पूर्वमेव निदर्शितम्
तस्यां लयप्रकारेण मयि सर्वं यजेत् क्रमात्।
ततो विनिःसृतं मत्तः स्मरेच्छक्त्यादिकं क्रमात्
ज्वालायाः सुप्रदीप्तायाः स्फुलिङ्गनिचयं यथा।
भोगस्थाने यथैकैकं विन्यसेत्तत्तथा शृणु
मध्याब्जकर्णिकामध्ये भावासनगतौ स्मरेत्।
पुरुषं पुण्डरीकाक्षं तदङ्कस्थां च पङ्कजाम्
प्राच्याब्जकर्णिकामध्ये लक्ष्मीदेहाद्विनिर्गताम्।
द्विभुजां भावयेल्लक्ष्मीं द्विनेत्रां चारुकुण्डलाम्
श्वेतमाल्याम्बरधरां हारकेयूरभूषिताम्।
सर्वलक्षणसंपन्नां पीनोन्नतपयोधराम्
प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम्।
चलद्विरेफपटलरमणीयालकावलिम्
लसल्ललाटतिलकामारक्ताधरपल्लवाम्।
कृष्णकुञ्चितकेशां च वंशमुक्ताफलद्विजाम्
पद्मासनोपविष्टां च पाशाह्कुशकरद्वयीम्।
पद्मगर्भोपमाकारां संमुखीमावयोः स्मरेत्
स्मरेद्दक्षिणभागाब्जकर्णिकोदरमध्यगाम्।
वेषभूषादिभिस्तुल्यां लक्ष्म्याः कुन्दनिभां तु वा
कीर्तिं मद्रूपनिष्क्रान्तां सर्वकीर्तिमयीं पराम्।
आवयोः पश्चिमाब्जस्थकर्णिकासनसंस्थिताम्
मद्रूपनिःसृतां ध्यायेत्तादृशीमरुणां जयाम्।
स्मरेदुत्तरपद्मस्थकर्णिकोदरमध्यगाम्
मायां मद्रूपनिष्क्रान्तां तादृशीमरुणां तु वा।
आग्नेये हृदयं पद्मे शिरो यातुसरोरुहे
शिखां तु वायवीयाब्जे वर्म चेशानपङ्कजे।
मध्यपद्मपुरःपत्रे नेत्रमस्रं तु कोणके
नेत्रस्य पुरतो देवं वासुदेवं विचिन्तयेत्।
मध्यदक्षिणदिक्पत्रे स्मरेत् संकर्षणं प्रबुम्
स्मरेन्मध्यसरोजस्य प्रद्युम्नं पश्चिमे दले।
अनिरुद्धमुदक्संस्थे कोणपत्रयुगद्वये
अस्रस्य पृष्ठतो नागान् स्मरेत् पीयूषवर्ष्मणः।
गुल्गुलुं च गुरुण्यं च मदनं शललं तथा
42. गुल्गुल्वादयः नागानां संज्ञाः।
सुधाकुम्भकरान् शङ्खकुन्दगौरांश्चतूरदान्।
लक्ष्मीकमलपत्रेषु सर्वतः सौस्तुभं न्यसेत्
हृत्पङ्कजदलेष्वेवं वनमालां निवेशयेत्।
कीर्तिपङ्कजपत्रेषु भूषापद्मं निवेशयेत्
जयापङ्कजपत्रेषु वर्म पद्मदलेषु च।
पद्मेषु विन्यसेदेवं पद्मपत्रचतुष्टये
शिरःपङ्कजपत्रेषु न्यसेदङ्कुशमुत्तमम्।
न्यसेद् द्वारचतुष्काग्रे गरुडं पततां वरम्
नागान् वा तत आत्मीयद्वाराग्रेषु नियोजयेत्।
पूर्वद्वारभुवि न्यस्येत् पद्महस्तां बलाकिकाम्
श्वेतां कमलपत्राक्षीं प्रसन्नां वामनाकृतिम्।
दक्षिणद्वारतस्तद्वन्नीलां तु वनमालिकाम्
पश्चिमद्वारमध्ये तु रक्तवर्णां विभीषिकाम्।
उदीच्यद्वारमद्ये तु शंकरीं मधुदीधितिम्
प्रागादीशानपर्यन्ते बहिर्द्वारप्रदेशतः।
इन्द्रादीन् संस्मरेदष्टौ लोकपालान् सवाहनान्
अत ऊर्ध्वं च नागेशं ब्रह्माणं च विचिन्तयेत्।
तद्बहिश्च तदस्राणि वज्रादीनि विचिन्तयेत्
सोमशंकरदिङ्मध्ये खस्थितं संस्मरेत् प्रबुम्।
विष्वक्सेनमुदाराङ्गमायान्तं गगनान्तरात्
अनुक्तानामिदानीं मे ध्यानं शृणु पुरंदर।
अमृतात्मानमभ्राङ्गं पुण्डरीकायतेक्षणम्
शङ्खचक्रगदापद्मधरं श्रीवत्सवक्षसम्।
पीताम्बरं चतुर्बाहुं वासुदेवं विचिन्तयेत्
तुषारनिचयाकारं नीलवस्रं चतुर्भुजम्।
स्मरेत् संकर्षणं सीरसौनन्दकधरं परम्
55. सौनन्दकः कामपालस्य गदा।
वरदाभयहस्तं च निमग्नोद्धरणक्षमम्।
प्रद्युम्नं संस्मरेद्रक्तं रक्तवाससमीश्वरम्
शार्ङ्गं शरांश्च बिब्राणं वरदं चाभयप्रदम्।
संस्मरेदनिरुद्धं च पीतं विशदवाससम्
खड्गखेटकहस्तं च वराभयकरं परम्।
आसीनाः सर्व एवैते पुरुषाः पुष्करेक्षणाः
पश्यन्तो दिशमीशानां मां च विष्णुं च शाश्वतम्।
सिञ्चन्तोऽमृतकुम्भैर्नौ हिमशैलनिभा गजाः
सितशोणितवर्णाङ्गं शुक्लवस्रं चतुर्भुजम्।
पद्मासनोपविष्टं च पद्मशङ्खकराङ्कितम्
हृन्मुद्रालंकृतकरं वामेनाभयदं सदा।
सिताभरणवस्राढ्यं कर्पूरालिप्तविग्रहम्
आवयोः संमुखासीनं हृन्मन्त्रं संस्मरेद् बुधः।
वन्धुजीवोपमं रक्तं पद्मचक्रधरं परम्
काकालिकज्जलश्यामं पद्मकौमोदकीधरम्।
दक्षिणेनात्ममुद्राढ्यं परेणाभयदायिनम्
63. काक इव, अलिरिव, कज्जलमिव च श्यामः ; तमित्यर्थः। अथवा काकालिः अत्यन्तकृष्णवर्णः काकविशेषः।
लिप्तं मृगमदेनैव पुष्पाद्यैरसितैर्युतम्।
आवयोः संमुखासीनं कवचं संस्मरेत् प्रभुम्
हरिद्रारुणसंकाशं गदापद्मधरं क्रमात्।
स्वमुद्राकरणव्यग्रपूर्वभागकरद्वयम्
सौवर्णाम्बरभूषाढ्यं प्रलयानलविक्रमम्।
आवयोः संमुखासीनं स्मरेदस्रं महोद्यमम्
नारीर्वा संस्मरेदेतान् हृदादीन् साधकोत्तमः।
उक्तभूषणवेषाढ्याः स्वानुरूपानुलेपनाः
इत्युक्तं ध्यानमङ्गानां सर्वपापहरं शुभम्।
कौस्तुभं द्विभुजं ध्यायेत् सहस्रार्कसमप्रभम्
प्रदीप्तवेषभूषाढ्यं स्वमुद्रां दधतं हृदि।
पञ्चवर्णकृतां कान्तां वनमालां शुभेक्षणाम्
69. वनमालामिति। ध्यायेदिति शेषः।
प्रौढस्रीसदृशीं मुद्रां दधतीं हस्तयोर्द्वयोः।
पद्मं पद्ममुखं ध्यायेत् प्रसन्नं चन्द्रसंनिभम्
द्विभुजं चारुसर्वाङ्गं कराभ्यां मुद्रिकां दधत्।
नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम्
द्विभुजं याम्यहस्तेन स्वां मुद्रां दधतं परम्।
तथा वरदहस्तं च भीमरूपं भयावहम्
72. याम्यहस्तेन। दक्षिणहस्तेनेत्यर्थः।
संस्मरेदङ्कुशं तीक्ष्णं दीर्घनासं भयानकम्।
याम्येन दधतं मुद्रां पाणिना सव्यतो वरम्
प्रसिद्धा लोकपालास्ते वेषाकृतिविभूषणैः।
नराकृतीनि शस्राणि चिह्नयुक्तानि मूर्धनि
74. द्वारपालिकाः बलाकिकादयः पूर्वं 47,48,49 श्लोकेषूक्ताः।
शङ्खचक्रधरो ध्येयो विष्वक्सेनश्चतुर्भुजः।
साक्षाद्विष्णुसमो मुद्राव्यापृतोऽन्यकरद्वये
द्वाराग्रस्थं ततो ध्यायेद्गरुडं बीमलोचनम्।
रक्ततुण्डं महाघोणं तप्तचामीकरप्रभम्
पृथुदंष्ट्रं गृध्रवक्त्रं पक्षमण्डलमण्डितम्।
इति ते परिवाराणां ध्यानमुक्तं समासतः
आवयोः स्थूलयोरूर्ध्वे स्मरेत् सूक्ष्मां तु तारिकाम्।
दांपत्यं बिभ्रतीं सूक्ष्मां लक्ष्यालक्ष्यामिवानघाम्
तदूर्ध्वे तु परां तारां पूर्णषाड्गुण्यचिन्मयीम्।
दांपत्यमावयोर्दिव्यं तत्परं पारमेश्वरम्
सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्।
शब्दार्थौ भासयत् स्वेन तेजसा नित्यमुद्यता
प्रतिबिम्बमिवैतस्मिन् मन्त्रचक्रमशेषतः।
एवं क्रमोत्क्रमाकारैस्तारिकां विततां पराम्
भावेन तत्त्वतो बुद्ध्वा यथान्यासं समर्चयेत्।
आदितः सकलावासावर्चयेन्नौ धियानघौ
अर्घ्यादिप्रापणान्तेन भोगजालेन मन्त्रवित्।
शक्त्यादिविष्वक्सेनान्तं परिवारं ततोऽर्चयेत्
सर्वादौ गरुडं देवीश्चतस्रो द्वारपालिकाः।
भोगयागक्रमेणायं न्यासस्ते शक्र दर्शितः।
यावन्तो यादृशा ये च भोगास्तांस्त्वं निबोध मे
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो नामाष्टत्रिंशोऽध्यायः
********इत्यष्टत्रिंशोऽध्यायः********
मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0