भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 983-1002

983

सो ऽपदादौ

984

पाशकल्पककाम्येषु विसर्गस्य सः ॥
कस्कादिषु च

985

एष्विण उत्तरस्य विसर्गस्य षो ऽन्यस्य तु सः । इति सः । व्यूढोरस्कः ॥
इणः षः

986

इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु । प्रियसर्पिष्कः ॥
निष्ठा

987

निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । युक्तयोगः ॥
शेषाद्विभाषा

988

अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा । महायशस्कः, महायशाः ॥
इति बहुव्रीहिः ॥ 4 ॥
अथ द्वन्द्वः
चार्थे द्वन्द्वः

989

अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेत रेतरयोगसमाहाराश्चार्थाः । तत्र "ईश्वरं गुरुं च भजस्वऽ; इति परस्परनिरपेक्षस्यानेक स्यैकस्मिन्नन्वयः समुच्चयः । "भिक्षामट गां चानयऽ; इत्यन्यतरस्यानुषङ्गिकत्वेन अन्वयो ऽन्वाचयः । अनयोरसामर्थ्यात्समासो न । "धवखदिरौ छिन्धिऽ; इति मिलितानामन्वय इतरेतरयोगः । "संज्ञापरिभाषम्ऽ; इति समूहः समाहारः ॥
राजदन्तादिषु परम्

990

एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजानो राजदन्ताः । ( धर्मादिष्वनियम ः) । अर्थधर्मौ । धर्मार्थावित्यादि ॥
द्वन्द्वे घि

991

द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥
अजाद्यदन्तम्

992

द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ ॥
अल्पाच्तरम्

993

शिवकेशवौ ॥
पिता मात्रा

994

मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ, मातापितरौ वा ॥
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्

995

एषां द्वन्द्व एकवत् । पाणिपादम् । मार्दङ्गिकवैणविकम् । रथिकाश्वारोहम् ॥
द्वन्द्वाच्चुदषहान्तात्समाहारे

996

चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक् च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् ? प्रावृट्शरदौ ॥
इति द्वन्द्वः ॥ 5 ॥
अथ समासान्ताः
ऋक्पूरब्धूःपथामानक्षे

997

अ अनक्षे इतिच्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययो ऽन्तावयवो ऽक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । विष्णुपुरम् । विमलापं सरः । राजधुरा । अक्षे तु अक्षधूः । दृढधूरक्षः । सखिपथः । रम्यपथो देशः ॥
अक्ष्णो ऽदर्शनात्

998

अचक्षुःपर्यायादक्ष्णो ऽच् स्यात्समासान्तः । "गवामक्षीव गवाक्षःऽ; ॥
उपसर्गादध्वनः

999

प्रगतो ऽध्वानं प्राध्वो रथः ॥
न पूजनात्

1000

पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥
इति समासान्ताः ॥
अथ तद्धिताः, तत्रादौ साधारणप्रत्ययाः
समर्थानां प्रथमाद्वा

1001

इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत् ॥
अश्वपत्यादिभ्यश्च

1002

एभ्यो ऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् ॥
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc