लघुसिद्धान्तकौमुदी · श्लोक 1003-1022
दित्यादिभ्यः पत्युततरपदाच्च प्राग्दीव्यतियेष्वर्थेषु ण्यः स्यात् । अणो ऽपवादः । दितेरपत्यं दैत्यः । अदितेरादित्यस्य वा ॥
हलो यमां यमि लोपः
हलः परस्य यमो लोपः स्याद् वा यमि । इति यलोपः । आदित्यः । प्राजापत्यः । ( देवाद्यञञौ ) । दैव्यम्। दैवम् । ( बहिषष्टिलोपो यञ्च ) । बाह्यः ( ईकक्च ) ॥
किति च
किति तद्धिते चाचामादेरचो वृद्धिः स्यात् । वाहीकः । ( गोरजादिप्रसङ्गे यत् ) । गोरपत्यादि गव्यम् ॥
उत्सादिभ्यो ऽञ्
औत्सः ॥
इत्यपत्यादिविकारान्तार्थ साधारणप्रत्ययाः ॥ 1 ॥
अथापत्याधिकारः
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पैंस्नः ॥
तस्यापत्यम्
षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः ॥
ओर्गुणः
उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पैंस्नः ॥
अपत्यं पौत्रप्रभृति गोत्रम्
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
एको गोत्रे
गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमौपगवः ॥
गर्गादिभ्यो यञ्
गोत्रापत्ये । गर्गस्य गोत्रापत्यं गार्ग्यः । वात्स्यः ॥
यञञोश्च
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम् । गर्गाः । वत्साः ॥
जीवति तु वंश्ये युवा
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात् ॥
गोत्राद्यून्यस्त्रियाम्
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा ॥
यञिञोश्च
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात् ॥
आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः । दाक्षायणः ॥
अत इञ्
अपत्येर्ऽथे । दाक्षिः ॥
बाह्वादिभ्यश्च
बाहविः । औडुलोमिः । ( लोम्नो ऽपत्येषु बहुष्वकारो वक्तव्य ः) । उडुलोमाः । आकृतिगणो ऽयम् ॥
अनृष्यानन्तर्ये बिदादिभ्यो ऽञ्
एभ्यो ऽञ् गोत्रे । ये त्वत्रानृषयस्तेभ्यो ऽपत्ये ऽन्यत्र तु गोत्रे । बिदस्य गोत्रं बैदः । बैदौ । बिदाः । पुत्रस्यापत्यं पौत्रः । पौत्रौ । पौत्राः । एवं दौहित्रादयः ॥
शिवादिभ्यो ऽण्
अपत्ये । शैवः । गाङ्गः ॥
ऋष्यन्धकवृष्णिकुरुभ्यश्च
ऋषिभ्यः - वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः - श्वाफल्कः । वृष्णिभ्यः - वासुदेवः । कुरुभ्यः - नाकुलः । साहदेवः ॥
मातुरुत्संख्यासंभद्रपूर्वायाः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0