लघुसिद्धान्तकौमुदी · श्लोक 963-982
महत आकारो ऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाराजः । प्रकारवचने जातीयर् । महाप्रकारो महाजातीयः ॥
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः
आत्स्यात् । द्वौ च दश च द्वादश । अष्टाविंशतिः ॥
त्रेस्त्रयः
त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् ॥
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः
एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । ( द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्य ः) । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः ॥
प्राप्तापन्ने च द्वितीयया
समस्येते । अकारश्चानयोरन्तादेशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै - अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥
अर्धर्चाः पुंसि च
अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्धर्चम् । एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः । सामान्ये नपुंसकम् । मृदु पचति । प्रातः कमनीयम् ॥
इति तत्पुरुषः ॥ 3 ॥
अथ बहुव्रीहिः
शेषो बहुव्रीहिः
अधिकारो ऽयं प्राग्द्वन्द्वात् ॥
अनेकमन्यपदार्थे
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः ॥
सप्तमीविशेषणे बहुव्रीहौ
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात् । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ॥
हलन्तात्सप्तम्याः संज्ञायाम्
हलन्ताददन्ताच्च सप्तम्या अलुक् । कण्ठेकालः । प्राप्तमुदकं यं स प्राप्तोदको ग्रामः । ऊढरथो ऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । ( प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप ः) । प्रपतितपर्णः, प्रपर्णः । ( नञो ऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप ः) अविद्यमानपुत्रः, अपुत्रः ॥
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु
उक्तपुंस्कादनूङ् ऊङोऽभावो ऽस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोरिति ह्रस्वः । चित्रगुः । रूपवद्भार्यः । अनूङ् किम् ? वामोरूभार्यः ॥ पूरण्यां तु - .
अप्पूरणीप्रमाण्योः
पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहे रप्स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणी पञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः । अप्रियादिषु किम् ? कल्याणीप्रिय इत्यादि ॥
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जलजाक्षी । स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णो ऽदर्शनादिति वक्ष्यमाणो ऽच् ॥
द्वित्रिभ्यां ष मूर्ध्नः
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ॥
अन्तर्बहिभ्यां च लोम्नः
आभ्यां लोम्नो ऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥
पादस्य लोपो ऽहस्त्यादिभ्यः
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् ? हस्तिपादः । कुसूलपादः ॥
संख्यासुपूर्वस्य
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥
उद्विभ्यां काकुदस्य
लोपः स्यात् । उत्काकुत् । विकाकुत् ॥
पूर्णाद्विभाषा
पूर्णकाकुत् । पूर्णकाकुदः ॥
सुहृद्दुर्हृदौ मित्रामित्रयोः
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुर्हृदमित्रः ॥
उरः प्रभृतिभ्यः कप्
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0