भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 943-962

943

गो ऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि । पञ्चगवधनः ॥
तत्पुरुषः समानाधिकरणः कर्मधारयः

944

संख्यापूर्वो द्विगुः

945

तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात् ॥
द्विगुरेकवचनम्

946

द्विग्वर्थः समाहार एकवत्स्यात् ॥
स नपुंसकम्

947

समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । पञ्चानां गवां समाहारः पञ्चगवम् ।
विशेषणं विशेष्येण बहुलम्

948

भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः । क्वचिन्न - रामो जामदग्न्यः ॥
उपमानानि सामान्यवचनैः

949

घन इव श्यामो घनश्यामः । ( शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् ) । शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको ब्राह्मणो देवब्राह्मणः ॥
नञ्

950

नञ् सुपा सह समस्यते ॥
नलोपो नञः

951

नञो नस्य लोप उत्तरपदे । न ब्राह्मणः अब्राह्मणः ॥
तस्मान्नुडचि

952

लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः ॥
कुगतिप्रादयः

953

एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः ॥
ऊर्यादिच्विडाचश्च

954

ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । सुपुरुषः ॥ (प्रादयो गताद्यर्थे प्रथमया ) । प्रगत आचार्यः प्राचार्यः । ( अत्यादयः क्रान्ताद्यर्थे द्वितीयया ) । अतिक्रान्तो मालामिति विग्रहे - .
एकविभक्ति चापूर्वनिपाते

955

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः ॥
गोस्त्रियोरुपसर्जनस्य

956

उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अतिमालः । (अवादयः क्रुष्टाद्यर्थे तृतीयया ) । अवक्रुष्टः कोकिलया - अवकोकिलः । ( पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ) । परिग्लानो ऽध्ययनाय पर्यध्ययनः । ( निरादयः क्रान्ताद्यर्थे पञ्चम्या ) । निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः ॥
तत्रोपपदं सप्तमीस्थम्

957

सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् ॥
उपपदमदिङ्

958

उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भम् करोति कुम्भकारः । अतिङ् किम् ? मा भवान् भूत् । माङि लुङिति सप्तमीनिर्देशान्माङुपपदम् । (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः । व्याघ्री । अश्वक्रीती । कच्छपीत्यादि ॥
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः

959

संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तो ऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम् । निर्गतमङ्गुल्यो निरङ्गुलम् ॥
अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः

960

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । अहर्ग्रहणं द्वन्द्वार्थम् ॥
रात्राह्नाहाः पुंसि

961

एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अहश्च रात्रिश्चाहोरात्रः । सर्वरात्रः । संख्यातरात्रः । ( संख्यापूर्वं रात्रं क्लीबम् ) । द्विरात्रम् । त्रिरात्रम् ॥
राजाहः सखिभ्यष्टच्

962

एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः ॥
आन्महतः समानाधिकरणजातीययोः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc