लघुसिद्धान्तकौमुदी · श्लोक 923-942
नान्तस्य भस्य टेर्लोपस्तद्धिते । उपराजम् । अध्यात्मम् ॥
नपुंसकादन्यतरस्याम्
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥
झयः
झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम् । उपसमित् ॥
इत्यव्ययीभावः ॥ 2 ॥
अथ तत्पुरुषः
तत्पुरुषः
अधिकारो ऽयं प्राग्बहुव्रीहेः ॥
द्विगुश्च
द्विगुरपि तत्पुरुषसंज्ञकः स्यात् ॥
द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः । कृष्णं श्रितः कृष्णश्रित इत्यादि ॥
तृतीया तत्कृतार्थेन गुणवचनेन
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत् । शङ्कुलया खण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् ? अक्ष्णा काणः ॥
कर्तृकरणे कृता बहुलम्
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नः नखभिन्नः । (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । नखनिर्भिन्नः ॥
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत् । यूपाय दारु यूपदारु । ( तदर्थेन प्रकृतिविकृतिभाव एवेष्ट ः) । तेनेह न - रन्धनाय स्थाली । ( अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् ) । द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥
पञ्चमी भयेन
चोराद्भयं चोरभयम् ॥
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन
पञ्चम्याः स्तोकादिभ्यः
अलुगुत्तरपदे । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । कृच्छ्रादागतः ॥
षष्ठी
सुबन्तेन प्राग्वत् । राजपुरुषः ॥
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकाधिकरणे किम् ? पूर्वश्छात्राणाम् ॥
अर्धं नपुंसकम्
समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । अर्धं पिप्पल्याः अर्धपिप्पली ।
सप्तमी शौण्डैः
सप्तम्यन्तं शौण्डादिभिः प्राग्वत् । अक्षेषु शौण्डः अक्षशोण्ड इत्यादि । द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः ॥
दिक्संख्ये संज्ञायाम्
संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । तेनेह न - उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥
तद्धितार्थोत्तरपदसमाहारे च
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत् । पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव ः) ॥
दिक्पूर्वपदादसंज्ञायां ञः
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम् ॥
तद्धितेष्वचामादेः
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात् । यस्येति च । पौर्वशालः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ । ( द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्य समासवचनम् ) ॥
गोरतद्धितलुकि
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0