भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 903-922

903

अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात् ॥
अपादाने पञ्चमी

904

ग्रामादायाति । धावतो ऽश्वात्पततीत्यादि ॥
इति पञ्चमी ।
षष्ठी शेषे

905

कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः संबन्धः शेषस्तत्र षष्ठी । राज्ञः पुरुषः । कर्मादीनापि संबन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधोदकस्योपस्कुरुते । भजे शम्भोश्चरणयोः ॥
इति षष्ठी ।
आधारो ऽधिकरणम्

906

कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात् ॥
सप्तम्यधिकरणे च

907

अधिकरणे सप्तमी स्यात्, चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिको ऽ; भिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा ॥
इति सप्तमी ।
इति विभक्त्यर्थाः ॥
अथ समासाः
तत्रादौ केवलसमासः । समासः पञ्चधा । तत्र समसनं समासः । स च विशेषसंज्ञा विनिर्मुक्तः केवलसमासः प्रथमः ॥ 1 ॥ प्रायेण पूर्वपदार्थप्रधानो ऽव्ययीभावो द्वितीयः ॥ 2 ॥ प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः ॥ तत्पुरुषभेदः कर्मधारयः । कर्मधारयभेदो द्विगुः ॥ 3 ॥ प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः ॥ 4 ॥ प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः ॥ 5 ॥
समर्थः पदविधिः

908

पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥
प्राक्कडारात्समासः

909

कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥
सह सुपा

910

सुप् सुपा सह वा समस्यते ॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक् । परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । सच लौकिको ऽलौकिकश्चेति द्विधा । तत्र पूर्वं भूत इति लौकिकः "पूर्व अम् भूत सुऽ; इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः । (इवेन समासो विभक्त्यलोपश्च ) । वागर्थौ इव वागर्थाविव ॥
इति केवलसमासः ॥ 1 ॥
अथाव्ययीभावः
अव्ययीभावः

911

अधिकारो ऽयं प्राक् तत्पुरुषात् ॥
अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्त वचनेषु

912

विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सो ऽव्ययीभावः । प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा । विभक्तौ, हरि ङि अधि इति स्थिते ॥
प्रथमानिर्दिष्टं समास उपसर्जनम्

913

समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥
उपसर्जनं पूर्वम्

914

समासे उपसर्जनं प्राक्प्रयोज्यम् । इत्यधेः प्राक् प्रयोगः । सुपो लुक् । एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः । अव्ययीभावश्चेत्य व्ययत्वात्सुपो लुक् । अधिहरि ॥
अव्ययीभावश्च

915

अयं नपुंसकं स्यात् ॥
नाव्ययीभावादतो ऽम्त्वपञ्चम्याः

916

अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमी विना अमादेशश्च स्यात् ॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम् ॥
तृतीयासप्तम्योर्बहुलम्

917

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् । अधिगोपम्, अधिगोपेन, अधिगोपे वा । कृष्णस्य समीपम् उपकृष्णम् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययो ऽतिहिमम् । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः पश्चादनुविष्णु । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । रूपस्य योग्यमनुरूपम् । अर्थमर्थं प्रति प्रर्त्षथम् । शक्तिमनतिक्रम्य यथाशक्ति ॥
अव्ययीभावे चाकाले

918

सहस्य सः स्यादव्ययीभावे न तु काले । हरेः सादृश्यं सहरि । ज्येष्ठस्यानु पूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपत् सचक्रम् । सदृशः सख्या ससखि । क्षत्राणां संपत्तिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥
नदीभिश्च

919

नदीभिः सह संख्या समस्यते । ( समाहारे चायमिष्यते ) । पञ्चगङ्गम् । द्वियमुनम् ॥
तद्धिताः

920

आपञ्चमसमाप्तेरधिकारो ऽयम् ॥
अव्ययीभावे शरत्प्रभृतिभ्यः

921

शरदादिभ्यष्टच् स्यात्समासान्तो ऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । ( जराया जरश्च ) । उपजरसमित्यादि ॥
अनश्च

922

अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
नस्तद्धिते

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc