भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 883-902

883

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । भुक्त्वा पीत्वा व्रजति ॥
न क्त्वा सेट्

884

सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् ? कृत्वा ॥
रलो व्युपधाद्धलादेः संश्च

885

इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा, द्योतित्वा । लिखित्वा, लेखित्वा । व्युपधात्किम् ? वर्तित्वा । रलः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥
उदितो वा

886

उदितः परस्य क्तव इड्वा । शमित्वा, शान्त्वा । देवित्वा, द्यूत्वा । दधातेर्हिः । हित्वा ॥
जहातेश्च क्त्वि

887

हित्वा । हाङस्तु - हात्वा ॥
समासे ऽनञ्पूर्वे क्त्वो ल्यप्

888

अव्ययपूर्वपदे ऽनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् ? अकृत्वा ॥
आभीक्ष्ण्ये णमुल् च

889

आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च ॥
नित्यवीप्सयोः

890

आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च । स्मारंस्मारं नमति शिवम् । स्मृत्वास्मृत्वा । पायम्पायम् । भोजम्भोजम् । श्रावंश्रावम् ॥
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्

891

एषु कृञो णमुल् स्यात् । सिद्धो ऽप्रयोगो ऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । सिद्धेति किम् ? शिरो ऽन्यथा कृत्वा भुङ्क्ते ॥
इत्युत्तरकृदन्तम् ॥
इति कृदन्तम् ॥
अथ विभक्तयर्थाः
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा

892

नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमा स्यात् । प्रातिपदिकार्थमात्रे - उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । लिङ्गमात्रे - तटः, तटी, तटम् । परिमाणमात्रे - द्रोणो व्रीहिः । वचनं संख्या । एकः, द्वौ, बहवः ॥
सम्बोधने च

893

प्रथमा स्यात् । हे राम ।
इति प्रथमा ।
कर्तुरीप्सिततमं कर्म

894

कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ॥
कर्मणि द्वितीया

895

अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मादौ प्रथमा - हरिः सेव्यते । लक्ष्म्या सेवितः ॥
अकथितं च

896

अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्याच्पच्दण्ड् रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥ 1 ॥
गां दोग्धि पयः । बलिं याचते वसुधाम् । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिवत्ते वक्तीत्यादि ॥
इति द्वितीया ।
स्वतन्त्रः कर्ता

897

क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात् ॥
साधकतमं करणम्

898

क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् ॥
कर्तृकरणयोस्तृतीया

899

अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली॥
इति तृतीया ।
कर्मणा यमभिप्रैति स सम्प्रदानम्

900

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥
चतुर्थी सम्प्रदाने

901

विप्राय गां ददाति ॥
नमस्स्वस्तिस्वाहास्वधालंवषड्योगाच्च

902

एभिर्योगे चतुर्थी । हरये नमः । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि ॥
इति चतुर्थी ।
ध्रुवमपाये ऽपादानम्

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc