भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 863-882

863

टुवेपृ कम्पने, वेपथुः ॥
यजयाचयतविच्छप्रच्छरक्षो नङ्

864

यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । रक्ष्णः ॥
स्वपो नन्

865

स्वप्नः ॥
उपसर्गे घोः किः

866

प्रधिः । उपधिः ॥
स्त्रियां क्तिन्

867

स्त्रीलिङ्गे भावे क्तिन् स्यात् । घञो ऽपवादः । कृतिः । स्तुतिः । ( ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्य ः) । तेन नत्वम् । कीर्णिः । लूनिः । धूनिः । पूनिः । ( संपदादिभ्यः क्विप् ) । संपत् । विपत् । आपत् । ( क्तिन्नपीष्यते ) । संपत्तिः । विपत्तिः । आपत्तिः ॥
ऊतियूतिजूतिसातिहेतिकीर्तयश्च

868

एते निपात्यन्ते ॥।
ज्वरत्वरस्रिव्यविमवामुपधायाश्च

869

एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति ॥ अतः क्विप् । जूः । तूः । स्रूः । ऊः । मूः ॥
इच्छा

870

इषेर्निपातो ऽयम् ॥
अ प्रत्ययात्

871

प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥
गुरोश्च हलः

872

गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात् । ईहा ॥
ण्यासश्रन्थो युच्

873

अकारस्यापवादः । कारणा । हारणा ॥
नपुंसके भावे क्तः

874

ल्युट् च

875

हसितम्, हसनम् ॥
पुंसि संज्ञायां घः प्रायेण

876

छादेर्घे ऽद्व्युपसर्गस्य

877

द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्ते ऽनेनेति दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥
अवे तॄस्त्रोर्घञ्

878

अवतारः कूपादेः । अवस्तारो जवनिका ॥
हलश्च

879

हलन्ताद्घञ् । घापवादः । रमन्ते योगिनो ऽस्मिन्निति रामः । अपमृज्यते ऽनेन व्याध्यादिरित्यपामार्गः ॥
ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्

880

करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च । कृच्छ्रे - दुष्करः कटो भवता । अकृच्छ्रे - ईषत्करः । सुकरः ॥
आतो युच्

881

खलो ऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ॥
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा

882

प्रतिषेधार्थेयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः । दो दद्घोः । अलं दत्त्वा । घुमास्थेतीत्त्वम् । पीत्वा खलु । अलंखल्वोः किम्? मा कार्षीत् । प्रतिषेधयोः किम्? अलंकारः ॥
समानकर्तृकयोः पूर्वकाले

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc