लघुसिद्धान्तकौमुदी · श्लोक 843-862
प्रत्ययस्यादिः ष इत्संज्ञः स्यात् । जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥
सनाशंसभिक्ष उः
चिकीर्षुः । आशंसुः । भिक्षुः ॥
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्
विभ्राट् । भाः ॥
राल्लोपः
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति । धूः । विद्युत् । ऊर्क । पूः । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । ग्रावस्तुत् । ( क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसम्प्रसारणं च ) । वक्तीति वाक् ॥
च्छ्वोः शूडनुनासिके च
सतुक्कस्य छस्य वस्य च क्रामात् श् ऊठ् इत्यादेशौ स्तो ऽनुनासिके क्वौ झलादौ च क्ङिति । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं श्रीः ॥
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे
दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे । दात्यनेन दात्रम् । नेत्रम् ॥
तितुत्रतथसिसुसरकसेषु च
एषां दशानां कृत्प्रत्ययानामिण् न। शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्त्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥
अर्तिलूधूसूखनसहचर इत्रः
अरित्रम् । लवित्रम् । धुवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
पुवः संज्ञायाम्
wएइतेर् स्. 139
पवित्रम् ॥
इति पूर्वकृदन्तम् ॥
अथोणादयः
कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ 1 ॥
करोतीति कारुः । वातीति वायुः । पायुर्गुदम् । जायुरौषधम् । मायुः पित्तम् । स्वादुः । साध्नोति परकार्यमिति साधुः । आशु शीघ्रम् ॥
उणादयो बहुलम्
एते वर्तमाने संज्ञायाम् च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥
इत्युणादयः ॥
अथोत्तरकृदन्तम्
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति ॥
कालसमयवेलासु तुमुन्
कालार्थेषूपपदेषु तुमुन् । कालः समयो वेला वा भोक्तुम् ॥
भावे
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् । पाकः ॥
अकर्तरि च कारके संज्ञायाम्
कर्तृभिन्ने कारके घञ् स्यात् ॥
घञि च भावकरणयोः
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः ॥
निवासचितिशरीरोपसमाधानेष्वादेश्च कः
एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणम् । निकायः । कायः। गोमयनिकायः ॥
एरच्
इवर्णान्तादच् । चयः । जयः ॥
ॠदोरप्
ॠवर्णान्तादुवर्णान्ताच्चाप् । करः । गरः । यवः । लवः । स्तवः । पवः । ( घञर्थे कविधानम् ) । प्रस्थः । विघ्नः ॥
ड्वितः क्त्रिः
क्त्रेर्मम्नित्यम्
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेर्ऽथे । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥
ट्वितो ऽथुच्
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0