भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 823-842

823

अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः । जीनः ॥
ओदितश्च

824

भुजो भुग्नः । टुओश्वि , उच्छूनः ॥
शुषः कः

825

निष्ठातस्य कः ॥ शुष्कः ॥
पचो वः

826

पक्वः ॥ क्षै क्षये ॥
क्षायो मः

827

क्षामः ॥
निष्ठायां सेटि

828

णेर्लोपः । भावितः । भावितवान् । दृह हिंसायाम् ॥
दृढः स्थूलबलयोः

829

स्थूले बलवति च निपात्यते ॥
दधातेर्हिः

830

तादौ किति । हितम् ॥
दो दद् घोः

831

घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति । चर्त्वंम् । दत्तः ॥
लिटः कानज्वा

832

क्वसुश्च

833

लिटः कानच् क्वसुश्च वा स्तः । तङानावात्मनेपदम् । चक्राणः ॥
म्वोश्च

834

मान्तस्य धातोर्नत्वं म्वोः परतः । जगन्वान् ॥
लटः शतृशानचावप्रथमासमानाधिकरणे

835

अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः । शबादि । पचन्तं चैत्रं पश्य ॥
आने मुक्

836

अदन्ताङ्गस्य मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्ये ऽपि क्वचित् । सन् द्विजः ॥
विदेः शतुर्वसुः

837

वेत्तेः परस्य शतुर्वसुरादेशो वा । विदन् । विद्वान् ॥
तौ सत्

838

तौ शतृशानचौ सत्संज्ञौ स्तः ॥
ऌटः सद्वा

839

व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्योत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य ॥
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

840

क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः ॥
तृन्

841

कर्ता कटान् ॥
जल्पभिक्षकुट्टलुण्टवृङः षाकन्

842

षः प्रत्ययस्य

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc