लघुसिद्धान्तकौमुदी · श्लोक 803-822
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥
नेड्वशि कृति
वशादेः कृत इण् न स्यात् ॥ शॄ हिंसायाम् ॥ सुशर्मा प्रातरित्वा ॥
विड्वनोरनुनासिकस्याऽत्
अनुनासिकस्याऽत्स्यात् । विजायत इति विजावा ॥ ओणृ अपनयने ॥ अवावा । विच् ॥ रुष रिष हिंसायाम् ॥ रोट् । रेट् । सुगण् ॥
क्विप् च
अयमपि दृश्यते । उखास्रत् । पर्णध्वत् । बाहभ्रट् ॥
सुप्यजातौ णिनिस्ताच्छील्ये
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये । उष्णभोजी ॥
मनः
सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥
आत्ममाने खश्च
स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी ॥
खित्यनव्ययस्य
खिदन्ते परे पूर्वपदस्य ह्रस्वः । ततो मुम् । कालिम्मन्या ॥
करणे यजः
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥
दृशेः क्वनिप्
कर्मणि भूते । पारं दृष्टवान् पारदृश्वा ॥
राजनि युधि कृञ
क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥
सहे च
कर्मणीति निवृत्तम् । सह योधितवान् सहयुध्वा । सहकृत्वा ॥
सप्तम्यां जनेर्डः
तत्पुरुषे कृति बहुलम्
ङेरलुक् । सरसिजम्, सरोजम् ॥
उपसर्गे च संज्ञायाम्
प्रजा स्यात्संततौ जने ॥
क्तक्तवतू निष्ठा
एतौ निष्ठासंज्ञौ स्तः ॥
निष्ठा
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेवेति भावकर्मणोः क्तः । कर्तरि कृदिति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विश्वं कृतवान् विष्णुः ॥
रदाभ्यां निष्ठातो नः पूर्वस्य च दः
रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च ॥ शृ हिंसायाम् ॥ ऋत इत् । रपरः । णत्वम् । शीर्णः । भिन्नः । छिन्नः ॥
संयोगादेरातो धातोर्यण्वतः
निष्ठातस्य नः स्यात् । द्राणः । ग्लानः ॥
ल्वादिभ्यः
एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः ॥ ज्या धातुः ॥ ग्रहिज्येति संप्रसारणम् ॥
हलः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0