लघुसिद्धान्तकौमुदी · श्लोक 783-802
मृजेः क्यब्वा । मृज्यः ॥
ऋहलोर्ण्यत्
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत् । कार्यम् । हार्यम् । धार्यम् ॥
चजोः कु घिण्ण्यतोः
चजोः कुत्वं स्यात् घिति ण्यति च परे ॥
मृजेर्वृद्धिः
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः । मार्ग्यः ॥
भोज्यं भक्ष्ये
भोग्यमन्यत् ॥
इति कृत्यप्रक्रिया ॥
अथ पूर्वकृदन्तम्
ण्वुल्तृचौ
धातोरेतौ स्तः । कर्तरि कृदिति कर्त्रर्थे ॥
युवोरनाकौ
यु वु एतयोरनाकौ स्तः । कारकः । कर्ता ॥
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । लवणः । ग्राही । स्थायी । मन्त्री । पचादिराकृतिगणः ॥
इगुपधज्ञाप्रीकिरः कः
एभ्यः कः स्यात् । बुधः । कृशः । ज्ञः । प्रियः । किरः ॥
आतश्चोपसर्गे
प्रज्ञः । सुग्लः ॥
गेहे कः
गेहे कर्तरि ग्रहेः कः स्यात् । गृहम् ॥
कर्मण्यण्
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । कुम्भं करोतीति कुम्भकारः ॥
आतो ऽनुपसर्गे कः
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात् । अणो ऽपवादः । आतो लोप इटि च । गोदः । धनदः । कम्बलदः । अनुपसर्गे किम् ? गोसन्दायः । (वा.) मूलविभुजादिभ्यः कः । मूलानि विभुजति मूलविभुजो रथः । आकृतिगणो ऽयम् । महीध्रः । कुध्रः ॥
चरेष्टः
अधिकरणे उपपदे । कुरुचरः ॥
भिक्षा सेनादायेषु च
भिक्षाचारः । सेनाचारः । आदायेति ल्यबन्तम् । आदायचरः ॥
कृञो हेतुताच्छील्यानुलोम्येषु
एषु द्योत्येषु करोतेष्टः स्यात् ॥
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥
एजेः खश्
ण्यन्तादेजेः खश् स्यात् ॥
अरुर्द्विषदजन्तस्य मुम्
अरुषो द्विषतो ऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य । शित्त्वाच्छबादिः । जनमेजयतीति जनमेजयः ॥
प्रियवशे वदः खच्
प्रियंवदः । वशंवदः ॥
अन्येभ्यो ऽपि दृश्यन्ते
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0