लघुसिद्धान्तकौमुदी · श्लोक 763-782
लभेर्नुमागमो वा स्यात् । अलम्भि, अलाभि ॥
इति भावप्रक्रिया ॥
अथ कर्मकर्तृप्रक्रिया
यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः ॥
कर्मवत्कर्मणा तुल्यक्रियः
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशो ऽयम् । तेन यगात्मनेपदचिण्वदिटः स्युः । पच्यते फलम् । भिद्यते काष्ठम् । अभेदि । भावे, भिद्यते काष्ठेन ॥
इति कर्मकर्तृप्रक्रिया ॥
अथ लकारार्थप्रक्रिया
अभिज्ञावचने ऌट्
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोरॢट् । लङोऽपवादः ॥ वस निवासे ॥ स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे, चेतयसे, इत्यादिप्रयोगे ऽपि ॥
न यदि
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्ज्महि ॥
लट् स्मे
लिटो ऽपवादः । यजति स्म युधिष्ठिरः ॥
वर्तमानसमीप्ये वर्तमानवद्वा
वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः । कदागतो ऽसि । अयमागच्छामि, अयमागमं वा । कदा गमिष्यसि । एष गच्छामि, गमिष्यामि वा ॥
हेतुहेतुमतोर्लिङ्
वा स्यात् । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । ( भविष्यत्येवेष्यते ) । नेह । हन्तीति पलायते ॥ विधिनिमन्त्रणेति लिङ् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । यजेत ॥ निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । इह भुञ्जीत ॥ आमन्त्रणं कामचारानुज्ञा । इहासीत ॥ अधीष्ट ं सत्कारपूर्वको व्यापारः । पुत्रमध्यापयेद् भवान् ॥ संप्रश्नः संप्रधारणम् । किं भो वेदमधीयीय उत तर्कम् ॥ प्रार्थनं याच्ञा । भो भोजनं लभेय । एवं लोट् ॥
इति लकारार्थप्रक्रिया ॥
इति तिङन्तं समाप्तम् ॥
अथ कृदन्ते कृत्प्रक्रिया
धातोः
आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । कृदतिङिति कृत्संज्ञा ॥
वासरूपो ऽस्त्रियाम्
अस्मिन्धात्वधिकारे ऽसरूपो ऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥
कृत्याः
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः ॥
कर्तरि कृत्
कृत्प्रत्ययः कर्तरि स्यात् । इति प्राप्ते --.
तयोरेव कृत्यक्तखलर्थाः
एते भावकर्मणोरेव स्युः ॥
तव्यत्तव्यानीयरः
धातोरेते प्रत्ययाः स्युः । एधितव्यम्, एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया (केलिमर उपसंख्यानम्) पचेलिमा माषाः । पक्तव्या इत्यर्थः । भिदेलिमाः सरलाः । भेत्तव्या इत्यर्थः । कर्मणि प्रत्ययः ॥
कृत्यल्युटो बहुलम्
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव ।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ 1 ॥
स्नात्यनेनेति स्नानीयं चूर्णम् । दीयते ऽस्मै दानीयो विप्रः ॥
अचो यत्
अजन्ताद्धातोर्यत् स्यात् । चेयम् ॥
ईद्यति
यति परे आत ईत्स्यात् । देयम् । ग्लेयम् ॥
पोरदुपधात्
पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतो ऽपवादः । शप्यम् । लभ्यम् ॥
एतिस्तुशास्वृदृजुषः क्यप्
एभ्यः क्यप् स्यात् ॥
ह्रस्वस्य पिति कृति तुक्
इत्यः । स्तुत्यः । शासु अनुशिष्टौ ॥
शास इदङ्हलोः
शास उपधाया इत्स्यादङि हलादौ क्ङिति । शिष्यः । वृत्यः । आदृत्यः । जुष्यः ॥
मृजेर्विभाषा
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0