भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 743-762

743

धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः ॥
समस्तृतीयायुक्तात्

744

रथेन सञ्चरते ॥
दाणश्च सा चेच्चतुर्थ्यर्थे

745

सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते कामी ॥
पूर्ववत्सनः

746

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिष्यते ॥
हलन्ताच्च

747

इक्समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते ॥
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु

748

कृञः
गन्धनं सूचनम् । उत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुत्कुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवत इत्यर्थः । परदारान् प्रकुरुते । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । कथाः प्रकुरुते । प्रकथयतीत्यर्थः । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् ? कटं करोति ॥
भुजो ऽनवने
ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥
इत्यात्मनेपदप्रक्रिया ॥
अथ परस्मैपदप्रक्रिया
अनुपराभ्यां कृञः

749

कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात् । अनुकरोति । पराकरोति ॥
अभिप्रत्यतिभ्यः क्षिपः

750

क्षिप प्रेरणे स्वरितेत् । अभिक्षिपति ॥
प्राद्वहः

751

प्रवहति ॥
परेर्मृषः

752

परिमृष्यति ॥
व्याङ्परिभ्यो रमः

753

रमु क्रीडायाम् ॥ विरमति ॥
उपाच्च

754

यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थो ऽयम् ॥
इति परस्मैपदप्रक्रिया ॥
इति पदव्यवस्था ॥
अथ भावकर्मप्रक्रिया
भावकर्मणोः

755

लस्यात्मनेपदम् ॥
सार्वधातुके यक्

756

धातोर्यक् भावकर्मवाचिनि सार्वधातुके । भावः क्रिया । सा च भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः । तिङ्वाच्यक्रियाया अद्रव्य रूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किंत्वेकवचनमेवोत्सर्गतः ।
त्वया मया अन्यैश्च भूयते । बभूवे ॥
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशे ऽज्झनग्रहदृशां वा चिण्वदिट् च

757

उपदेशे यो ऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । चिण्वद्भावपक्षे ऽयमिट् । चिण्वद्भावाद् वृद्धिः । भाविता, भविता । भाविष्यते, भविष्यते । भूयताम् । अभूयत । भाविषीष्ट, भविषीष्ट ॥
चिण् भावकर्मणोः

758

च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत, अभविष्यत । अकर्मको ऽप्युपसर्गवशात्सकर्मकः । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम्, अन्वभविषाताम् । णिलोपः । भाव्यते । भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे । चिण्वदिट् । आभीयत्वेना सिद्धत्वाण्णिलोपः । भाविता, भावयिता । भाविष्यते, भावयिष्यते । अभाव्यत । भाव्येत । भाविषीष्ट, भावयिषीष्ट । अभावि । अभाविषाताम्, अभावयिषाताम् ॥ बुभूष्यते ॥ अकृत्सार्वधातुकयोर्दीर्घः । स्तूयते विष्णुः । स्ताविता, स्तोता । स्ताविष्यते, स्तोष्यते । अस्तावि । अस्ताविषाताम्, अस्तोषाताम् ॥ ऋ गतौ । गुणोर्ऽतीति गुणः । अर्यते ॥ स्मृ स्मरणे । स्मर्यते । सस्मरे । उपदेशग्रहणाच्चिण्वदिट् । आरिता, अर्ता । स्मारिता, स्मर्ता । अनिदितामिति नलोपः । त्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते ॥
तनोतेर्यकि

759

आकारो ऽन्तादेशो वा स्यात् । तायते, तन्यते ॥
तपो ऽनुतापे च

760

तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । घुमास्थेतीत्त्वम् । दीयते । धीयते । ददे ॥
आतो युक् चिण्कृतोः

761

आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च । दायिता, दाता । दायिषीष्ट, दासीष्ट । अदायि । अदायिषाताम् ॥ भज्यते ॥
भञ्जेश्च चिणि

762

नलोपो वा स्यात् । अभाजि, अभञ्जि ॥ लभ्यते ॥
विभाषा चिण्णमुलोः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc