भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 723-742

723

यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात् । भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभोतु, तेतिक्ते इति छन्दसि निपातनात् । बोभवीति, बोभोति । बोभूतः । अदभ्यस्तात् । बोभुवति । बोभवाञ्चकार, बोभवामास । बोभविता । बोभविष्यति । बोभवीतु, बोभोतु, बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । अबोभवीत्, अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभूयास्ताम् । बोभूयासुः । गातिस्थेति सिचो लुक् । यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत्, अबोभोत् । अबोभूताम् । अबोभूवुः । अबोभविष्यत् ॥ .
इति यङ्लुक् प्रक्रिया ॥
अथ नामधातवः
सुप आत्मनः क्यच्

724

इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् ॥
सुपो धातुप्रातिपदिकयोः

725

एतयोरवयवस्य सुपो लुक् ॥
क्यचि च

726

अवर्णस्य ईः । आत्मनः पुत्रमिच्छति पुत्रीयति ॥
नः क्ये

727

क्यचि क्यङि च नान्तमेव पदं नान्यत् । नलोपः । राजीयति । नान्तमेवेति किम्? वाच्यति । हलि च । गीर्यति । पूर्यति । धातोरित्येव । नेह - दिवमिच्छति दिव्यति ॥
क्यस्य विभाषा

728

हलः परयोः क्यच्क्यङारेलोपो वार्धधातुके । आदेः परस्य । अतो लोपः । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता, समिध्यिता ॥
काम्यच्च

729

उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । पुत्रकाम्यिता ॥
उपमानादाचारे

730

उपमानात्कर्मणः सुबन्तादाचारेर्ऽथे क्यच् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् ॥ (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्य ः) । अतो गुणे । कृष्ण इवाचरति कृष्णति । स्व इवाचरति स्वति । सस्वौ ॥
अनुनासिकस्य क्विझलोः क्ङिति

731

अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति ॥
कष्टाय क्रमणे

732

चतुर्थ्यन्तात् कष्टशब्दादुत्साहेर्ऽथे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ॥
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे

733

एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते ॥ (ग.सू) तत्करोति तदाचष्टे ; इति णिच् ॥ (ग.सू) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप- विन्मतुब्लोप-यणादिलोप-प्रस्थस्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । इत्यल्लोपः । घटं करोत्याचष्टे वा घटयति ॥
इति नामधातवः
अथ कण्ड्वादयः ॥
कण्ड्वादिभ्यो यक्

734

एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे । कण्डूञ् गात्रविघर्षणे ॥ 1 ॥ कण्डूयति । कण्डूयत इत्यादि ॥
इति कण्ड्वादयः ॥
अथात्मनेपदप्रक्रिया
कर्तरि कर्मव्यतिहारे

735

क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥
न गतिहिंसार्थेभ्यः

736

व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥
नेर्विशः

737

निविशते ॥
परिव्यवेभ्यः क्रियः

738

परिक्रीणीते । विक्रीणीते । अवक्रीणीते ॥
विपराभ्यां जेः

739

विजयते । पराजयते ॥
समवप्रविभ्यः स्थः

740

संतिष्ठते । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते ॥
अपह्नवे ज्ञः

741

शतमपजानीते । अपलपतीत्यर्थः ॥
अकर्मकाच्च

742

सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तत इत्यर्थः ॥
उदश्चरः सकर्मकात्

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc