भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 703-722

703

कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥
हेतुमति च

704

प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति ॥
ओः पुयण्ज्यपरे

705

सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः ॥ अबीभवत् ॥ ष्ठा गतिनिवृत्तौ ॥
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ

706

स्थापयति ॥
तिष्ठतेरित्

707

उपधाया इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ॥ घट चेष्टायाम् ॥
मितां ह्रस्वः

708

घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ । घटयति ॥ ज्ञप ज्ञाने ज्ञापने च ॥ ज्ञपयति । अजिज्ञपत् ॥
इति ण्यन्तप्रक्रिया
अथ सन्नन्तप्रक्रिया
धातोः कर्मणः समानकर्तृकादिच्छायां वा

709

इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् ॥ पठ व्यक्तायां वाचि ॥
सन्यङोः

710

सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तो ऽजादेस्तु द्वितीयस्य । सन्यतः । पठितुमिच्छति पिपठिषति । कर्मणः किम् ? गमनेनेच्छति । समान कर्तृकात् किम् ? शिष्याः पठन्त्वितीच्छति गुरुः । वा ग्रहणाद्वाक्यमपि ॥ लुङ्सनोर्घसॢ ॥
सः स्यार्धधातुके

711

सस्य तः स्यात्सादावार्धधातुके । अत्तुमिच्छति जिघत्सति । एकाच इति नेट् ॥
अज्झनगमां सनि

712

अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि ॥
इको झल्

713

इगन्ताज्झलादिः सन् कित् स्यात् । ॠत इद्धातोः । कर्तुमिच्छति चिकीर्षति ॥
सनि ग्रहगुहोश्च

714

ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात् । बुभूषति ॥
इति सन्नन्तप्रक्रिया ॥
अथ यङन्तप्रक्रिया
धातोरेकाचो हलादेः क्रियासमभिहारे यङ्

715

पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् ॥
गुणो यङ्लुकोः

716

अभ्यासस्य गुणो यङि यङ्लुकि च परतः । ङिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयाञ्चक्रे । अबोभूयिष्ट ॥
नित्यं कौटिल्ये गतौ

717

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे ॥
दीर्घो ऽकितः

718

अकितो ऽभ्यासस्य दीर्घो यङ्यङ्लुकोः । कुटिलं व्रजति वाव्रज्यते ॥
यस्य हलः

719

यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोप आर्धधातुके । आदेः परस्य । अतो लोपः । वाव्रजाञ्चक्रे । वाव्रजिता ॥
रीगृदुपधस्य च

720

ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः । वरीवृत्यते । वरीवृताञ्चक्रे । वरीवर्तिता ॥
क्षुभ्नादिषु च

721

णत्वं न । नरीनृत्यते । जरीगृह्यते ॥
इति यङन्त प्रक्रिया ॥
अथ यङ्लुक् प्रक्रिया
यङोऽचि च

722

यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित् । अनैमित्तिको ऽय मन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरीति परस्मैपदम् । चर्करीतं चेत्यदादौ पाठाच्छपो लुक् ॥
यङो वा

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc